Mahabharata

Vana Parva, Adhyaya 225

Containing 31 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 225, Verse 1

एवं वने वर्तमाना नराग्र्याः; शीतोष्णवातातपकर्शिताङ्गाः

सरस्तदासाद्य वनं च पुण्यं; ततः परं किमकुर्वन्त पार्थाः

Mahabharata

Vana Parva, Adhyaya 225, Verse 2

सरस्तदासाद्य तु पाण्डुपुत्रा; जनं समुत्सृज्य विधाय चैषाम्

वनानि रम्याण्यथ पर्वतांश्च; नदीप्रदेशांश्च तदा विचेरुः

Mahabharata

Vana Parva, Adhyaya 225, Verse 3

तथा वने तान्वसतः प्रवीरा;न्स्वाध्यायवन्तश्च तपोधनाश्च

अभ्याययुर्वेदविदः पुराणा;स्तान्पूजयामासुरथो नराग्र्याः

Mahabharata

Vana Parva, Adhyaya 225, Verse 4

ततः कदाचित्कुशलः कथासु; विप्रोऽभ्यगच्छद्भुवि कौरवेयान्

स तैः समेत्याथ यदृच्छयैव; वैचित्रवीर्यं नृपमभ्यगच्छत्

Mahabharata

Vana Parva, Adhyaya 225, Verse 5

अथोपविष्टः प्रतिसत्कृतश्च; वृद्धेन राज्ञा कुरुसत्तमेन

प्रचोदितः सन्कथयां बभूव; धर्मानिलेन्द्रप्रभवान्यमौ च

Mahabharata

Vana Parva, Adhyaya 225, Verse 6

कृशांश्च वातातपकर्शिताङ्गा;न्दुःखस्य चोग्रस्य मुखे प्रपन्नान्

तां चाप्यनाथामिव वीरनाथां; कृष्णां परिक्लेशगुणेन युक्ताम्

Mahabharata

Vana Parva, Adhyaya 225, Verse 7

ततः कथां तस्य निशम्य राजा; वैचित्रवीर्यः कृपयाभितप्तः

वने स्थितान्पार्थिवपुत्रपौत्रा;ञ्श्रुत्वा तदा दुःखनदीं प्रपन्नान्

Mahabharata

Vana Parva, Adhyaya 225, Verse 8

प्रोवाच दैन्याभिहतान्तरात्मा; निःश्वासबाष्पोपहतः स पार्थान्

वाचं कथंचित्स्थिरतामुपेत्य; तत्सर्वमात्मप्रभवं विचिन्त्य

Mahabharata

Vana Parva, Adhyaya 225, Verse 9

कथं नु सत्यः शुचिरार्यवृत्तो; ज्येष्ठः सुतानां मम धर्मराजः

अजातशत्रुः पृथिवीतलस्थः; शेते पुरा राङ्कवकूटशायी

Mahabharata

Vana Parva, Adhyaya 225, Verse 10

प्रबोध्यते मागधसूतपूगै;र्नित्यं स्तुवद्भिः स्वयमिन्द्रकल्पः

पतत्रिसंघैः स जघन्यरात्रे; प्रबोध्यते नूनमिडातलस्थः

Mahabharata

Vana Parva, Adhyaya 225, Verse 11

कथं नु वातातपकर्शिताङ्गो; वृकोदरः कोपपरिप्लुताङ्गः

शेते पृथिव्यामतथोचिताङ्गः; कृष्णासमक्षं वसुधातलस्थः

Mahabharata

Vana Parva, Adhyaya 225, Verse 12

तथार्जुनः सुकुमारो मनस्वी; वशे स्थितो धर्मसुतस्य राज्ञः

विदूयमानैरिव सर्वगात्रै;र्ध्रुवं न शेते वसतीरमर्षात्

Mahabharata

Vana Parva, Adhyaya 225, Verse 13

यमौ च कृष्णां च युधिष्ठिरं च; भीमं च दृष्ट्वा सुखविप्रयुक्तान्

विनिःश्वसन्सर्प इवोग्रतेजा; ध्रुवं न शेते वसतीरमर्षात्

Mahabharata

Vana Parva, Adhyaya 225, Verse 14

तथा यमौ चाप्यसुखौ सुखार्हौ; समृद्धरूपावमरौ दिवीव

प्रजागरस्थौ ध्रुवमप्रशान्तौ; धर्मेण सत्येन च वार्यमाणौ

Mahabharata

Vana Parva, Adhyaya 225, Verse 15

समीरणेनापि समो बलेन; समीरणस्यैव सुतो बलीयान्

स धर्मपाशेन सितोग्रतेजा; ध्रुवं विनिःश्वस्य सहत्यमर्षम्

