Mahabharata

Vana Parva, Adhyaya 226

Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 226, Verse 1

धृतराष्ट्रस्य तद्वाक्यं निशम्य सहसौबलः

दुर्योधनमिदं काले कर्णो वचनमब्रवीत्

Mahabharata

Vana Parva, Adhyaya 226, Verse 2

प्रव्राज्य पाण्डवान्वीरान्स्वेन वीर्येण भारत

भुङ्क्ष्वेमां पृथिवीमेको दिवं शम्बरहा यथा

Mahabharata

Vana Parva, Adhyaya 226, Verse 3

प्राच्याश्च दाक्षिणात्याश्च प्रतीच्योदीच्यवासिनः

कृताः करप्रदाः सर्वे राजानस्ते नराधिप

Mahabharata

Vana Parva, Adhyaya 226, Verse 4

या हि सा दीप्यमानेव पाण्डवान्भजते पुरा

साद्य लक्ष्मीस्त्वया राजन्नवाप्ता भ्रातृभिः सह

Mahabharata

Vana Parva, Adhyaya 226, Verse 5

इन्द्रप्रस्थगते यां तां दीप्यमानां युधिष्ठिरे

अपश्याम श्रियं राजन्नचिरं शोककर्शिताः

Mahabharata

Vana Parva, Adhyaya 226, Verse 6

सा तु बुद्धिबलेनेयं राज्ञस्तस्माद्युधिष्ठिरात्

त्वयाक्षिप्ता महाबाहो दीप्यमानेव दृश्यते

Mahabharata

Vana Parva, Adhyaya 226, Verse 7

तथैव तव राजेन्द्र राजानः परवीरहन्

शासनेऽधिष्ठिताः सर्वे किं कुर्म इति वादिनः

Mahabharata

Vana Parva, Adhyaya 226, Verse 8

तवाद्य पृथिवी राजन्निखिला सागराम्बरा

सपर्वतवना देवी सग्रामनगराकरा

नानावनोद्देशवती पत्तनैरुपशोभिता

Mahabharata

Vana Parva, Adhyaya 226, Verse 9

वन्द्यमानो द्विजै राजन्पूज्यमानश्च राजभिः

पौरुषाद्दिवि देवेषु भ्राजसे रश्मिवानिव

Mahabharata

Vana Parva, Adhyaya 226, Verse 10

रुद्रैरिव यमो राजा मरुद्भिरिव वासवः

कुरुभिस्त्वं वृतो राजन्भासि नक्षत्रराडिव

Mahabharata

Vana Parva, Adhyaya 226, Verse 11

ये स्म ते नाद्रियन्तेऽऽज्ञा नोद्विजन्ते कदा च न

पश्यामस्ताञ्श्रिया हीनान्पाण्डवान्वनवासिनः

Mahabharata

Vana Parva, Adhyaya 226, Verse 12

श्रूयन्ते हि महाराज सरो द्वैतवनं प्रति

वसन्तः पाण्डवाः सार्धं ब्राह्मणैर्वनवासिभिः

Mahabharata

Vana Parva, Adhyaya 226, Verse 13

स प्रयाहि महाराज श्रिया परमया युतः

प्रतपन्पाण्डुपुत्रांस्त्वं रश्मिवानिव तेजसा

Mahabharata

Vana Parva, Adhyaya 226, Verse 14

स्थितो राज्ये च्युतान्राज्याच्छ्रिया हीनाञ्श्रिया वृतः

असमृद्धान्समृद्धार्थः पश्य पाण्डुसुतान्नृप

Mahabharata

Vana Parva, Adhyaya 226, Verse 15

महाभिजनसंपन्नं भद्रे महति संस्थितम्

पाण्डवास्त्वाभिवीक्षन्तां ययातिमिव नाहुषम्

Mahabharata

Vana Parva, Adhyaya 226, Verse 16

यां श्रियं सुहृदश्चैव दुर्हृदश्च विशां पते

पश्यन्ति पुरुषे दीप्तां सा समर्था भवत्युत

Mahabharata

Vana Parva, Adhyaya 226, Verse 17

समस्थो विषमस्थान्हि दुर्हृदो योऽभिवीक्षते

जगतीस्थानिवाद्रिस्थः किं ततः परमं सुखम्

Mahabharata

Vana Parva, Adhyaya 226, Verse 18

न पुत्रधनलाभेन न राज्येनापि विन्दति

प्रीतिं नृपतिशार्दूल याममित्राघदर्शनात्

Mahabharata

Vana Parva, Adhyaya 226, Verse 19

किं नु तस्य सुखं न स्यादाश्रमे यो धनंजयम्

अभिवीक्षेत सिद्धार्थो वल्कलाजिनवाससम्

Mahabharata

Vana Parva, Adhyaya 226, Verse 20

सुवाससो हि ते भार्या वल्कलाजिनवाससम्

पश्यन्त्वसुखितां कृष्णां सा च निर्विद्यतां पुनः

विनिन्दतां तथात्मानं जीवितं च धनच्युता

Mahabharata

Vana Parva, Adhyaya 226, Verse 21

न तथा हि सभामध्ये तस्या भवितुमर्हति

वैमनस्यं यथा दृष्ट्वा तव भार्याः स्वलंकृताः

Mahabharata

Vana Parva, Adhyaya 226, Verse 22

एवमुक्त्वा तु राजानं कर्णः शकुनिना सह

तूष्णीं बभूवतुरुभौ वाक्यान्ते जनमेजय