Mahabharata

Vana Parva, Adhyaya 232

Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 232, Verse 1

अस्मानभिगतांस्तात भयार्ताञ्शरणैषिणः

कौरवान्विषमप्राप्तान्कथं ब्रूयास्त्वमीदृशम्

Mahabharata

Vana Parva, Adhyaya 232, Verse 2

भवन्ति भेदा ज्ञातीनां कलहाश्च वृकोदर

प्रसक्तानि च वैराणि ज्ञातिधर्मो न नश्यति

Mahabharata

Vana Parva, Adhyaya 232, Verse 3

यदा तु कश्चिज्ज्ञातीनां बाह्यः प्रार्थयते कुलम्

न मर्षयन्ति तत्सन्तो बाह्येनाभिप्रमर्षणम्

Mahabharata

Vana Parva, Adhyaya 232, Verse 4

जानाति ह्येष दुर्बुद्धिरस्मानिह चिरोषितान्

स एष परिभूयास्मानकार्षीदिदमप्रियम्

Mahabharata

Vana Parva, Adhyaya 232, Verse 5

दुर्योधनस्य ग्रहणाद्गन्धर्वेण बलाद्रणे

स्त्रीणां बाह्याभिमर्शाच्च हतं भवति नः कुलम्

Mahabharata

Vana Parva, Adhyaya 232, Verse 6

शरणं च प्रपन्नानां त्राणार्थं च कुलस्य नः

उत्तिष्ठध्वं नरव्याघ्राः सज्जीभवत माचिरम्

Mahabharata

Vana Parva, Adhyaya 232, Verse 7

अर्जुनश्च यमौ चैव त्वं च भीमापराजितः

मोक्षयध्वं धार्तराष्ट्रं ह्रियमाणं सुयोधनम्

Mahabharata

Vana Parva, Adhyaya 232, Verse 8

एते रथा नरव्याघ्राः सर्वशस्त्रसमन्विताः

इन्द्रसेनादिभिः सूतैः संयताः कनकध्वजाः

Mahabharata

Vana Parva, Adhyaya 232, Verse 9

एतानास्थाय वै तात गन्धर्वान्योद्धुमाहवे

सुयोधनस्य मोक्षाय प्रयतध्वमतन्द्रिताः

Mahabharata

Vana Parva, Adhyaya 232, Verse 10

य एव कश्चिद्राजन्यः शरणार्थमिहागतम्

परं शक्त्याभिरक्षेत किं पुनस्त्वं वृकोदर

Mahabharata

Vana Parva, Adhyaya 232, Verse 11

क इहान्यो भवेत्त्राणमभिधावेति चोदितः

प्राञ्जलिं शरणापन्नं दृष्ट्वा शत्रुमपि ध्रुवम्

Mahabharata

Vana Parva, Adhyaya 232, Verse 12

वरप्रदानं राज्यं च पुत्रजन्म च पाण्डव

शत्रोश्च मोक्षणं क्लेशात्त्रीणि चैकं च तत्समम्

Mahabharata

Vana Parva, Adhyaya 232, Verse 13

किं ह्यभ्यधिकमेतस्माद्यदापन्नः सुयोधनः

त्वद्बाहुबलमाश्रित्य जीवितं परिमार्गति

Mahabharata

Vana Parva, Adhyaya 232, Verse 14

स्वयमेव प्रधावेयं यदि न स्याद्वृकोदर

विततोऽयं क्रतुर्वीर न हि मेऽत्र विचारणा

Mahabharata

Vana Parva, Adhyaya 232, Verse 15

साम्नैव तु यथा भीम मोक्षयेथाः सुयोधनम्

तथा सर्वैरुपायैस्त्वं यतेथाः कुरुनन्दन

Mahabharata

Vana Parva, Adhyaya 232, Verse 16

न साम्ना प्रतिपद्येत यदि गन्धर्वराडसौ

पराक्रमेण मृदुना मोक्षयेथाः सुयोधनम्

Mahabharata

Vana Parva, Adhyaya 232, Verse 17

अथासौ मृदुयुद्धेन न मुञ्चेद्भीम कौरवान्

सर्वोपायैर्विमोच्यास्ते निगृह्य परिपन्थिनः

Mahabharata

Vana Parva, Adhyaya 232, Verse 18

एतावद्धि मया शक्यं संदेष्टुं वै वृकोदर

वैताने कर्मणि तते वर्तमाने च भारत

Mahabharata

Vana Parva, Adhyaya 232, Verse 19

अजातशत्रोर्वचनं तच्छ्रुत्वा तु धनंजयः

प्रतिजज्ञे गुरोर्वाक्यं कौरवाणां विमोक्षणम्

Mahabharata

Vana Parva, Adhyaya 232, Verse 20

यदि साम्ना न मोक्ष्यन्ति गन्धर्वा धृतराष्ट्रजान्

अद्य गन्धर्वराजस्य भूमिः पास्यति शोणितम्

Mahabharata

Vana Parva, Adhyaya 232, Verse 21

अर्जुनस्य तु तां श्रुत्वा प्रतिज्ञां सत्यवादिनः

कौरवाणां तदा राजन्पुनः प्रत्यागतं मनः