Mahabharata

Vana Parva, Adhyaya 230

Containing 31 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 230, Verse 1

ततस्ते सहिताः सर्वे दुर्योधनमुपागमन्

अब्रुवंश्च महाराज यदूचुः कौरवं प्रति

Mahabharata

Vana Parva, Adhyaya 230, Verse 2

गन्धर्वैर्वारिते सैन्ये धार्तराष्ट्रः प्रतापवान्

अमर्षपूर्णः सैन्यानि प्रत्यभाषत भारत

Mahabharata

Vana Parva, Adhyaya 230, Verse 3

शासतैनानधर्मज्ञान्मम विप्रियकारिणः

यदि प्रक्रीडितो देवैः सर्वैः सह शतक्रतुः

Mahabharata

Vana Parva, Adhyaya 230, Verse 4

दुर्योधनवचः श्रुत्वा धार्तराष्ट्रा महाबलाः

सर्व एवाभिसंनद्धा योधाश्चापि सहस्रशः

Mahabharata

Vana Parva, Adhyaya 230, Verse 5

ततः प्रमथ्य गन्धर्वांस्तद्वनं विविशुर्बलात्

सिंहनादेन महता पूरयन्तो दिशो दश

Mahabharata

Vana Parva, Adhyaya 230, Verse 6

ततोऽपरैरवार्यन्त गन्धर्वैः कुरुसैनिकाः

ते वार्यमाणा गन्धर्वैः साम्नैव वसुधाधिप

ताननादृत्य गन्धर्वांस्तद्वनं विविशुर्महत्

Mahabharata

Vana Parva, Adhyaya 230, Verse 7

यदा वाचा न तिष्ठन्ति धार्तराष्ट्राः सराजकाः

ततस्ते खेचराः सर्वे चित्रसेने न्यवेदयन्

Mahabharata

Vana Parva, Adhyaya 230, Verse 8

गन्धर्वराजस्तान्सर्वानब्रवीत्कौरवान्प्रति

अनार्याञ्शासतेत्येवं चित्रसेनोऽत्यमर्षणः

Mahabharata

Vana Parva, Adhyaya 230, Verse 9

अनुज्ञातास्तु गन्धर्वाश्चित्रसेनेन भारत

प्रगृहीतायुधाः सर्वे धार्तराष्ट्रानभिद्रवन्

Mahabharata

Vana Parva, Adhyaya 230, Verse 10

तान्दृष्ट्वा पततः शीघ्रान्गन्धर्वानुद्यतायुधान्

सर्वे ते प्राद्रवन्संख्ये धार्तराष्ट्रस्य पश्यतः

Mahabharata

Vana Parva, Adhyaya 230, Verse 11

तान्दृष्ट्वा द्रवतः सर्वान्धार्तराष्ट्रान्पराङ्मुखान्

वैकर्तनस्तदा वीरो नासीत्तत्र पराङ्मुखः

Mahabharata

Vana Parva, Adhyaya 230, Verse 12

आपतन्तीं तु संप्रेक्ष्य गन्धर्वाणां महाचमूम्

महता शरवर्षेण राधेयः प्रत्यवारयत्

Mahabharata

Vana Parva, Adhyaya 230, Verse 13

क्षुरप्रैर्विशिखैर्भल्लैर्वत्सदन्तैस्तथायसैः

गन्धर्वाञ्शतशोऽभ्यघ्नँल्लघुत्वात्सूतनन्दनः

Mahabharata

Vana Parva, Adhyaya 230, Verse 14

पातयन्नुत्तमाङ्गानि गन्धर्वाणां महारथः

क्षणेन व्यधमत्सर्वां चित्रसेनस्य वाहिनीम्

Mahabharata

Vana Parva, Adhyaya 230, Verse 15

ते वध्यमाना गन्धर्वाः सूतपुत्रेण धीमता

भूय एवाभ्यवर्तन्त शतशोऽथ सहस्रशः

Mahabharata

Vana Parva, Adhyaya 230, Verse 16

गन्धर्वभूता पृथिवी क्षणेन समपद्यत

आपतद्भिर्महावेगैश्चित्रसेनस्य सैनिकैः

Mahabharata

Vana Parva, Adhyaya 230, Verse 17

अथ दुर्योधनो राजा शकुनिश्चापि सौबलः

दुःशासनो विकर्णश्च ये चान्ये धृतराष्ट्रजाः

न्यहनंस्तत्तदा सैन्यं रथैर्गरुडनिस्वनैः

Mahabharata

Vana Parva, Adhyaya 230, Verse 18

भूयश्च योधयामासुः कृत्वा कर्णमथाग्रतः

महता रथघोषेण हयचारेण चाप्युत

वैकर्तनं परीप्सन्तो गन्धर्वान्समवारयन्

Mahabharata

Vana Parva, Adhyaya 230, Verse 19

ततः संन्यपतन्सर्वे गन्धर्वाः कौरवैः सह

तदा सुतुमुलं युद्धमभवल्लोमहर्षणम्

Mahabharata

Vana Parva, Adhyaya 230, Verse 20

ततस्ते मृदवोऽभूवन्गन्धर्वाः शरपीडिताः

उच्चुक्रुशुश्च कौरव्या गन्धर्वान्प्रेक्ष्य पीडितान्

Mahabharata

Vana Parva, Adhyaya 230, Verse 21

गन्धर्वांस्त्रासितान्दृष्ट्वा चित्रसेनोऽत्यमर्षणः

उत्पपातासनात्क्रुद्धो वधे तेषां समाहितः

Mahabharata

Vana Parva, Adhyaya 230, Verse 22

ततो मायास्त्रमास्थाय युयुधे चित्रमार्गवित्

तयामुह्यन्त कौरव्याश्चित्रसेनस्य मायया

Mahabharata

Vana Parva, Adhyaya 230, Verse 23

एकैको हि तदा योधो धार्तराष्ट्रस्य भारत

पर्यवर्तत गन्धर्वैर्दशभिर्दशभिः सह

Mahabharata

Vana Parva, Adhyaya 230, Verse 24

ततः संपीड्यमानास्ते बलेन महता तदा

प्राद्रवन्त रणे भीता यत्र राजा युधिष्ठिरः

Mahabharata

Vana Parva, Adhyaya 230, Verse 25

भज्यमानेष्वनीकेषु धार्तराष्ट्रेषु सर्वशः

कर्णो वैकर्तनो राजंस्तस्थौ गिरिरिवाचलः

Mahabharata

Vana Parva, Adhyaya 230, Verse 26

दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः

गन्धर्वान्योधयां चक्रुः समरे भृशविक्षताः

Mahabharata

Vana Parva, Adhyaya 230, Verse 27

सर्व एव तु गन्धर्वाः शतशोऽथ सहस्रशः

जिघांसमानाः सहिताः कर्णमभ्यद्रवन्रणे

Mahabharata

Vana Parva, Adhyaya 230, Verse 28

असिभिः पट्टिशैः शूलैर्गदाभिश्च महाबलाः

सूतपुत्रं जिघांसन्तः समन्तात्पर्यवारयन्

Mahabharata

Vana Parva, Adhyaya 230, Verse 29

अन्येऽस्य युगमच्छिन्दन्ध्वजमन्ये न्यपातयन्

ईषामन्ये हयानन्ये सूतमन्ये न्यपातयन्

Mahabharata

Vana Parva, Adhyaya 230, Verse 30

अन्ये छत्रं वरूथं च बन्धुरं च तथापरे

गन्धर्वा बहुसाहस्राः खण्डशोऽभ्यहनन्रथम्