Mahabharata

Vana Parva, Adhyaya 219

Containing 58 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 219, Verse 1

श्रिया जुष्टं महासेनं देवसेनापतिं कृतम्

सप्तर्षिपत्न्यः षड्देव्यस्तत्सकाशमथागमन्

Mahabharata

Vana Parva, Adhyaya 219, Verse 2

ऋषिभिः संपरित्यक्ता धर्मयुक्ता महाव्रताः

द्रुतमागम्य चोचुस्ता देवसेनापतिं प्रभुम्

Mahabharata

Vana Parva, Adhyaya 219, Verse 3

वयं पुत्र परित्यक्ता भर्तृभिर्देवसंमितैः

अकारणाद्रुषा तात पुण्यस्थानात्परिच्युताः

Mahabharata

Vana Parva, Adhyaya 219, Verse 4

अस्माभिः किल जातस्त्वमिति केनाप्युदाहृतम्

असत्यमेतत्संश्रुत्य तस्मान्नस्त्रातुमर्हसि

Mahabharata

Vana Parva, Adhyaya 219, Verse 5

अक्षयश्च भवेत्स्वर्गस्त्वत्प्रसादाद्धि नः प्रभो

त्वां पुत्रं चाप्यभीप्सामः कृत्वैतदनृणो भव

Mahabharata

Vana Parva, Adhyaya 219, Verse 6

मातरो हि भवत्यो मे सुतो वोऽहमनिन्दिताः

यच्चाभीप्सथ तत्सर्वं संभविष्यति वस्तथा

Mahabharata

Vana Parva, Adhyaya 219, Verse 7

एवमुक्ते ततः शक्रं किं कार्यमिति सोऽब्रवीत्

उक्तः स्कन्देन ब्रूहीति सोऽब्रवीद्वासवस्ततः

Mahabharata

Vana Parva, Adhyaya 219, Verse 8

अभिजित्स्पर्धमाना तु रोहिण्या कन्यसी स्वसा

इच्छन्ती ज्येष्ठतां देवी तपस्तप्तुं वनं गता

Mahabharata

Vana Parva, Adhyaya 219, Verse 9

तत्र मूढोऽस्मि भद्रं ते नक्षत्रं गगनाच्च्युतम्

कालं त्विमं परं स्कन्द ब्रह्मणा सह चिन्तय

Mahabharata

Vana Parva, Adhyaya 219, Verse 10

धनिष्ठादिस्तदा कालो ब्रह्मणा परिनिर्मितः

रोहिण्याद्योऽभवत्पूर्वमेवं संख्या समाभवत्

Mahabharata

Vana Parva, Adhyaya 219, Verse 11

एवमुक्ते तु शक्रेण त्रिदिवं कृत्तिका गताः

नक्षत्रं शकटाकारं भाति तद्वह्निदैवतम्

Mahabharata

Vana Parva, Adhyaya 219, Verse 12

विनता चाब्रवीत्स्कन्दं मम त्वं पिण्डदः सुतः

इच्छामि नित्यमेवाहं त्वया पुत्र सहासितुम्

Mahabharata

Vana Parva, Adhyaya 219, Verse 13

एवमस्तु नमस्तेऽस्तु पुत्रस्नेहात्प्रशाधि माम्

स्नुषया पूज्यमाना वै देवि वत्स्यसि नित्यदा

Mahabharata

Vana Parva, Adhyaya 219, Verse 14

अथ मातृगणः सर्वः स्कन्दं वचनमब्रवीत्

वयं सर्वस्य लोकस्य मातरः कविभिः स्तुताः

इच्छामो मातरस्तुभ्यं भवितुं पूजयस्व नः

Mahabharata

Vana Parva, Adhyaya 219, Verse 15

मातरस्तु भवत्यो मे भवतीनामहं सुतः

उच्यतां यन्मया कार्यं भवतीनामथेप्सितम्

