Vana Parva, Adhyaya 221, Verse 1
यदाभिषिक्तो भगवान्सेनापत्येन पावकिः
तदा संप्रस्थितः श्रीमान्हृष्टो भद्रवटं हरः
रथेनादित्यवर्णेन पार्वत्या सहितः प्रभुः
Containing 80 sacred Sanskrit shlokas with multi-author commentaries and translations.
यदाभिषिक्तो भगवान्सेनापत्येन पावकिः
तदा संप्रस्थितः श्रीमान्हृष्टो भद्रवटं हरः
रथेनादित्यवर्णेन पार्वत्या सहितः प्रभुः
सहस्रं तस्य सिंहानां तस्मिन्युक्तं रथोत्तमे
उत्पपात दिवं शुभ्रं कालेनाभिप्रचोदितः
ते पिबन्त इवाकाशं त्रासयन्तश्चराचरान्
सिंहा नभस्यगच्छन्त नदन्तश्चारुकेसराः
तस्मिन्रथे पशुपतिः स्थितो भात्युमया सह
विद्युता सहितः सूर्यः सेन्द्रचापे घने यथा
अग्रतस्तस्य भगवान्धनेशो गुह्यकैः सह
आस्थाय रुचिरं याति पुष्पकं नरवाहनः
ऐरावतं समास्थाय शक्रश्चापि सुरैः सह
पृष्ठतोऽनुययौ यान्तं वरदं वृषभध्वजम्
जम्भकैर्यक्षरक्षोभिः स्रग्विभिः समलंकृतः
यात्यमोघो महायक्षो दक्षिणं पक्षमास्थितः
तस्य दक्षिणतो देवा मरुतश्चित्रयोधिनः
गच्छन्ति वसुभिः सार्धं रुद्रैश्च सह संगताः
यमश्च मृत्युना सार्धं सर्वतः परिवारितः
घोरैर्व्याधिशतैर्याति घोररूपवपुस्तथा
यमस्य पृष्ठतश्चैव घोरस्त्रिशिखरः शितः
विजयो नाम रुद्रस्य याति शूलः स्वलंकृतः
तमुग्रपाशो वरुणो भगवान्सलिलेश्वरः
परिवार्य शनैर्याति यादोभिर्विविधैर्वृतः
पृष्ठतो विजयस्यापि याति रुद्रस्य पट्टिशः
गदामुसलशक्त्याद्यैर्वृतः प्रहरणोत्तमैः
पट्टिशं त्वन्वगाद्राजंश्छत्रं रौद्रं महाप्रभम्
कमण्डलुश्चाप्यनु तं महर्षिगणसंवृतः
तस्य दक्षिणतो भाति दण्डो गच्छञ्श्रिया वृतः
भृग्वङ्गिरोभिः सहितो देवैश्चाप्यभिपूजितः
एषां तु पृष्ठतो रुद्रो विमले स्यन्दने स्थितः
याति संहर्षयन्सर्वांस्तेजसा त्रिदिवौकसः
ऋषयश्चैव देवाश्च गन्धर्वा भुजगास्तथा
नद्यो नदा द्रुमाश्चैव तथैवाप्सरसां गणाः
नक्षत्राणि ग्रहाश्चैव देवानां शिशवश्च ये
स्त्रियश्च विविधाकारा यान्ति रुद्रस्य पृष्ठतः
सृजन्त्यः पुष्पवर्षाणि चारुरूपा वराङ्गनाः
पर्जन्यश्चाप्यनुययौ नमस्कृत्य पिनाकिनम्
छत्रं तु पाण्डुरं सोमस्तस्य मूर्धन्यधारयत्
चामरे चापि वायुश्च गृहीत्वाग्निश्च विष्ठितौ
शक्रश्च पृष्ठतस्तस्य याति राजञ्श्रिया वृतः
सह राजर्षिभिः सर्वैः स्तुवानो वृषकेतनम्
गौरी विद्याथ गान्धारी केशिनी मित्रसाह्वया
सावित्र्या सह सर्वास्ताः पार्वत्या यान्ति पृष्ठतः
तत्र विद्यागणाः सर्वे ये केचित्कविभिः कृताः
यस्य कुर्वन्ति वचनं सेन्द्रा देवाश्चमूमुखे
स गृहीत्वा पताकां तु यात्यग्रे राक्षसो ग्रहः
व्यापृतस्तु श्मशाने यो नित्यं रुद्रस्य वै सखा
पिङ्गलो नाम यक्षेन्द्रो लोकस्यानन्ददायकः
एभिः स सहितस्तत्र ययौ देवो यथासुखम्
अग्रतः पृष्ठतश्चैव न हि तस्य गतिर्ध्रुवा
रुद्रं सत्कर्मभिर्मर्त्याः पूजयन्तीह दैवतम्
शिवमित्येव यं प्राहुरीशं रुद्रं पिनाकिनम्
भावैस्तु विविधाकारैः पूजयन्ति महेश्वरम्
देवसेनापतिस्त्वेवं देवसेनाभिरावृतः
अनुगच्छति देवेशं ब्रह्मण्यः कृत्तिकासुतः
अथाब्रवीन्महासेनं महादेवो बृहद्वचः
सप्तमं मारुतस्कन्धं रक्ष नित्यमतन्द्रितः
सप्तमं मारुतस्कन्धं पालयिष्याम्यहं प्रभो
यदन्यदपि मे कार्यं देव तद्वद माचिरम्
कार्येष्वहं त्वया पुत्र संद्रष्टव्यः सदैव हि
दर्शनान्मम भक्त्या च श्रेयः परमवाप्स्यसि
इत्युक्त्वा विससर्जैनं परिष्वज्य महेष्वरः
विसर्जिते ततः स्कन्दे बभूवौत्पातिकं महत्
सहसैव महाराज देवान्सर्वान्प्रमोहयत्
जज्वाल खं सनक्षत्रं प्रमूढं भुवनं भृशम्
चचाल व्यनदच्चोर्वी तमोभूतं जगत्प्रभो