Mahabharata

Vana Parva, Adhyaya 235

Containing 25 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 235, Verse 1

ततोऽर्जुनश्चित्रसेनं प्रहसन्निदमब्रवीत्

मध्ये गन्धर्वसैन्यानां महेष्वासो महाद्युतिः

Mahabharata

Vana Parva, Adhyaya 235, Verse 2

किं ते व्यवसितं वीर कौरवाणां विनिग्रहे

किमर्थं च सदारोऽयं निगृहीतः सुयोधनः

Mahabharata

Vana Parva, Adhyaya 235, Verse 3

विदितोऽयमभिप्रायस्तत्रस्थेन महात्मना

दुर्योधनस्य पापस्य कर्णस्य च धनंजय

Mahabharata

Vana Parva, Adhyaya 235, Verse 4

वनस्थान्भवतो ज्ञात्वा क्लिश्यमानाननर्हवत्

इमेऽवहसितुं प्राप्ता द्रौपदीं च यशस्विनीम्

Mahabharata

Vana Parva, Adhyaya 235, Verse 5

ज्ञात्वा चिकीर्षितं चैषां मामुवाच सुरेश्वरः

गच्छ दुर्योधनं बद्ध्वा सामात्यं त्वमिहानय

Mahabharata

Vana Parva, Adhyaya 235, Verse 6

धनंजयश्च ते रक्ष्यः सह भ्रातृभिराहवे

स हि प्रियः सखा तुभ्यं शिष्यश्च तव पाण्डवः

Mahabharata

Vana Parva, Adhyaya 235, Verse 7

वचनाद्देवराजस्य ततोऽस्मीहागतो द्रुतम्

अयं दुरात्मा बद्धश्च गमिष्यामि सुरालयम्

Mahabharata

Vana Parva, Adhyaya 235, Verse 8

उत्सृज्यतां चित्रसेन भ्रातास्माकं सुयोधनः

धर्मराजस्य संदेशान्मम चेदिच्छसि प्रियम्

Mahabharata

Vana Parva, Adhyaya 235, Verse 9

पापोऽयं नित्यसंदुष्टो न विमोक्षणमर्हति

प्रलब्धा धर्मराजस्य कृष्णायाश्च धनंजय

Mahabharata

Vana Parva, Adhyaya 235, Verse 10

नेदं चिकीर्षितं तस्य कुन्तीपुत्रो महाव्रतः

जानाति धर्मराजो हि श्रुत्वा कुरु यथेच्छसि

Mahabharata

Vana Parva, Adhyaya 235, Verse 11

ते सर्व एव राजानमभिजग्मुर्युधिष्ठिरम्

अभिगम्य च तत्सर्वं शशंसुस्तस्य दुष्कृतम्

Mahabharata

Vana Parva, Adhyaya 235, Verse 12

अजातशत्रुस्तच्छ्रुत्वा गन्धर्वस्य वचस्तदा

मोक्षयामास तान्सर्वान्गन्धर्वान्प्रशशंस च

Mahabharata

Vana Parva, Adhyaya 235, Verse 13

दिष्ट्या भवद्भिर्बलिभिः शक्तैः सर्वैर्न हिंसितः

दुर्वृत्तो धार्तराष्ट्रोऽयं सामात्यज्ञातिबान्धवः

Mahabharata

Vana Parva, Adhyaya 235, Verse 14

उपकारो महांस्तात कृतोऽयं मम खेचराः

कुलं न परिभूतं मे मोक्षेणास्य दुरात्मनः

Mahabharata

Vana Parva, Adhyaya 235, Verse 15

आज्ञापयध्वमिष्टानि प्रीयामो दर्शनेन वः

प्राप्य सर्वानभिप्रायांस्ततो व्रजत माचिरम्

Mahabharata

Vana Parva, Adhyaya 235, Verse 16

अनुज्ञातास्तु गन्धर्वाः पाण्डुपुत्रेण धीमता

सहाप्सरोभिः संहृष्टाश्चित्रसेनमुखा ययुः

Mahabharata

Vana Parva, Adhyaya 235, Verse 17

देवराडपि गन्धर्वान्मृतांस्तान्समजीवयत्

दिव्येनामृतवर्षेण ये हताः कौरवैर्युधि

Mahabharata

Vana Parva, Adhyaya 235, Verse 18

ज्ञातींस्तानवमुच्याथ राजदारांश्च सर्वशः

कृत्वा च दुष्करं कर्म प्रीतियुक्ताश्च पाण्डवाः

Mahabharata

Vana Parva, Adhyaya 235, Verse 19

सस्त्रीकुमारैः कुरुभिः पूज्यमाना महारथाः

बभ्राजिरे महात्मानः कुरुमध्ये यथाग्नयः

Mahabharata

Vana Parva, Adhyaya 235, Verse 20

ततो दुर्योधनं मुच्य भ्रातृभिः सहितं तदा

युधिष्ठिरः सप्रणयमिदं वचनमब्रवीत्

Mahabharata

Vana Parva, Adhyaya 235, Verse 21

मा स्म तात पुनः कार्षीरीदृशं साहसं क्वचित्

न हि साहसकर्तारः सुखमेधन्ति भारत

Mahabharata

Vana Parva, Adhyaya 235, Verse 22

स्वस्तिमान्सहितः सर्वैर्भ्रातृभिः कुरुनन्दन

गृहान्व्रज यथाकामं वैमनस्यं च मा कृथाः

Mahabharata

Vana Parva, Adhyaya 235, Verse 23

पाण्डवेनाभ्यनुज्ञातो राजा दुर्योधनस्तदा

विदीर्यमाणो व्रीडेन जगाम नगरं प्रति

Mahabharata

Vana Parva, Adhyaya 235, Verse 24

तस्मिन्गते कौरवेये कुन्तीपुत्रो युधिष्ठिरः

भ्रातृभिः सहितो वीरः पूज्यमानो द्विजातिभिः

Mahabharata

Vana Parva, Adhyaya 235, Verse 25

तपोधनैश्च तैः सर्वैर्वृतः शक्र इवामरैः

वने द्वैतवने तस्मिन्विजहार मुदा युतः