Mahabharata

Vana Parva, Adhyaya 234

Containing 28 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 234, Verse 1

ततो दिव्यास्त्रसंपन्ना गन्धर्वा हेममालिनः

विसृजन्तः शरान्दीप्तान्समन्तात्पर्यवारयन्

Mahabharata

Vana Parva, Adhyaya 234, Verse 2

चत्वारः पाण्डवा वीरा गन्धर्वाश्च सहस्रशः

रणे संन्यपतन्राजंस्तदद्भुतमिवाभवत्

Mahabharata

Vana Parva, Adhyaya 234, Verse 3

यथा कर्णस्य च रथो धार्तराष्ट्रस्य चोभयोः

गन्धर्वैः शतशश्छिन्नौ तथा तेषां प्रचक्रिरे

Mahabharata

Vana Parva, Adhyaya 234, Verse 4

तान्समापततो राजन्गन्धर्वाञ्शतशो रणे

प्रत्यगृह्णन्नरव्याघ्राः शरवर्षैरनेकशः

Mahabharata

Vana Parva, Adhyaya 234, Verse 5

अवकीर्यमाणाः खगमाः शरवर्षैः समन्ततः

न शेकुः पाण्डुपुत्राणां समीपे परिवर्तितुम्

Mahabharata

Vana Parva, Adhyaya 234, Verse 6

अभिक्रुद्धानभिप्रेक्ष्य गन्धर्वानर्जुनस्तदा

लक्षयित्वाथ दिव्यानि महास्त्राण्युपचक्रमे

Mahabharata

Vana Parva, Adhyaya 234, Verse 7

सहस्राणां सहस्रं स प्राहिणोद्यमसादनम्

आग्नेयेनार्जुनः संख्ये गन्धर्वाणां बलोत्कटः

Mahabharata

Vana Parva, Adhyaya 234, Verse 8

तथा भीमो महेष्वासः संयुगे बलिनां वरः

गन्धर्वाञ्शतशो राजञ्जघान निशितैः शरैः

Mahabharata

Vana Parva, Adhyaya 234, Verse 9

माद्रीपुत्रावपि तथा युध्यमानौ बलोत्कटौ

परिगृह्याग्रतो राजञ्जघ्नतुः शतशः परान्

Mahabharata

Vana Parva, Adhyaya 234, Verse 10

ते वध्यमाना गन्धर्वा दिव्यैरस्त्रैर्महात्मभिः

उत्पेतुः खमुपादाय धृतराष्ट्रसुतांस्ततः

Mahabharata

Vana Parva, Adhyaya 234, Verse 11

तानुत्पतिष्णून्बुद्ध्वा तु कुन्तीपुत्रो धनंजयः

महता शरजालेन समन्तात्पर्यवारयत्

Mahabharata

Vana Parva, Adhyaya 234, Verse 12

ते बद्धाः शरजालेन शकुन्ता इव पञ्जरे

ववर्षुरर्जुनं क्रोधाद्गदाशक्त्यृष्टिवृष्टिभिः

Mahabharata

Vana Parva, Adhyaya 234, Verse 13

गदाशक्त्यसिवृष्टीस्ता निहत्य स महास्त्रवित्

गात्राणि चाहनद्भल्लैर्गन्धर्वाणां धनंजयः

Mahabharata

Vana Parva, Adhyaya 234, Verse 14

शिरोभिः प्रपतद्भिश्च चरणैर्बाहुभिस्तथा

अश्मवृष्टिरिवाभाति परेषामभवद्भयम्

Mahabharata

Vana Parva, Adhyaya 234, Verse 15

ते वध्यमाना गन्धर्वाः पाण्डवेन महात्मना

भूमिष्ठमन्तरिक्षस्थाः शरवर्षैरवाकिरन्

Mahabharata

Vana Parva, Adhyaya 234, Verse 16

तेषां तु शरवर्षाणि सव्यसाची परंतपः

अस्त्रैः संवार्य तेजस्वी गन्धर्वान्प्रत्यविध्यत

Mahabharata

Vana Parva, Adhyaya 234, Verse 17

स्थूणाकर्णेन्द्रजालं च सौरं चापि तथार्जुनः

आग्नेयं चापि सौम्यं च ससर्ज कुरुनन्दनः

Mahabharata

Vana Parva, Adhyaya 234, Verse 18

ते दह्यमाना गन्धर्वाः कुन्तीपुत्रस्य सायकैः

दैतेया इव शक्रेण विषादमगमन्परम्

Mahabharata

Vana Parva, Adhyaya 234, Verse 19

ऊर्ध्वमाक्रममाणाश्च शरजालेन वारिताः

विसर्पमाणा भल्लैश्च वार्यन्ते सव्यसाचिना

Mahabharata

Vana Parva, Adhyaya 234, Verse 20

गन्धर्वांस्त्रासितान्दृष्ट्वा कुन्तीपुत्रेण धीमता

चित्रसेनो गदां गृह्य सव्यसाचिनमाद्रवत्

Mahabharata

Vana Parva, Adhyaya 234, Verse 21

तस्याभिपततस्तूर्णं गदाहस्तस्य संयुगे

गदां सर्वायसीं पार्थः शरैश्चिच्छेद सप्तधा

Mahabharata

Vana Parva, Adhyaya 234, Verse 22

स गदां बहुधा दृष्ट्वा कृत्तां बाणैस्तरस्विना

संवृत्य विद्ययात्मानं योधयामास पाण्डवम्

अस्त्राणि तस्य दिव्यानि योधयामास खे स्थितः

Mahabharata

Vana Parva, Adhyaya 234, Verse 23

गन्धर्वराजो बलवान्माययान्तर्हितस्तदा

अन्तर्हितं समालक्ष्य प्रहरन्तमथार्जुनः

ताडयामास खचरैर्दिव्यास्त्रप्रतिमन्त्रितैः

Mahabharata

Vana Parva, Adhyaya 234, Verse 24

अन्तर्धानवधं चास्य चक्रे क्रुद्धोऽर्जुनस्तदा

शब्दवेध्यमुपाश्रित्य बहुरूपो धनंजयः

Mahabharata

Vana Parva, Adhyaya 234, Verse 25

स वध्यमानस्तैरस्त्रैरर्जुनेन महात्मना

अथास्य दर्शयामास तदात्मानं प्रियः सखा

Mahabharata

Vana Parva, Adhyaya 234, Verse 26

चित्रसेनमथालक्ष्य सखायं युधि दुर्बलम्

संजहारास्त्रमथ तत्प्रसृष्टं पाण्डवर्षभः

Mahabharata

Vana Parva, Adhyaya 234, Verse 27

दृष्ट्वा तु पाण्डवाः सर्वे संहृतास्त्रं धनंजयम्

संजह्रुः प्रद्रुतानश्वाञ्शरवेगान्धनूंषि च

Mahabharata

Vana Parva, Adhyaya 234, Verse 28

चित्रसेनश्च भीमश्च सव्यसाची यमावपि

पृष्ट्वा कौशलमन्योन्यं रथेष्वेवावतस्थिरे