Mahabharata

Vana Parva, Adhyaya 215

Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 215, Verse 1

ऋषयस्तु महाघोरान्दृष्ट्वोत्पातान्पृथग्विधान्

अकुर्वञ्शान्तिमुद्विग्ना लोकानां लोकभावनाः

Mahabharata

Vana Parva, Adhyaya 215, Verse 2

निवसन्ति वने ये तु तस्मिंश्चैत्ररथे जनाः

तेऽब्रुवन्नेष नोऽनर्थः पावकेनाहृतो महान्

संगम्य षड्भिः पत्नीभिः सप्तर्षीणामिति स्म ह

Mahabharata

Vana Parva, Adhyaya 215, Verse 3

अपरे गरुडीमाहुस्त्वयानर्थोऽयमाहृतः

यैर्दृष्टा सा तदा देवी तस्या रूपेण गच्छती

न तु तत्स्वाहया कर्म कृतं जानाति वै जनः

Mahabharata

Vana Parva, Adhyaya 215, Verse 4

सुपर्णी तु वचः श्रुत्वा ममायं तनयस्त्विति

उपगम्य शनैः स्कन्दमाहाहं जननी तव

Mahabharata

Vana Parva, Adhyaya 215, Verse 5

अथ सप्तर्षयः श्रुत्वा जातं पुत्रं महौजसम्

तत्यजुः षट्तदा पत्नीर्विना देवीमरुन्धतीम्

Mahabharata

Vana Parva, Adhyaya 215, Verse 6

षड्भिरेव तदा जातमाहुस्तद्वनवासिनः

सप्तर्षीनाह च स्वाहा मम पुत्रोऽयमित्युत

अहं जाने नैतदेवमिति राजन्पुनः पुनः

Mahabharata

Vana Parva, Adhyaya 215, Verse 7

विश्वामित्रस्तु कृत्वेष्टिं सप्तर्षीणां महामुनिः

पावकं कामसंतप्तमदृष्टः पृष्ठतोऽन्वगात्

तत्तेन निखिलं सर्वमवबुद्धं यथातथम्

Mahabharata

Vana Parva, Adhyaya 215, Verse 8

विश्वामित्रस्तु प्रथमं कुमारं शरणं गतः

स्तवं दिव्यं संप्रचक्रे महासेनस्य चापि सः

Mahabharata

Vana Parva, Adhyaya 215, Verse 9

मङ्गलानि च सर्वाणि कौमाराणि त्रयोदश

जातकर्मादिकास्तस्य क्रियाश्चक्रे महामुनिः

Mahabharata

Vana Parva, Adhyaya 215, Verse 10

षड्वक्त्रस्य तु माहात्म्यं कुक्कुटस्य च साधनम्

शक्त्या देव्याः साधनं च तथा पारिषदामपि

Mahabharata

Vana Parva, Adhyaya 215, Verse 11

विश्वामित्रश्चकारैतत्कर्म लोकहिताय वै

तस्मादृषिः कुमारस्य विश्वामित्रोऽभवत्प्रियः

Mahabharata

Vana Parva, Adhyaya 215, Verse 12

अन्वजानाच्च स्वाहाया रूपान्यत्वं महामुनिः

अब्रवीच्च मुनीन्सर्वान्नापराध्यन्ति वै स्त्रियः

श्रुत्वा तु तत्त्वतस्तस्मात्ते पत्नीः सर्वतोऽत्यजन्

Mahabharata

Vana Parva, Adhyaya 215, Verse 13

स्कन्दं श्रुत्वा ततो देवा वासवं सहिताब्रुवन्

अविषह्यबलं स्कन्दं जहि शक्राशु माचिरम्

Mahabharata

Vana Parva, Adhyaya 215, Verse 14

यदि वा न निहंस्येनमद्येन्द्रोऽयं भविष्यति

त्रैलोक्यं संनिगृह्यास्मांस्त्वां च शक्र महाबलः

Mahabharata

Vana Parva, Adhyaya 215, Verse 15

स तानुवाच व्यथितो बालोऽयं सुमहाबलः

स्रष्टारमपि लोकानां युधि विक्रम्य नाशयेत्

Mahabharata

Vana Parva, Adhyaya 215, Verse 16

सर्वास्त्वद्याभिगच्छन्तु स्कन्दं लोकस्य मातरः

कामवीर्या घ्नन्तु चैनं तथेत्युक्त्वा च ता ययुः

Mahabharata

Vana Parva, Adhyaya 215, Verse 17

तमप्रतिबलं दृष्ट्वा विषण्णवदनास्तु ताः

अशक्योऽयं विचिन्त्यैवं तमेव शरणं ययुः

Mahabharata

Vana Parva, Adhyaya 215, Verse 18

ऊचुश्चापि त्वमस्माकं पुत्रोऽस्माभिर्धृतं जगत्

अभिनन्दस्व नः सर्वाः प्रस्नुताः स्नेहविक्लवाः

Mahabharata

Vana Parva, Adhyaya 215, Verse 19

ताः संपूज्य महासेनः कामांश्चासां प्रदाय सः

अपश्यदग्निमायान्तं पितरं बलिनां बली

Mahabharata

Vana Parva, Adhyaya 215, Verse 20

स तु संपूजितस्तेन सह मातृगणेन ह

परिवार्य महासेनं रक्षमाणः स्थितः स्थिरम्

Mahabharata

Vana Parva, Adhyaya 215, Verse 21

सर्वासां या तु मातॄणां नारी क्रोधसमुद्भवा

धात्री सा पुत्रवत्स्कन्दं शूलहस्ताभ्यरक्षत

Mahabharata

Vana Parva, Adhyaya 215, Verse 22

लोहितस्योदधेः कन्या क्रूरा लोहितभोजना

परिष्वज्य महासेनं पुत्रवत्पर्यरक्षत

Mahabharata

Vana Parva, Adhyaya 215, Verse 23

अग्निर्भूत्वा नैगमेयश्छागवक्त्रो बहुप्रजः

रमयामास शैलस्थं बालं क्रीडनकैरिव