Vana Parva, Adhyaya 228, Verse 1
धृतराष्ट्रं ततः सर्वे ददृशुर्जनमेजय
पृष्ट्वा सुखमथो राज्ञः पृष्ट्वा राज्ञा च भारत
Containing 29 sacred Sanskrit shlokas with multi-author commentaries and translations.
धृतराष्ट्रं ततः सर्वे ददृशुर्जनमेजय
पृष्ट्वा सुखमथो राज्ञः पृष्ट्वा राज्ञा च भारत
ततस्तैर्विहितः पूर्वं समङ्गो नाम बल्लवः
समीपस्थास्तदा गावो धृतराष्ट्रे न्यवेदयत्
अनन्तरं च राधेयः शकुनिश्च विशां पते
आहतुः पार्थिवश्रेष्ठं धृतराष्ट्रं जनाधिपम्
रमणीयेषु देशेषु घोषाः संप्रति कौरव
स्मारणासमयः प्राप्तो वत्सानामपि चाङ्कनम्
मृगया चोचिता राजन्नस्मिन्काले सुतस्य ते
दुर्योधनस्य गमनं त्वमनुज्ञातुमर्हसि
मृगया शोभना तात गवां च समवेक्षणम्
विश्रम्भस्तु न गन्तव्यो बल्लवानामिति स्मरे
ते तु तत्र नरव्याघ्राः समीप इति नः श्रुतम्
अतो नाभ्यनुजानामि गमनं तत्र वः स्वयम्
छद्मना निर्जितास्ते हि कर्शिताश्च महावने
तपोनित्याश्च राधेय समर्थाश्च महारथाः
धर्मराजो न संक्रुध्येद्भीमसेनस्त्वमर्षणः
यज्ञसेनस्य दुहिता तेज एव तु केवलम्
यूयं चाप्यपराध्येयुर्दर्पमोहसमन्विताः
ततो विनिर्दहेयुस्ते तपसा हि समन्विताः
अथ वा सायुधा वीरा मन्युनाभिपरिप्लुताः
सहिता बद्धनिस्त्रिंशा दहेयुः शस्त्रतेजसा
अथ यूयं बहुत्वात्तानारभध्वं कथंचन
अनार्यं परमं तत्स्यादशक्यं तच्च मे मतम्
उषितो हि महाबाहुरिन्द्रलोके धनंजयः
दिव्यान्यस्त्राण्यवाप्याथ ततः प्रत्यागतो वनम्
अकृतास्त्रेण पृथिवी जिता बीभत्सुना पुरा
किं पुनः स कृतास्त्रोऽद्य न हन्याद्वो महारथः
अथ वा मद्वचः श्रुत्वा तत्र यत्ता भविष्यथ
उद्विग्नवासो विश्रम्भाद्दुःखं तत्र भविष्यति
अथ वा सैनिकाः केचिदपकुर्युर्युधिष्ठिरे
तदबुद्धिकृतं कर्म दोषमुत्पादयेच्च वः
तस्माद्गच्छन्तु पुरुषाः स्मारणायाप्तकारिणः
न स्वयं तत्र गमनं रोचये तव भारत
धर्मज्ञः पाण्डवो ज्येष्ठः प्रतिज्ञातं च संसदि
तेन द्वादश वर्षाणि वस्तव्यानीति भारत
अनुवृत्ताश्च ते सर्वे पाण्डवा धर्मचारिणः
युधिष्ठिरश्च कौन्तेयो न नः कोपं करिष्यति
मृगयां चैव नो गन्तुमिच्छा संवर्धते भृशम्
स्मारणं च चिकीर्षामो न तु पाण्डवदर्शनम्
न चानार्यसमाचारः कश्चित्तत्र भविष्यति
न च तत्र गमिष्यामो यत्र तेषां प्रतिश्रयः
एवमुक्तः शकुनिना धृतराष्ट्रो जनेश्वरः
दुर्योधनं सहामात्यमनुजज्ञे न कामतः
अनुज्ञातस्तु गान्धारिः कर्णेन सहितस्तदा
निर्ययौ भरतश्रेष्ठो बलेन महता वृतः
दुःशासनेन च तथा सौबलेन च देविना
संवृतो भ्रातृभिश्चान्यैः स्त्रीभिश्चापि सहस्रशः
तं निर्यान्तं महाबाहुं द्रष्टुं द्वैतवनं सरः
पौराश्चानुययुः सर्वे सहदारा वनं च तत्
अष्टौ रथसहस्राणि त्रीणि नागायुतानि च
पत्तयो बहुसाहस्रा हयाश्च नवतिः शताः
शकटापणवेश्याश्च वणिजो बन्दिनस्तथा
नराश्च मृगयाशीलाः शतशोऽथ सहस्रशः
ततः प्रयाणे नृपतेः सुमहानभवत्स्वनः
प्रावृषीव महावायोरुद्धतस्य विशां पते
गव्यूतिमात्रे न्यवसद्राजा दुर्योधनस्तदा
प्रयातो वाहनैः सर्वैस्ततो द्वैतवनं सरः