Mahabharata

Vana Parva, Adhyaya 220

Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 220, Verse 1

यदा स्कन्देन मातॄणामेवमेतत्प्रियं कृतम्

अथैनमब्रवीत्स्वाहा मम पुत्रस्त्वमौरसः

Mahabharata

Vana Parva, Adhyaya 220, Verse 2

इच्छाम्यहं त्वया दत्तां प्रीतिं परमदुर्लभाम्

तामब्रवीत्ततः स्कन्दः प्रीतिमिच्छसि कीदृशीम्

Mahabharata

Vana Parva, Adhyaya 220, Verse 3

दक्षस्याहं प्रिया कन्या स्वाहा नाम महाभुज

बाल्यात्प्रभृति नित्यं च जातकामा हुताशने

Mahabharata

Vana Parva, Adhyaya 220, Verse 4

न च मां कामिनीं पुत्र सम्यग्जानाति पावकः

इच्छामि शाश्वतं वासं वस्तुं पुत्र सहाग्निना

Mahabharata

Vana Parva, Adhyaya 220, Verse 5

हव्यं कव्यं च यत्किंचिद्द्विजा मन्त्रपुरस्कृतम्

होष्यन्त्यग्नौ सदा देवि स्वाहेत्युक्त्वा समुद्यतम्

Mahabharata

Vana Parva, Adhyaya 220, Verse 6

अद्य प्रभृति दास्यन्ति सुवृत्ताः सत्पथे स्थिताः

एवमग्निस्त्वया सार्धं सदा वत्स्यति शोभने

Mahabharata

Vana Parva, Adhyaya 220, Verse 7

एवमुक्ता ततः स्वाहा तुष्टा स्कन्देन पूजिता

पावकेन समायुक्ता भर्त्रा स्कन्दमपूजयत्

Mahabharata

Vana Parva, Adhyaya 220, Verse 8

ततो ब्रह्मा महासेनं प्रजापतिरथाब्रवीत्

अभिगच्छ महादेवं पितरं त्रिपुरार्दनम्

Mahabharata

Vana Parva, Adhyaya 220, Verse 9

रुद्रेणाग्निं समाविश्य स्वाहामाविश्य चोमया

हितार्थं सर्वलोकानां जातस्त्वमपराजितः

Mahabharata

Vana Parva, Adhyaya 220, Verse 10

उमायोन्यां च रुद्रेण शुक्रं सिक्तं महात्मना

आस्ते गिरौ निपतितं मिञ्जिकामिञ्जिकं यतः

Mahabharata

Vana Parva, Adhyaya 220, Verse 11

संभूतं लोहितोदे तु शुक्रशेषमवापतत्

सूर्यरश्मिषु चाप्यन्यदन्यच्चैवापतद्भुवि

आसक्तमन्यद्वृक्षेषु तदेवं पञ्चधापतत्

Mahabharata

Vana Parva, Adhyaya 220, Verse 12

त एते विविधाकारा गणा ज्ञेया मनीषिभिः

तव पारिषदा घोरा य एते पिशिताशनाः

Mahabharata

Vana Parva, Adhyaya 220, Verse 13

एवमस्त्विति चाप्युक्त्वा महासेनो महेश्वरम्

अपूजयदमेयात्मा पितरं पितृवत्सलः

Mahabharata

Vana Parva, Adhyaya 220, Verse 14

अर्कपुष्पैस्तु ते पञ्च गणाः पूज्या धनार्थिभिः

व्याधिप्रशमनार्थं च तेषां पूजां समाचरेत्

Mahabharata

Vana Parva, Adhyaya 220, Verse 15

मिञ्जिकामिञ्जिकं चैव मिथुनं रुद्रसंभवम्

नमस्कार्यं सदैवेह बालानां हितमिच्छता

Mahabharata

Vana Parva, Adhyaya 220, Verse 16

स्त्रियो मानुषमांसादा वृद्धिका नाम नामतः

वृक्षेषु जातास्ता देव्यो नमस्कार्याः प्रजार्थिभिः

Mahabharata

Vana Parva, Adhyaya 220, Verse 17

एवमेते पिशाचानामसंख्येया गणाः स्मृताः

घण्टायाः सपताकायाः शृणु मे संभवं नृप

Mahabharata

Vana Parva, Adhyaya 220, Verse 18

ऐरावतस्य घण्टे द्वे वैजयन्त्याविति श्रुते

गुहस्य ते स्वयं दत्ते शक्रेणानाय्य धीमता

Mahabharata

Vana Parva, Adhyaya 220, Verse 19

एका तत्र विशाखस्य घण्टा स्कन्दस्य चापरा

पताका कार्त्तिकेयस्य विशाखस्य च लोहिता

Mahabharata

Vana Parva, Adhyaya 220, Verse 20

यानि क्रीडनकान्यस्य देवैर्दत्तानि वै तदा

तैरेव रमते देवो महासेनो महाबलः

Mahabharata

Vana Parva, Adhyaya 220, Verse 21

स संवृतः पिशाचानां गणैर्देवगणैस्तथा

शुशुभे काञ्चने शैले दीप्यमानः श्रिया वृतः

Mahabharata

Vana Parva, Adhyaya 220, Verse 22

तेन वीरेण शुशुभे स शैलः शुभकाननः

आदित्येनेवांशुमता मन्दरश्चारुकन्दरः

Mahabharata

Vana Parva, Adhyaya 220, Verse 23

संतानकवनैः फुल्लैः करवीरवनैरपि

पारिजातवनैश्चैव जपाशोकवनैस्तथा

Mahabharata

Vana Parva, Adhyaya 220, Verse 24

कदम्बतरुषण्डैश्च दिव्यैर्मृगगणैरपि

दिव्यैः पक्षिगणैश्चैव शुशुभे श्वेतपर्वतः

Mahabharata

Vana Parva, Adhyaya 220, Verse 25

तत्र देवगणाः सर्वे सर्वे चैव महर्षयः

मेघतूर्यरवाश्चैव क्षुब्धोदधिसमस्वनाः

Mahabharata

Vana Parva, Adhyaya 220, Verse 26

तत्र दिव्याश्च गन्धर्वा नृत्यन्त्यप्सरसस्तथा

हृष्टानां तत्र भूतानां श्रूयते निनदो महान्

Mahabharata

Vana Parva, Adhyaya 220, Verse 27

एवं सेन्द्रं जगत्सर्वं श्वेतपर्वतसंस्थितम्

प्रहृष्टं प्रेक्षते स्कन्दं न च ग्लायति दर्शनात्