Vana Parva, Adhyaya 222, Verse 1
उपासीनेषु विप्रेषु पाण्डवेषु महात्मसु
द्रौपदी सत्यभामा च विविशाते तदा समम्
जाहस्यमाने सुप्रीते सुखं तत्र निषीदतुः
Containing 59 sacred Sanskrit shlokas with multi-author commentaries and translations.
उपासीनेषु विप्रेषु पाण्डवेषु महात्मसु
द्रौपदी सत्यभामा च विविशाते तदा समम्
जाहस्यमाने सुप्रीते सुखं तत्र निषीदतुः
चिरस्य दृष्ट्वा राजेन्द्र तेऽन्योन्यस्य प्रियंवदे
कथयामासतुश्चित्राः कथाः कुरुयदुक्षिताम्
अथाब्रवीत्सत्यभामा कृष्णस्य महिषी प्रिया
सात्राजिती याज्ञसेनीं रहसीदं सुमध्यमा
केन द्रौपदि वृत्तेन पाण्डवानुपतिष्ठसि
लोकपालोपमान्वीरान्यूनः परमसंमतान्
कथं च वशगास्तुभ्यं न कुप्यन्ति च ते शुभे
तव वश्या हि सततं पाण्डवाः प्रियदर्शने
मुखप्रेक्षाश्च ते सर्वे तत्त्वमेतद्ब्रवीहि मे
व्रतचर्या तपो वापि स्नानमन्त्रौषधानि वा
विद्यावीर्यं मूलवीर्यं जपहोमस्तथागदाः
मम आचक्ष्व पाञ्चालि यशस्यं भगवेदनम्
येन कृष्णे भवेन्नित्यं मम कृष्णो वशानुगः
एवमुक्त्वा सत्यभामा विरराम यशस्विनी
पतिव्रता महाभागा द्रौपदी प्रत्युवाच ताम्
असत्स्त्रीणां समाचारं सत्ये मामनुपृच्छसि
असदाचरिते मार्गे कथं स्यादनुकीर्तनम्
अनुप्रश्नः संशयो वा नैतत्त्वय्युपपद्यते
तथा ह्युपेता बुद्ध्या त्वं कृष्णस्य महिषी प्रिया
यदैव भर्ता जानीयान्मन्त्रमूलपरां स्त्रियम्
उद्विजेत तदैवास्याः सर्पाद्वेश्मगतादिव
उद्विग्नस्य कुतः शान्तिरशान्तस्य कुतः सुखम्
न जातु वशगो भर्ता स्त्रियाः स्यान्मन्त्रकारणात्
अमित्रप्रहितांश्चापि गदान्परमदारुणान्
मूलप्रवादैर्हि विषं प्रयच्छन्ति जिघांसवः
जिह्वया यानि पुरुषस्त्वचा वाप्युपसेवते
तत्र चूर्णानि दत्तानि हन्युः क्षिप्रमसंशयम्
जलोदरसमायुक्ताः श्वित्रिणः पलितास्तथा
अपुमांसः कृताः स्त्रीभिर्जडान्धबधिरास्तथा
पापानुगास्तु पापास्ताः पतीनुपसृजन्त्युत
न जातु विप्रियं भर्तुः स्त्रिया कार्यं कथंचन
वर्ताम्यहं तु यां वृत्तिं पाण्डवेषु महात्मसु
तां सर्वां शृणु मे सत्यां सत्यभामे यशस्विनि
अहंकारं विहायाहं कामक्रोधौ च सर्वदा
सदारान्पाण्डवान्नित्यं प्रयतोपचराम्यहम्
प्रणयं प्रतिसंगृह्य निधायात्मानमात्मनि
शुश्रूषुर्निरभीमाना पतीनां चित्तरक्षिणी
दुर्व्याहृताच्छङ्कमाना दुःस्थिताद्दुरवेक्षितात्
दुरासिताद्दुर्व्रजितादिङ्गिताध्यासितादपि
सूर्यवैश्वानरनिभान्सोमकल्पान्महारथान्
सेवे चक्षुर्हणः पार्थानुग्रतेजःप्रतापिनः
देवो मनुष्यो गन्धर्वो युवा चापि स्वलंकृतः
द्रव्यवानभिरूपो वा न मेऽन्यः पुरुषो मतः
नाभुक्तवति नास्नाते नासंविष्टे च भर्तरि
न संविशामि नाश्नामि सदा कर्मकरेष्वपि
क्षेत्राद्वनाद्वा ग्रामाद्वा भर्तारं गृहमागतम्
प्रत्युत्थायाभिनन्दामि आसनेनोदकेन च
प्रमृष्टभाण्डा मृष्टान्ना काले भोजनदायिनी
संयता गुप्तधान्या च सुसंमृष्टनिवेशना
अतिरस्कृतसंभाषा दुःस्त्रियो नानुसेवती
अनुकूलवती नित्यं भवाम्यनलसा सदा
अनर्मे चापि हसनं द्वारि स्थानमभीक्ष्णशः
अवस्करे चिरस्थानं निष्कुटेषु च वर्जये
अतिहासातिरोषौ च क्रोधस्थानं च वर्जये
निरताहं सदा सत्ये भर्तॄणामुपसेवने
सर्वथा भर्तृरहितं न ममेष्टं कथंचन
यदा प्रवसते भर्ता कुटुम्बार्थेन केनचित्
सुमनोवर्णकापेता भवामि व्रतचारिणी
यच्च भर्ता न पिबति यच्च भर्ता न खादति
यच्च नाश्नाति मे भर्ता सर्वं तद्वर्जयाम्यहम्