Vana Parva, Adhyaya 227, Verse 1
कर्णस्य वचनं श्रुत्वा राजा दुर्योधनस्तदा
हृष्टो भूत्वा पुनर्दीन इदं वचनमब्रवीत्
Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.
कर्णस्य वचनं श्रुत्वा राजा दुर्योधनस्तदा
हृष्टो भूत्वा पुनर्दीन इदं वचनमब्रवीत्
ब्रवीषि यदिदं कर्ण सर्वं मे मनसि स्थितम्
न त्वभ्यनुज्ञां लप्स्यामि गमने यत्र पाण्डवाः
परिदेवति तान्वीरान्धृतराष्ट्रो महीपतिः
मन्यतेऽभ्यधिकांश्चापि तपोयोगेन पाण्डवान्
अथ वाप्यनुबुध्येत नृपोऽस्माकं चिकीर्षितम्
एवमप्यायतिं रक्षन्नाभ्यनुज्ञातुमर्हति
न हि द्वैतवने किंचिद्विद्यतेऽन्यत्प्रयोजनम्
उत्सादनमृते तेषां वनस्थानां मम द्विषाम्
जानासि हि यथा क्षत्ता द्यूतकाल उपस्थिते
अब्रवीद्यच्च मां त्वां च सौबलं च वचस्तदा
तानि पूर्वाणि वाक्यानि यच्चान्यत्परिदेवितम्
विचिन्त्य नाधिगच्छामि गमनायेतराय वा
ममापि हि महान्हर्षो यदहं भीमफल्गुनौ
क्लिष्टावरण्ये पश्येयं कृष्णया सहिताविति
न तथा प्राप्नुयां प्रीतिमवाप्य वसुधामपि
दृष्ट्वा यथा पाण्डुसुतान्वल्कलाजिनवाससः
किं नु स्यादधिकं तस्माद्यदहं द्रुपदात्मजाम्
द्रौपदीं कर्ण पश्येयं काषायवसनां वने
यदि मां धर्मराजश्च भीमसेनश्च पाण्डवः
युक्तं परमया लक्ष्म्या पश्येतां जीवितं भवेत्
उपायं न तु पश्यामि येन गच्छेम तद्वनम्
यथा चाभ्यनुजानीयाद्गच्छन्तं मां महीपतिः
स सौबलेन सहितस्तथा दुःशासनेन च
उपायं पश्य निपुणं येन गच्छेम तद्वनम्
अहमप्यद्य निश्चित्य गमनायेतराय वा
काल्यमेव गमिष्यामि समीपं पार्थिवस्य ह
मयि तत्रोपविष्टे तु भीष्मे च कुरुसत्तमे
उपायो यो भवेद्दृष्टस्तं ब्रूयाः सहसौबलः
ततो भीष्मस्य राज्ञश्च निशम्य गमनं प्रति
व्यवसायं करिष्येऽहमनुनीय पितामहम्
तथेत्युक्त्वा तु ते सर्वे जग्मुरावसथान्प्रति
व्युषितायां रजन्यां तु कर्णो राजानमभ्ययात्
ततो दुर्योधनं कर्णः प्रहसन्निदमब्रवीत्
उपायः परिदृष्टोऽयं तं निबोध जनेश्वर
घोषा द्वैतवने सर्वे त्वत्प्रतीक्षा नराधिप
घोषयात्रापदेशेन गमिष्यामो न संशयः
उचितं हि सदा गन्तुं घोषयात्रां विशां पते
एवं च त्वां पिता राजन्समनुज्ञातुमर्हति
तथा कथयमानौ तौ घोषयात्राविनिश्चयम्
गान्धारराजः शकुनिः प्रत्युवाच हसन्निव
उपायोऽयं मया दृष्टो गमनाय निरामयः
अनुज्ञास्यति नो राजा चोदयिष्यति चाप्युत
घोषा द्वैतवने सर्वे त्वत्प्रतीक्षा नराधिप
घोषयात्रापदेशेन गमिष्यामो न संशयः
ततः प्रहसिताः सर्वे तेऽन्योन्यस्य तलान्ददुः
तदेव च विनिश्चित्य ददृशुः कुरुसत्तमम्