Mahabharata

Vana Parva, Adhyaya 223

Containing 12 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 223, Verse 1

इमं तु ते मार्गमपेतदोषं; वक्ष्यामि चित्तग्रहणाय भर्तुः

यस्मिन्यथावत्सखि वर्तमाना; भर्तारमाच्छेत्स्यसि कामिनीभ्यः

Mahabharata

Vana Parva, Adhyaya 223, Verse 2

नैतादृशं दैवतमस्ति सत्ये; सर्वेषु लोकेषु सदैवतेषु

यथा पतिस्तस्य हि सर्वकामा; लभ्याः प्रसादे कुपितश्च हन्यात्

Mahabharata

Vana Parva, Adhyaya 223, Verse 3

तस्मादपत्यं विविधाश्च भोगाः; शय्यासनान्यद्भुतदर्शनानि

वस्त्राणि माल्यानि तथैव गन्धाः; स्वर्गश्च लोको विषमा च कीर्तिः

Mahabharata

Vana Parva, Adhyaya 223, Verse 4

सुखं सुखेनेह न जातु लभ्यं; दुःखेन साध्वी लभते सुखानि

सा कृष्णमाराधय सौहृदेन; प्रेम्णा च नित्यं प्रतिकर्मणा च

Mahabharata

Vana Parva, Adhyaya 223, Verse 5

तथाशनैश्चारुभिरग्र्यमाल्यै;र्दाक्षिण्ययोगैर्विविधैश्च गन्धैः

अस्याः प्रियोऽस्मीति यथा विदित्वा; त्वामेव संश्लिष्यति सर्वभावैः

Mahabharata

Vana Parva, Adhyaya 223, Verse 6

श्रुत्वा स्वरं द्वारगतस्य भर्तुः; प्रत्युत्थिता तिष्ठ गृहस्य मध्ये

दृष्ट्वा प्रविष्टं त्वरितासनेन; पाद्येन चैव प्रतिपूजय त्वम्

Mahabharata

Vana Parva, Adhyaya 223, Verse 7

संप्रेषितायामथ चैव दास्या;मुत्थाय सर्वं स्वयमेव कुर्याः

जानातु कृष्णस्तव भावमेतं; सर्वात्मना मां भजतीति सत्ये

Mahabharata

Vana Parva, Adhyaya 223, Verse 8

त्वत्संनिधौ यत्कथयेत्पतिस्ते; यद्यप्यगुह्यं परिरक्षितव्यम्

काचित्सपत्नी तव वासुदेवं; प्रत्यादिशेत्तेन भवेद्विरागः

Mahabharata

Vana Parva, Adhyaya 223, Verse 9

प्रियांश्च रक्तांश्च हितांश्च भर्तु;स्तान्भोजयेथा विविधैरुपायैः

द्वेष्यैरपक्षैरहितैश्च तस्य; भिद्यस्व नित्यं कुहकोद्धतैश्च

Mahabharata

Vana Parva, Adhyaya 223, Verse 10

मदं प्रमादं पुरुषेषु हित्वा; संयच्छ भावं प्रतिगृह्य मौनम्

प्रद्युम्नसाम्बावपि ते कुमारौ; नोपासितव्यौ रहिते कदाचित्

Mahabharata

Vana Parva, Adhyaya 223, Verse 11

महाकुलीनाभिरपापिकाभिः; स्त्रीभिः सतीभिस्तव सख्यमस्तु

चण्डाश्च शौण्डाश्च महाशनाश्च; चौराश्च दुष्टाश्चपलाश्च वर्ज्याः

Mahabharata

Vana Parva, Adhyaya 223, Verse 12

एतद्यशस्यं भगवेदनं च; स्वर्ग्यं तथा शत्रुनिबर्हणं च

महार्हमाल्याभरणाङ्गरागा; भर्तारमाराधय पुण्यगन्धा