Vana Parva, Adhyaya 229, Verse 1
अथ दुर्योधनो राजा तत्र तत्र वने वसन्
जगाम घोषानभितस्तत्र चक्रे निवेशनम्
Containing 29 sacred Sanskrit shlokas with multi-author commentaries and translations.
अथ दुर्योधनो राजा तत्र तत्र वने वसन्
जगाम घोषानभितस्तत्र चक्रे निवेशनम्
रमणीये समाज्ञाते सोदके समहीरुहे
देशे सर्वगुणोपेते चक्रुरावसथं नराः
तथैव तत्समीपस्थान्पृथगावसथान्बहून्
कर्णस्य शकुनेश्चैव भ्रातॄणां चैव सर्वशः
ददर्श स तदा गावः शतशोऽथ सहस्रशः
अङ्कैर्लक्षैश्च ताः सर्वा लक्षयामास पार्थिवः
अङ्कयामास वत्सांश्च जज्ञे चोपसृतास्त्वपि
बालवत्साश्च या गावः कालयामास ता अपि
अथ स स्मारणं कृत्वा लक्षयित्वा त्रिहायनान्
वृतो गोपालकैः प्रीतो व्यहरत्कुरुनन्दनः
स च पौरजनः सर्वः सैनिकाश्च सहस्रशः
यथोपजोषं चिक्रीडुर्वने तस्मिन्यथामराः
ततो गोपाः प्रगातारः कुशला नृत्तवादिते
धार्तराष्ट्रमुपातिष्ठन्कन्याश्चैव स्वलंकृताः
स स्त्रीगणवृतो राजा प्रहृष्टः प्रददौ वसु
तेभ्यो यथार्हमन्नानि पानानि विविधानि च
ततस्ते सहिताः सर्वे तरक्षून्महिषान्मृगान्
गवयर्क्षवराहांश्च समन्तात्पर्यकालयन्
स ताञ्शरैर्विनिर्भिन्दन्गजान्बध्नन्महावने
रमणीयेषु देशेषु ग्राहयामास वै मृगान्
गोरसानुपयुञ्जान उपभोगांश्च भारत
पश्यन्सुरमणीयानि पुष्पितानि वनानि च
मत्तभ्रमरजुष्टानि बर्हिणाभिरुतानि च
अगच्छदानुपूर्व्येण पुण्यं द्वैतवनं सरः
ऋद्ध्या परमया युक्तो महेन्द्र इव वज्रभृत्
यदृच्छया च तदहो धर्मपुत्रो युधिष्ठिरः
ईजे राजर्षियज्ञेन सद्यस्केन विशां पते
दिव्येन विधिना राजा वन्येन कुरुसत्तमः
कृत्वा निवेशमभितः सरसस्तस्य कौरवः
द्रौपद्या सहितो धीमान्धर्मपत्न्या नराधिपः
ततो दुर्योधनः प्रेष्यानादिदेश सहानुजः
आक्रीडावसथाः क्षिप्रं क्रियन्तामिति भारत
ते तथेत्येव कौरव्यमुक्त्वा वचनकारिणः
चिकीर्षन्तस्तदाक्रीडाञ्जग्मुर्द्वैतवनं सरः
सेनाग्रं धार्तराष्ट्रस्य प्राप्तं द्वैतवनं सरः
प्रविशन्तं वनद्वारि गन्धर्वाः समवारयन्
तत्र गन्धर्वराजो वै पूर्वमेव विशां पते
कुबेरभवनाद्राजन्नाजगाम गणावृतः
गणैरप्सरसां चैव त्रिदशानां तथात्मजैः
विहारशीलः क्रीडार्थं तेन तत्संवृतं सरः
तेन तत्संवृतं दृष्ट्वा ते राजपरिचारकाः
प्रतिजग्मुस्ततो राजन्यत्र दुर्योधनो नृपः
स तु तेषां वचः श्रुत्वा सैनिकान्युद्धदुर्मदान्
प्रेषयामास कौरव्य उत्सारयत तानिति
तस्य तद्वचनं श्रुत्वा राज्ञः सेनाग्रयायिनः
सरो द्वैतवनं गत्वा गन्धर्वानिदमब्रुवन्
राजा दुर्योधनो नाम धृतराष्ट्रसुतो बली
विजिहीर्षुरिहायाति तदर्थमपसर्पत
एवमुक्तास्तु गन्धर्वाः प्रहसन्तो विशां पते
प्रत्यब्रुवंस्तान्पुरुषानिदं सुपरुषं वचः
न चेतयति वो राजा मन्दबुद्धिः सुयोधनः
योऽस्मानाज्ञापयत्येवं वश्यानिव दिवौकसः
यूयं मुमूर्षवश्चापि मन्दप्रज्ञा न संशयः
ये तस्य वचनादेवमस्मान्ब्रूत विचेतसः
गच्छत त्वरिताः सर्वे यत्र राजा स कौरवः
द्वेष्यं माद्यैव गच्छध्वं धर्मराजनिवेशनम्
एवमुक्तास्तु गन्धर्वै राज्ञः सेनाग्रयायिनः
संप्राद्रवन्यतो राजा धृतराष्ट्रसुतोऽभवत्