Vana Parva, Adhyaya 238, Verse 1
चित्रसेनं समागम्य प्रहसन्नर्जुनस्तदा
इदं वचनमक्लीबमब्रवीत्परवीरहा
Containing 49 sacred Sanskrit shlokas with multi-author commentaries and translations.
चित्रसेनं समागम्य प्रहसन्नर्जुनस्तदा
इदं वचनमक्लीबमब्रवीत्परवीरहा
भ्रातॄनर्हसि नो वीर मोक्तुं गन्धर्वसत्तम
अनर्हा धर्षणं हीमे जीवमानेषु पाण्डुषु
एवमुक्तस्तु गन्धर्वः पाण्डवेन महात्मना
उवाच यत्कर्ण वयं मन्त्रयन्तो विनिर्गताः
द्रष्टारः स्म सुखाद्धीनान्सदारान्पाण्डवानिति
तस्मिन्नुच्चार्यमाणे तु गन्धर्वेण वचस्यथ
भूमेर्विवरमन्वैच्छं प्रवेष्टुं व्रीडयान्वितः
युधिष्ठिरमथागम्य गन्धर्वाः सह पाण्डवैः
अस्मद्दुर्मन्त्रितं तस्मै बद्धांश्चास्मान्न्यवेदयन्
स्त्रीसमक्षमहं दीनो बद्धः शत्रुवशं गतः
युधिष्ठिरस्योपहृतः किं नु दुःखमतः परम्
ये मे निराकृता नित्यं रिपुर्येषामहं सदा
तैर्मोक्षितोऽहं दुर्बुद्धिर्दत्तं तैर्जीवितं च मे
प्राप्तः स्यां यद्यहं वीर वधं तस्मिन्महारणे
श्रेयस्तद्भविता मह्यमेवंभूतं न जीवितम्
भवेद्यशः पृथिव्यां मे ख्यातं गन्धर्वतो वधात्
प्राप्ताश्च लोकाः पुण्याः स्युर्महेन्द्रसदनेऽक्षयाः
यत्त्वद्य मे व्यवसितं तच्छृणुध्वं नरर्षभाः
इह प्रायमुपासिष्ये यूयं व्रजत वै गृहान्
भ्रातरश्चैव मे सर्वे प्रयान्त्वद्य पुरं प्रति
कर्णप्रभृतयश्चैव सुहृदो बान्धवाश्च ये
दुःशासनं पुरस्कृत्य प्रयान्त्वद्य पुरं प्रति
न ह्यहं प्रतियास्यामि पुरं शत्रुनिराकृतः
शत्रुमानापहो भूत्वा सुहृदां मानकृत्तथा
स सुहृच्छोकदो भूत्वा शत्रूणां हर्षवर्धनः
वारणाह्वयमासाद्य किं वक्ष्यामि जनाधिपम्
भीष्मो द्रोणः कृपो द्रौणिर्विदुरः संजयस्तथा
बाह्लीकः सोमदत्तश्च ये चान्ये वृद्धसंमताः
ब्राह्मणाः श्रेणिमुख्याश्च तथोदासीनवृत्तयः
किं मां वक्ष्यन्ति किं चापि प्रतिवक्ष्यामि तानहम्
रिपूणां शिरसि स्थित्वा तथा विक्रम्य चोरसि
आत्मदोषात्परिभ्रष्टः कथं वक्ष्यामि तानहम्
दुर्विनीताः श्रियं प्राप्य विद्यामैश्वर्यमेव च
तिष्ठन्ति न चिरं भद्रे यथाहं मदगर्वितः
अहो बत यथेदं मे कष्टं दुश्चरितं कृतम्
स्वयं दुर्बुद्धिना मोहाद्येन प्राप्तोऽस्मि संशयम्
तस्मात्प्रायमुपासिष्ये न हि शक्ष्यामि जीवितुम्
चेतयानो हि को जीवेत्कृच्छ्राच्छत्रुभिरुद्धृतः
शत्रुभिश्चावहसितो मानी पौरुषवर्जितः
पाण्डवैर्विक्रमाढ्यैश्च सावमानमवेक्षितः
एवं चिन्तापरिगतो दुःशासनमथाब्रवीत्
दुःशासन निबोधेदं वचनं मम भारत
प्रतीच्छ त्वं मया दत्तमभिषेकं नृपो भव
प्रशाधि पृथिवीं स्फीतां कर्णसौबलपालिताम्
भ्रातॄन्पालय विस्रब्धं मरुतो वृत्रहा यथा
बान्धवास्त्वोपजीवन्तु देवा इव शतक्रतुम्
ब्राह्मणेषु सदा वृत्तिं कुर्वीथाश्चाप्रमादतः
बन्धूनां सुहृदां चैव भवेथास्त्वं गतिः सदा
ज्ञातींश्चाप्यनुपश्येथा विष्णुर्देवगणानिव
गुरवः पालनीयास्ते गच्छ पालय मेदिनीम्
नन्दयन्सुहृदः सर्वाञ्शात्रवांश्चावभर्त्सयन्
कण्ठे चैनं परिष्वज्य गम्यतामित्युवाच ह
तस्य तद्वचनं श्रुत्वा दीनो दुःशासनोऽब्रवीत्
अश्रुकण्ठः सुदुःखार्तः प्राञ्जलिः प्रणिपत्य च
सगद्गदमिदं वाक्यं भ्रातरं ज्येष्ठमात्मनः
प्रसीदेत्यपतद्भूमौ दूयमानेन चेतसा
दुःखितः पादयोस्तस्य नेत्रजं जलमुत्सृजन्
उक्तवांश्च नरव्याघ्रो नैतदेवं भविष्यति
विदीर्येत्सनगा भूमिर्द्यौश्चापि शकलीभवेत्
रविरात्मप्रभां जह्यात्सोमः शीतांशुतां त्यजेत्
वायुः शैघ्र्यमथो जह्याद्धिमवांश्च परिव्रजेत्
शुष्येत्तोयं समुद्रेषु वह्निरप्युष्णतां त्यजेत्