Mahabharata

Vana Parva, Adhyaya 217

Containing 14 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 217, Verse 1

स्कन्दस्य पार्षदान्घोराञ्शृणुष्वाद्भुतदर्शनान्

वज्रप्रहारात्स्कन्दस्य जज्ञुस्तत्र कुमारकाः

ये हरन्ति शिशूञ्जातान्गर्भस्थांश्चैव दारुणाः

Mahabharata

Vana Parva, Adhyaya 217, Verse 2

वज्रप्रहारात्कन्याश्च जज्ञिरेऽस्य महाबलाः

कुमाराश्च विशाखं तं पितृत्वे समकल्पयन्

Mahabharata

Vana Parva, Adhyaya 217, Verse 3

स भूत्वा भगवान्संख्ये रक्षंश्छागमुखस्तदा

वृतः कन्यागणैः सर्वैरात्मनीनैश्च पुत्रकैः

Mahabharata

Vana Parva, Adhyaya 217, Verse 4

मातॄणां प्रेक्षतीनां च भद्रशाखश्च कौशलः

ततः कुमारपितरं स्कन्दमाहुर्जना भुवि

Mahabharata

Vana Parva, Adhyaya 217, Verse 5

रुद्रमग्निमुमां स्वाहां प्रदेशेषु महाबलाम्

यजन्ति पुत्रकामाश्च पुत्रिणश्च सदा जनाः

Mahabharata

Vana Parva, Adhyaya 217, Verse 6

यास्तास्त्वजनयत्कन्यास्तपो नाम हुताशनः

किं करोमीति ताः स्कन्दं संप्राप्ताः समभाषत

Mahabharata

Vana Parva, Adhyaya 217, Verse 7

भवेम सर्वलोकस्य वयं मातर उत्तमाः

प्रसादात्तव पूज्याश्च प्रियमेतत्कुरुष्व नः

Mahabharata

Vana Parva, Adhyaya 217, Verse 8

सोऽब्रवीद्बाढमित्येवं भविष्यध्वं पृथग्विधाः

अशिवाश्च शिवाश्चैव पुनः पुनरुदारधीः

Mahabharata

Vana Parva, Adhyaya 217, Verse 9

ततः संकल्प्य पुत्रत्वे स्कंदं मातृगणोऽगमत्

काकी च हलिमा चैव रुद्राथ बृहली तथा

आर्या पलाला वै मित्रा सप्तैताः शिशुमातरः

Mahabharata

Vana Parva, Adhyaya 217, Verse 10

एतासां वीर्यसंपन्नः शिशुर्नामातिदारुणः

स्कन्दप्रसादजः पुत्रो लोहिताक्षो भयंकरः

Mahabharata

Vana Parva, Adhyaya 217, Verse 11

एष वीराष्टकः प्रोक्तः स्कन्दमातृगणोद्भवः

छागवक्त्रेण सहितो नवकः परिकीर्त्यते

Mahabharata

Vana Parva, Adhyaya 217, Verse 12

षष्ठं छागमयं वक्त्रं स्कन्दस्यैवेति विद्धि तत्

षट्शिरोऽभ्यन्तरं राजन्नित्यं मातृगणार्चितम्

Mahabharata

Vana Parva, Adhyaya 217, Verse 13

षण्णां तु प्रवरं तस्य शीर्षाणामिह शब्द्यते

शक्तिं येनासृजद्दिव्यां भद्रशाख इति स्म ह

Mahabharata

Vana Parva, Adhyaya 217, Verse 14

इत्येतद्विविधाकारं वृत्तं शुक्लस्य पञ्चमीम्

तत्र युद्धं महाघोरं वृत्तं षष्ठ्यां जनाधिप