Mahabharata

Vana Parva, Adhyaya 219, Verse 16

यास्तु ता मातरः पूर्वं लोकस्यास्य प्रकल्पिताः

अस्माकं तद्भवेत्स्थानं तासां चैव न तद्भवेत्

Mahabharata

Vana Parva, Adhyaya 219, Verse 17

भवेम पूज्या लोकस्य न ताः पूज्याः सुरर्षभ

प्रजास्माकं हृतास्ताभिस्त्वत्कृते ताः प्रयच्छ नः

Mahabharata

Vana Parva, Adhyaya 219, Verse 18

दत्ताः प्रजा न ताः शक्या भवतीभिर्निषेवितुम्

अन्यां वः कां प्रयच्छामि प्रजां यां मनसेच्छथ

Mahabharata

Vana Parva, Adhyaya 219, Verse 19

इच्छाम तासां मातॄणां प्रजा भोक्तुं प्रयच्छ नः

त्वया सह पृथग्भूता ये च तासामथेश्वराः

Mahabharata

Vana Parva, Adhyaya 219, Verse 20

प्रजा वो दद्मि कष्टं तु भवतीभिरुदाहृतम्

परिरक्षत भद्रं वः प्रजाः साधु नमस्कृताः

Mahabharata

Vana Parva, Adhyaya 219, Verse 21

परिरक्षाम भद्रं ते प्रजाः स्कन्द यथेच्छसि

त्वया नो रोचते स्कन्द सहवासश्चिरं प्रभो

Mahabharata

Vana Parva, Adhyaya 219, Verse 22

यावत्षोडश वर्षाणि भवन्ति तरुणाः प्रजाः

प्रबाधत मनुष्याणां तावद्रूपैः पृथग्विधैः

Mahabharata

Vana Parva, Adhyaya 219, Verse 23

अहं च वः प्रदास्यामि रौद्रमात्मानमव्ययम्

परमं तेन सहिता सुखं वत्स्यथ पूजिताः

Mahabharata

Vana Parva, Adhyaya 219, Verse 24

ततः शरीरात्स्कन्दस्य पुरुषः काञ्चनप्रभः

भोक्तुं प्रजाः स मर्त्यानां निष्पपात महाबलः

Mahabharata

Vana Parva, Adhyaya 219, Verse 25

अपतत्स तदा भूमौ विसंज्ञोऽथ क्षुधान्वितः

स्कन्देन सोऽभ्यनुज्ञातो रौद्ररूपोऽभवद्ग्रहः

स्कन्दापस्मारमित्याहुर्ग्रहं तं द्विजसत्तमाः

Mahabharata

Vana Parva, Adhyaya 219, Verse 26

विनता तु महारौद्रा कथ्यते शकुनिग्रहः

पूतनां राक्षसीं प्राहुस्तं विद्यात्पूतनाग्रहम्

Mahabharata

Vana Parva, Adhyaya 219, Verse 27

कष्टा दारुणरूपेण घोररूपा निशाचरी

पिशाची दारुणाकारा कथ्यते शीतपूतना

गर्भान्सा मानुषीणां तु हरते घोरदर्शना

Mahabharata

Vana Parva, Adhyaya 219, Verse 28

अदितिं रेवतीं प्राहुर्ग्रहस्तस्यास्तु रैवतः

सोऽपि बालाञ्शिशून्घोरो बाधते वै महाग्रहः

Mahabharata

Vana Parva, Adhyaya 219, Verse 29

दैत्यानां या दितिर्माता तामाहुर्मुखमण्डिकाम्

अत्यर्थं शिशुमांसेन संप्रहृष्टा दुरासदा

Mahabharata

Vana Parva, Adhyaya 219, Verse 30

कुमाराश्च कुमार्यश्च ये प्रोक्ताः स्कन्दसंभवाः

तेऽपि गर्भभुजः सर्वे कौरव्य सुमहाग्रहाः