Mahabharata

Vana Parva, Adhyaya 225, Verse 16

स चापि भूमौ परिवर्तमानो; वधं सुतानां मम काङ्क्षमाणः

सत्येन धर्मेण च वार्यमाणः; कालं प्रतीक्षत्यधिको रणेऽन्यैः

Mahabharata

Vana Parva, Adhyaya 225, Verse 17

अजातशत्रौ तु जिते निकृत्या; दुःशासनो यत्परुषाण्यवोचत्

तानि प्रविष्टानि वृकोदराङ्गं; दहन्ति मर्माग्निरिवेन्धनानि

Mahabharata

Vana Parva, Adhyaya 225, Verse 18

न पापकं ध्यास्यति धर्मपुत्रो; धनंजयश्चाप्यनुवर्तते तम्

अरण्यवासेन विवर्धते तु; भीमस्य कोपोऽग्निरिवानिलेन

Mahabharata

Vana Parva, Adhyaya 225, Verse 19

स तेन कोपेन विदीर्यमाणः; करं करेणाभिनिपीड्य वीरः

विनिःश्वसत्युष्णमतीव घोरं; दहन्निवेमान्मम पुत्रपौत्रान्

Mahabharata

Vana Parva, Adhyaya 225, Verse 20

गाण्डीवधन्वा च वृकोदरश्च; संरम्भिणावन्तककालकल्पौ

न शेषयेतां युधि शत्रुसेनां; शरान्किरन्तावशनिप्रकाशान्

Mahabharata

Vana Parva, Adhyaya 225, Verse 21

दुर्योधनः शकुनिः सूतपुत्रो; दुःशासनश्चापि सुमन्दचेताः

मधु प्रपश्यन्ति न तु प्रपातं; वृकोदरं चैव धनंजयं च

Mahabharata

Vana Parva, Adhyaya 225, Verse 22

शुभाशुभं पुरुषः कर्म कृत्वा; प्रतीक्षते तस्य फलं स्म कर्ता

स तेन युज्यत्यवशः फलेन; मोक्षः कथं स्यात्पुरुषस्य तस्मात्

Mahabharata

Vana Parva, Adhyaya 225, Verse 23

क्षेत्रे सुकृष्टे ह्युपिते च बीजे; देवे च वर्षत्यृतुकालयुक्तम्

न स्यात्फलं तस्य कुतः प्रसिद्धि;रन्यत्र दैवादिति चिन्तयामि

Mahabharata

Vana Parva, Adhyaya 225, Verse 24

कृतं मताक्षेण यथा न साधु; साधुप्रवृत्तेन च पाण्डवेन

मया च दुष्पुत्रवशानुगेन; यथा कुरूणामयमन्तकालः

Mahabharata

Vana Parva, Adhyaya 225, Verse 25

ध्रुवं प्रवास्यत्यसमीरितोऽपि; ध्रुवं प्रजास्यत्युत गर्भिणी या

ध्रुवं दिनादौ रजनीप्रणाश;स्तथा क्षपादौ च दिनप्रणाशः

Mahabharata

Vana Parva, Adhyaya 225, Verse 26

क्रियेत कस्मान्न परे च कुर्यु;र्वित्तं न दद्युः पुरुषाः कथंचित्

प्राप्यार्थकालं च भवेदनर्थः; कथं नु तत्स्यादिति तत्कुतः स्यात्

Mahabharata

Vana Parva, Adhyaya 225, Verse 27

कथं न भिद्येत न च स्रवेत; न च प्रसिच्येदिति रक्षितव्यम्

अरक्ष्यमाणः शतधा विशीर्ये;द्ध्रुवं न नाशोऽस्ति कृतस्य लोके

Mahabharata

Vana Parva, Adhyaya 225, Verse 28

गतो ह्यरण्यादपि शक्रलोकं; धनंजयः पश्यत वीर्यमस्य

अस्त्राणि दिव्यानि चतुर्विधानि; ज्ञात्वा पुनर्लोकमिमं प्रपन्नः

Mahabharata

Vana Parva, Adhyaya 225, Verse 29

स्वर्गं हि गत्वा सशरीर एव; को मानुषः पुनरागन्तुमिच्छेत्

अन्यत्र कालोपहताननेका;न्समीक्षमाणस्तु कुरून्मुमूर्षून्

Mahabharata

Vana Parva, Adhyaya 225, Verse 30

धनुर्ग्राहश्चार्जुनः सव्यसाची; धनुश्च तद्गाण्डिवं लोकसारम्

अस्त्राणि दिव्यानि च तानि तस्य; त्रयस्य तेजः प्रसहेत को नु