Mahabharata

Vana Parva, Adhyaya 237

Containing 15 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 237, Verse 1

अजानतस्ते राधेय नाभ्यसूयाम्यहं वचः

जानासि त्वं जिताञ्शत्रून्गन्धर्वांस्तेजसा मया

Mahabharata

Vana Parva, Adhyaya 237, Verse 2

आयोधितास्तु गन्धर्वाः सुचिरं सोदरैर्मम

मया सह महाबाहो कृतश्चोभयतः क्षयः

Mahabharata

Vana Parva, Adhyaya 237, Verse 3

मायाधिकास्त्वयुध्यन्त यदा शूरा वियद्गताः

तदा नो नसमं युद्धमभवत्सह खेचरैः

Mahabharata

Vana Parva, Adhyaya 237, Verse 4

पराजयं च प्राप्ताः स्म रणे बन्धनमेव च

सभृत्यामात्यपुत्राश्च सदारधनवाहनाः

उच्चैराकाशमार्गेण ह्रियामस्तैः सुदुःखिताः

Mahabharata

Vana Parva, Adhyaya 237, Verse 5

अथ नः सैनिकाः केचिदमात्याश्च महारथान्

उपगम्याब्रुवन्दीनाः पाण्डवाञ्शरणप्रदान्

Mahabharata

Vana Parva, Adhyaya 237, Verse 6

एष दुर्योधनो राजा धार्तराष्ट्रः सहानुजः

सामात्यदारो ह्रियते गन्धर्वैर्दिवमास्थितैः

Mahabharata

Vana Parva, Adhyaya 237, Verse 7

तं मोक्षयत भद्रं वः सहदारं नराधिपम्

परामर्शो मा भविष्यत्कुरुदारेषु सर्वशः

Mahabharata

Vana Parva, Adhyaya 237, Verse 8

एवमुक्ते तु धर्मात्मा ज्येष्ठः पाण्डुसुतस्तदा

प्रसाद्य सोदरान्सर्वानाज्ञापयत मोक्षणे

Mahabharata

Vana Parva, Adhyaya 237, Verse 9

अथागम्य तमुद्देशं पाण्डवाः पुरुषर्षभाः

सान्त्वपूर्वमयाचन्त शक्ताः सन्तो महारथाः

Mahabharata

Vana Parva, Adhyaya 237, Verse 10

यदा चास्मान्न मुमुचुर्गन्धर्वाः सान्त्विता अपि

ततोऽर्जुनश्च भीमश्च यमजौ च बलोत्कटौ

मुमुचुः शरवर्षाणि गन्धर्वान्प्रत्यनेकशः

Mahabharata

Vana Parva, Adhyaya 237, Verse 11

अथ सर्वे रणं मुक्त्वा प्रयाताः खचरा दिवम्

अस्मानेवाभिकर्षन्तो दीनान्मुदितमानसाः

Mahabharata

Vana Parva, Adhyaya 237, Verse 12

ततः समन्तात्पश्यामि शरजालेन वेष्टितम्

अमानुषाणि चास्त्राणि प्रयुञ्जानं धनंजयम्

Mahabharata

Vana Parva, Adhyaya 237, Verse 13

समावृता दिशो दृष्ट्वा पाण्डवेन शितैः शरैः

धनंजयसखात्मानं दर्शयामास वै तदा

Mahabharata

Vana Parva, Adhyaya 237, Verse 14

चित्रसेनः पाण्डवेन समाश्लिष्य परंतपः

कुशलं परिपप्रच्छ तैः पृष्टश्चाप्यनामयम्

Mahabharata

Vana Parva, Adhyaya 237, Verse 15

ते समेत्य तथान्योन्यं संनाहान्विप्रमुच्य च

एकीभूतास्ततो वीरा गन्धर्वाः सह पाण्डवैः

अपूजयेतामन्योन्यं चित्रसेनधनंजयौ