Vana Parva, Adhyaya 216, Verse 1
ग्रहाः सोपग्रहाश्चैव ऋषयो मातरस्तथा
हुताशनमुखाश्चापि दीप्ताः पारिषदां गणाः
Containing 15 sacred Sanskrit shlokas with multi-author commentaries and translations.
ग्रहाः सोपग्रहाश्चैव ऋषयो मातरस्तथा
हुताशनमुखाश्चापि दीप्ताः पारिषदां गणाः
एते चान्ये च बहवो घोरास्त्रिदिववासिनः
परिवार्य महासेनं स्थिता मातृगणैः सह
संदिग्धं विजयं दृष्ट्वा विजयेप्सुः सुरेश्वरः
आरुह्यैरावतस्कन्धं प्रययौ दैवतैः सह
विजिघांसुर्महासेनमिन्द्रस्तूर्णतरं ययौ
उग्रं तच्च महावेगं देवानीकं महाप्रभम्
विचित्रध्वजसंनाहं नानावाहनकार्मुकम्
प्रवराम्बरसंवीतं श्रिया जुष्टमलंकृतम्
विजिघांसुं तदायान्तं कुमारः शक्रमभ्ययात्
विनदन्पथि शक्रस्तु द्रुतं याति महाबलः
संहर्षयन्देवसेनां जिघांसुः पावकात्मजम्
संपूज्यमानस्त्रिदशैस्तथैव परमर्षिभिः
समीपमुपसंप्राप्तः कार्त्तिकेयस्य वासवः
सिंहनादं ततश्चक्रे देवेशः सहितः सुरैः
गुहोऽपि शब्दं तं श्रुत्वा व्यनदत्सागरो यथा
तस्य शब्देन महता समुद्धूतोदधिप्रभम्
बभ्राम तत्र तत्रैव देवसैन्यमचेतनम्
जिघांसूनुपसंप्राप्तान्देवान्दृष्ट्वा स पावकिः
विससर्ज मुखात्क्रुद्धः प्रवृद्धाः पावकार्चिषः
ता देवसैन्यान्यदहन्वेष्टमानानि भूतले
ते प्रदीप्तशिरोदेहाः प्रदीप्तायुधवाहनाः
प्रच्युताः सहसा भान्ति चित्रास्तारागणा इव
दह्यमानाः प्रपन्नास्ते शरणं पावकात्मजम्
देवा वज्रधरं त्यक्त्वा ततः शान्तिमुपागताः
त्यक्तो देवैस्ततः स्कन्दे वज्रं शक्रोऽभ्यवासृजत्
तद्विसृष्टं जघानाशु पार्श्वं स्कन्दस्य दक्षिणम्
बिभेद च महाराज पार्श्वं तस्य महात्मनः
वज्रप्रहारात्स्कन्दस्य संजातः पुरुषोऽपरः
युवा काञ्चनसंनाहः शक्तिधृग्दिव्यकुण्डलः
यद्वज्रविशनाज्जातो विशाखस्तेन सोऽभवत्
तं जातमपरं दृष्ट्वा कालानलसमद्युतिम्
भयादिन्द्रस्ततः स्कन्दं प्राञ्जलिः शरणं गतः
तस्याभयं ददौ स्कन्दः सहसैन्यस्य सत्तम
ततः प्रहृष्टास्त्रिदशा वादित्राण्यभ्यवादयन्