Mahabharata

Vana Parva, Adhyaya 233

Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 233, Verse 1

युधिष्ठिरवचः श्रुत्वा भीमसेनपुरोगमाः

प्रहृष्टवदनाः सर्वे समुत्तस्थुर्नरर्षभाः

Mahabharata

Vana Parva, Adhyaya 233, Verse 2

अभेद्यानि ततः सर्वे समनह्यन्त भारत

जाम्बूनदविचित्राणि कवचानि महारथाः

Mahabharata

Vana Parva, Adhyaya 233, Verse 3

ते दंशिता रथैः सर्वे ध्वजिनः सशरासनाः

पाण्डवाः प्रत्यदृश्यन्त ज्वलिता इव पावकाः

Mahabharata

Vana Parva, Adhyaya 233, Verse 4

तान्रथान्साधु संपन्नान्संयुक्ताञ्जवनैर्हयैः

आस्थाय रथशार्दूलाः शीघ्रमेव ययुस्ततः

Mahabharata

Vana Parva, Adhyaya 233, Verse 5

ततः कौरवसैन्यानां प्रादुरासीन्महास्वनः

प्रयातान्सहितान्दृष्ट्वा पाण्डुपुत्रान्महारथान्

Mahabharata

Vana Parva, Adhyaya 233, Verse 6

जितकाशिनश्च खचरास्त्वरिताश्च महारथाः

क्षणेनैव वने तस्मिन्समाजग्मुरभीतवत्

Mahabharata

Vana Parva, Adhyaya 233, Verse 7

न्यवर्तन्त ततः सर्वे गन्धर्वा जितकाशिनः

दृष्ट्वा रथगतान्वीरान्पाण्डवांश्चतुरो रणे

Mahabharata

Vana Parva, Adhyaya 233, Verse 8

तांस्तु विभ्राजतो दृष्ट्वा लोकपालानिवोद्यतान्

व्यूढानीका व्यतिष्ठन्त गन्धमादनवासिनः

Mahabharata

Vana Parva, Adhyaya 233, Verse 9

राज्ञस्तु वचनं श्रुत्वा धर्मराजस्य धीमतः

क्रमेण मृदुना युद्धमुपक्रामन्त भारत

Mahabharata

Vana Parva, Adhyaya 233, Verse 10

न तु गन्धर्वराजस्य सैनिका मन्दचेतसः

शक्यन्ते मृदुना श्रेयः प्रतिपादयितुं तदा

Mahabharata

Vana Parva, Adhyaya 233, Verse 11

ततस्तान्युधि दुर्धर्षः सव्यसाची परंतपः

सान्त्वपूर्वमिदं वाक्यमुवाच खचरान्रणे

Mahabharata

Vana Parva, Adhyaya 233, Verse 12

नैतद्गन्धर्वराजस्य युक्तं कर्म जुगुप्सितम्

परदाराभिमर्शश्च मानुषैश्च समागमः

Mahabharata

Vana Parva, Adhyaya 233, Verse 13

उत्सृजध्वं महावीर्यान्धृतराष्ट्रसुतानिमान्

दारांश्चैषां विमुञ्चध्वं धर्मराजस्य शासनात्

Mahabharata

Vana Parva, Adhyaya 233, Verse 14

एवमुक्तास्तु गन्धर्वाः पाण्डवेन यशस्विना

उत्स्मयन्तस्तदा पार्थमिदं वचनमब्रुवन्

Mahabharata

Vana Parva, Adhyaya 233, Verse 15

एकस्यैव वयं तात कुर्याम वचनं भुवि

यस्य शासनमाज्ञाय चराम विगतज्वराः

Mahabharata

Vana Parva, Adhyaya 233, Verse 16

तेनैकेन यथादिष्टं तथा वर्ताम भारत

न शास्ता विद्यतेऽस्माकमन्यस्तस्मात्सुरेश्वरात्

Mahabharata

Vana Parva, Adhyaya 233, Verse 17

एवमुक्तस्तु गन्धर्वैः कुन्तीपुत्रो धनंजयः

गन्धर्वान्पुनरेवेदं वचनं प्रत्यभाषत

Mahabharata

Vana Parva, Adhyaya 233, Verse 18

यदि साम्ना न मोक्षध्वं गन्धर्वा धृतराष्ट्रजम्

मोक्षयिष्यामि विक्रम्य स्वयमेव सुयोधनम्

Mahabharata

Vana Parva, Adhyaya 233, Verse 19

एवमुक्त्वा ततः पार्थः सव्यसाची धनंजयः

ससर्ज निशितान्बाणान्खचरान्खचरान्प्रति

Mahabharata

Vana Parva, Adhyaya 233, Verse 20

तथैव शरवर्षेण गन्धर्वास्ते बलोत्कटाः

पाण्डवानभ्यवर्तन्त पाण्डवाश्च दिवौकसः

Mahabharata

Vana Parva, Adhyaya 233, Verse 21

ततः सुतुमुलं युद्धं गन्धर्वाणां तरस्विनाम्

बभूव भीमवेगानां पाण्डवानां च भारत