Vana Parva, Adhyaya 231, Verse 1
गन्धर्वैस्तु महाराज भग्ने कर्णे महारथे
संप्राद्रवच्चमूः सर्वा धार्तराष्ट्रस्य पश्यतः
Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.
गन्धर्वैस्तु महाराज भग्ने कर्णे महारथे
संप्राद्रवच्चमूः सर्वा धार्तराष्ट्रस्य पश्यतः
तान्दृष्ट्वा द्रवतः सर्वान्धार्तराष्ट्रान्पराङ्मुखान्
दुर्योधनो महाराज नासीत्तत्र पराङ्मुखः
तामापतन्तीं संप्रेक्ष्य गन्धर्वाणां महाचमूम्
महता शरवर्षेण सोऽभ्यवर्षदरिंदमः
अचिन्त्य शरवर्षं तु गन्धर्वास्तस्य तं रथम्
दुर्योधनं जिघांसन्तः समन्तात्पर्यवारयन्
युगमीषां वरूथं च तथैव ध्वजसारथी
अश्वांस्त्रिवेणुं तल्पं च तिलशोऽभ्यहनन्रथम्
दुर्योधनं चित्रसेनो विरथं पतितं भुवि
अभिद्रुत्य महाबाहुर्जीवग्राहमथाग्रहीत्
तस्मिन्गृहीते राजेन्द्र स्थितं दुःशासनं रथे
पर्यगृह्णन्त गन्धर्वाः परिवार्य समन्ततः
विविंशतिं चित्रसेनमादायान्ये प्रदुद्रुवुः
विन्दानुविन्दावपरे राजदारांश्च सर्वशः
सैन्यास्तु धार्तराष्ट्रस्य गन्धर्वैः समभिद्रुताः
पूर्वं प्रभग्नैः सहिताः पाण्डवानभ्ययुस्तदा
शकटापणवेश्याश्च यानयुग्यं च सर्वशः
शरणं पाण्डवाञ्जग्मुर्ह्रियमाणे महीपतौ
प्रियदर्शनो महाबाहुर्धार्तराष्ट्रो महाबलः
गन्धर्वैर्ह्रियते राजा पार्थास्तमनुधावत
दुःशासनो दुर्विषहो दुर्मुखो दुर्जयस्तथा
बद्ध्वा ह्रियन्ते गन्धर्वै राजदाराश्च सर्वशः
इति दुर्योधनामात्याः क्रोशन्तो राजगृद्धिनः
आर्ता दीनस्वराः सर्वे युधिष्ठिरमुपागमन्
तांस्तथा व्यथितान्दीनान्भिक्षमाणान्युधिष्ठिरम्
वृद्धान्दुर्योधनामात्यान्भीमसेनोऽभ्यभाषत
अन्यथा वर्तमानानामर्थो जातोऽयमन्यथा
अस्माभिर्यदनुष्ठेयं गन्धर्वैस्तदनुष्ठितम्
दुर्मन्त्रितमिदं तात राज्ञो दुर्द्यूतदेविनः
द्वेष्टारमन्ये क्लीबस्य पातयन्तीति नः श्रुतम्
तदिदं कृतं नः प्रत्यक्षं गन्धर्वैरतिमानुषम्
दिष्ट्या लोके पुमानस्ति कश्चिदस्मत्प्रिये स्थितः
येनास्माकं हृतो भार आसीनानां सुखावहः
शीतवातातपसहांस्तपसा चैव कर्शितान्
समस्थो विषमस्थान्हि द्रष्टुमिच्छति दुर्मतिः
अधर्मचारिणस्तस्य कौरव्यस्य दुरात्मनः
ये शीलमनुवर्तन्ते ते पश्यन्ति पराभवम्
अधर्मो हि कृतस्तेन येनैतदुपशिक्षितम्
अनृशंसास्तु कौन्तेयास्तस्याध्यक्षान्ब्रवीमि वः
एवं ब्रुवाणं कौन्तेयं भीमसेनममर्षणम्
न कालः परुषस्यायमिति राजाभ्यभाषत