Vana Parva, Adhyaya 236, Verse 1
शत्रुभिर्जितबद्धस्य पाण्डवैश्च महात्मभिः
मोक्षितस्य युधा पश्चान्मानस्थस्य दुरात्मनः
Containing 15 sacred Sanskrit shlokas with multi-author commentaries and translations.
शत्रुभिर्जितबद्धस्य पाण्डवैश्च महात्मभिः
मोक्षितस्य युधा पश्चान्मानस्थस्य दुरात्मनः
कत्थनस्यावलिप्तस्य गर्वितस्य च नित्यशः
सदा च पौरुषौदार्यैः पाण्डवानवमन्यतः
दुर्योधनस्य पापस्य नित्याहंकारवादिनः
प्रवेशो हास्तिनपुरे दुष्करः प्रतिभाति मे
तस्य लज्जान्वितस्यैव शोकव्याकुलचेतसः
प्रवेशं विस्तरेण त्वं वैशंपायन कीर्तय
धर्मराजनिसृष्टस्तु धार्तराष्ट्रः सुयोधनः
लज्जयाधोमुखः सीदन्नुपासर्पत्सुदुःखितः
स्वपुरं प्रययौ राजा चतुरङ्गबलानुगः
शोकोपहतया बुद्ध्या चिन्तयानः पराभवम्
विमुच्य पथि यानानि देशे सुयवसोदके
संनिविष्टः शुभे रम्ये भूमिभागे यथेप्सितम्
हस्त्यश्वरथपादातं यथास्थानं न्यवेशयत्
अथोपविष्टं राजानं पर्यङ्के ज्वलनप्रभे
उपप्लुतं यथा सोमं राहुणा रात्रिसंक्षये
उपगम्याब्रवीत्कर्णो दुर्योधनमिदं तदा
दिष्ट्या जीवसि गान्धारे दिष्ट्या नः संगमः पुनः
दिष्ट्या त्वया जिताश्चैव गन्धर्वाः कामरूपिणः
दिष्ट्या समग्रान्पश्यामि भ्रातॄंस्ते कुरुनन्दन
विजिगीषून्रणान्मुक्तान्निर्जितारीन्महारथान्
अहं त्वभिद्रुतः सर्वैर्गन्धर्वैः पश्यतस्तव
नाशक्नुवं स्थापयितुं दीर्यमाणां स्ववाहिनीम्
शरक्षताङ्गश्च भृशं व्यपयातोऽभिपीडितः
इदं त्वत्यद्भुतं मन्ये यद्युष्मानिह भारत
अरिष्टानक्षतांश्चापि सदारधनवाहनान्
विमुक्तान्संप्रपश्यामि तस्माद्युद्धादमानुषात्
नैतस्य कर्ता लोकेऽस्मिन्पुमान्विद्येत भारत
यत्कृतं ते महाराज सह भ्रातृभिराहवे
एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा
उवाचावाक्शिरा राजन्बाष्पगद्गदया गिरा