Vana Parva, Adhyaya 212, Verse 1
आपस्य मुदिता भार्या सहस्य परमा प्रिया
भूपतिर्भुवभर्ता च जनयत्पावकं परम्
Containing 30 sacred Sanskrit shlokas with multi-author commentaries and translations.
आपस्य मुदिता भार्या सहस्य परमा प्रिया
भूपतिर्भुवभर्ता च जनयत्पावकं परम्
भूतानां चापि सर्वेषां यं प्राहुः पावकं पतिम्
आत्मा भुवनभर्तेति सान्वयेषु द्विजातिषु
महतां चैव भूतानां सर्वेषामिह यः पतिः
भगवान्स महातेजा नित्यं चरति पावकः
अग्निर्गृहपतिर्नाम नित्यं यज्ञेषु पूज्यते
हुतं वहति यो हव्यमस्य लोकस्य पावकः
अपां गर्भो महाभागः सहपुत्रो महाद्भुतः
भूपतिर्भुवभर्ता च महतः पतिरुच्यते
दहन्मृतानि भूतानि तस्याग्निर्भरतोऽभवत्
अग्निष्टोमे च नियतः क्रतुश्रेष्ठो भरस्य तु
आयान्तं नियतं दृष्ट्वा प्रविवेशार्णवं भयात्
देवास्तं नाधिगच्छन्ति मार्गमाणा यथादिशम्
दृष्ट्वा त्वग्निरथर्वाणं ततो वचनमब्रवीत्
देवानां वह हव्यं त्वमहं वीर सुदुर्बलः
अथर्वन्गच्छ मध्वक्षं प्रियमेतत्कुरुष्व मे
प्रेष्य चाग्निरथर्वाणमन्यं देशं ततोऽगमत्
मत्स्यास्तस्य समाचख्युः क्रुद्धस्तानग्निरब्रवीत्
भक्ष्या वै विविधैर्भावैर्भविष्यथ शरीरिणाम्
अथर्वाणं तथा चापि हव्यवाहोऽब्रवीद्वचः
अनुनीयमानोऽपि भृशं देववाक्याद्धि तेन सः
नैच्छद्वोढुं हविः सर्वं शरीरं च समत्यजत्
स तच्छरीरं संत्यज्य प्रविवेश धरां तदा
भूमिं स्पृष्ट्वासृजद्धातून्पृथक्पृथगतीव हि
आस्यात्सुगन्धि तेजश्च अस्थिभ्यो देवदारु च
श्लेष्मणः स्फटिकं तस्य पित्तान्मरकतं तथा
यकृत्कृष्णायसं तस्य त्रिभिरेव बभुः प्रजाः
नखास्तस्याभ्रपटलं शिराजालानि विद्रुमम्
शरीराद्विविधाश्चान्ये धातवोऽस्याभवन्नृप
एवं त्यक्त्वा शरीरं तु परमे तपसि स्थितः
भृग्वङ्गिरादिभिर्भूयस्तपसोत्थापितस्तदा
भृशं जज्वाल तेजस्वी तपसाप्यायितः शिखी
दृष्ट्वा ऋषीन्भयाच्चापि प्रविवेश महार्णवम्
तस्मिन्नष्टे जगद्भीतमथर्वाणमथाश्रितम्
अर्चयामासुरेवैनमथर्वाणं सुरर्षयः
अथर्वा त्वसृजल्लोकानात्मनालोक्य पावकम्
मिषतां सर्वभूतानामुन्ममाथ महार्णवम्
एवमग्निर्भगवता नष्टः पूर्वमथर्वणा
आहूतः सर्वभूतानां हव्यं वहति सर्वदा
एवं त्वजनयद्धिष्ण्यान्वेदोक्तान्विबुधान्बहून्
विचरन्विविधान्देशान्भ्रममाणस्तु तत्र वै
सिन्धुवर्जं पञ्च नद्यो देविकाथ सरस्वती
गङ्गा च शतकुम्भा च शरयूर्गण्डसाह्वया
चर्मण्वती मही चैव मेध्या मेधातिथिस्तथा
ताम्रावती वेत्रवती नद्यस्तिस्रोऽथ कौशिकी
तमसा नर्मदा चैव नदी गोदावरी तथा
वेण्णा प्रवेणी भीमा च मेद्रथा चैव भारत
भारती सुप्रयोगा च कावेरी मुर्मुरा तथा
कृष्णा च कृष्णवेण्णा च कपिला शोण एव च
एता नद्यस्तु धिष्ण्यानां मातरो याः प्रकीर्तिताः
अद्भुतस्य प्रिया भार्या तस्याः पुत्रो विडूरथः
यावन्तः पावकाः प्रोक्ताः सोमास्तावन्त एव च
अत्रेश्चाप्यन्वये जाता ब्रह्मणो मानसाः प्रजाः
अत्रिः पुत्रान्स्रष्टुकामस्तानेवात्मन्यधारयत्
तस्य तद्ब्रह्मणः कायान्निर्हरन्ति हुताशनाः
एवमेते महात्मानः कीर्तितास्तेऽग्नयो मया
अप्रमेया यथोत्पन्नाः श्रीमन्तस्तिमिरापहाः
अद्भुतस्य तु माहात्म्यं यथा वेदेषु कीर्तितम्
तादृशं विद्धि सर्वेषामेको ह्येष हुताशनः
एक एवैष भगवान्विज्ञेयः प्रथमोऽङ्गिराः
बहुधा निःसृतः कायाज्ज्योतिष्टोमः क्रतुर्यथा
इत्येष वंशः सुमहानग्नीनां कीर्तितो मया
पावितो विविधैर्मन्त्रैर्हव्यं वहति देहिनाम्