Mahabharata

Vana Parva, Adhyaya 211

Containing 31 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 211, Verse 1

गुरुभिर्नियमैर्युक्तो भरतो नाम पावकः

अग्निः पुष्टिमतिर्नाम तुष्टः पुष्टिं प्रयच्छति

भरत्येष प्रजाः सर्वास्ततो भरत उच्यते

Mahabharata

Vana Parva, Adhyaya 211, Verse 2

अग्निर्यस्तु शिवो नाम शक्तिपूजापरश्च सः

दुःखार्तानां स सर्वेषां शिवकृत्सततं शिवः

Mahabharata

Vana Parva, Adhyaya 211, Verse 3

तपसस्तु फलं दृष्ट्वा संप्रवृद्धं तपो महत्

उद्धर्तुकामो मतिमान्पुत्रो जज्ञे पुरंदरः

Mahabharata

Vana Parva, Adhyaya 211, Verse 4

ऊष्मा चैवोष्मणो जज्ञे सोऽग्निर्भूतेषु लक्ष्यते

अग्निश्चापि मनुर्नाम प्राजापत्यमकारयत्

Mahabharata

Vana Parva, Adhyaya 211, Verse 5

शंभुमग्निमथ प्राहुर्ब्राह्मणा वेदपारगाः

आवसथ्यं द्विजाः प्राहुर्दीप्तमग्निं महाप्रभम्

Mahabharata

Vana Parva, Adhyaya 211, Verse 6

ऊर्जस्करान्हव्यवाहान्सुवर्णसदृशप्रभान्

अग्निस्तपो ह्यजनयत्पञ्च यज्ञसुतानिह

Mahabharata

Vana Parva, Adhyaya 211, Verse 7

प्रशान्तेऽग्निर्महाभाग परिश्रान्तो गवांपतिः

असुराञ्जनयन्घोरान्मर्त्यांश्चैव पृथग्विधान्

Mahabharata

Vana Parva, Adhyaya 211, Verse 8

तपसश्च मनुं पुत्रं भानुं चाप्यङ्गिरासृजत्

बृहद्भानुं तु तं प्राहुर्ब्राह्मणा वेदपारगाः

Mahabharata

Vana Parva, Adhyaya 211, Verse 9

भानोर्भार्या सुप्रजा तु बृहद्भासा तु सोमजा

असृजेतां तु षट्पुत्राञ्शृणु तासां प्रजाविधिम्

Mahabharata

Vana Parva, Adhyaya 211, Verse 10

दुर्बलानां तु भूतानां तनुं यः संप्रयच्छति

तमग्निं बलदं प्राहुः प्रथमं भानुतः सुतम्

Mahabharata

Vana Parva, Adhyaya 211, Verse 11

यः प्रशान्तेषु भूतेषु मन्युर्भवति दारुणः

अग्निः स मन्युमान्नाम द्वितीयो भानुतः सुतः

Mahabharata

Vana Parva, Adhyaya 211, Verse 12

दर्शे च पौर्णमासे च यस्येह हविरुच्यते

विष्णुर्नामेह योऽग्निस्तु धृतिमान्नाम सोऽङ्गिराः

Mahabharata

Vana Parva, Adhyaya 211, Verse 13

इन्द्रेण सहितं यस्य हविराग्रयणं स्मृतम्

अग्निराग्रयणो नाम भानोरेवान्वयस्तु सः

Mahabharata

Vana Parva, Adhyaya 211, Verse 14

चातुर्मास्येषु नित्यानां हविषां यो निरग्रहः

चतुर्भिः सहितः पुत्रैर्भानोरेवान्वयस्तु सः

Mahabharata

Vana Parva, Adhyaya 211, Verse 15

निशां त्वजनयत्कन्यामग्नीषोमावुभौ तथा

मनोरेवाभवद्भार्या सुषुवे पञ्च पावकान्

Mahabharata

Vana Parva, Adhyaya 211, Verse 16

पूज्यते हविषाग्र्येण चातुर्मास्येषु पावकः

पर्जन्यसहितः श्रीमानग्निर्वैश्वानरस्तु सः

Mahabharata

Vana Parva, Adhyaya 211, Verse 17

अस्य लोकस्य सर्वस्य यः पतिः परिपठ्यते

सोऽग्निर्विश्वपतिर्नाम द्वितीयो वै मनोः सुतः

ततः स्विष्टं भवेदाज्यं स्विष्टकृत्परमः स्मृतः

Mahabharata

Vana Parva, Adhyaya 211, Verse 18

कन्या सा रोहिणी नाम हिरण्यकशिपोः सुता

कर्मणासौ बभौ भार्या स वह्निः स प्रजापतिः

Mahabharata

Vana Parva, Adhyaya 211, Verse 19

प्राणमाश्रित्य यो देहं प्रवर्तयति देहिनाम्

तस्य संनिहितो नाम शब्दरूपस्य साधनः

Mahabharata

Vana Parva, Adhyaya 211, Verse 20

शुक्लकृष्णगतिर्देवो यो बिभर्ति हुताशनम्

अकल्मषः कल्मषाणां कर्ता क्रोधाश्रितस्तु सः

Mahabharata

Vana Parva, Adhyaya 211, Verse 21

कपिलं परमर्षिं च यं प्राहुर्यतयः सदा

अग्निः स कपिलो नाम सांख्ययोगप्रवर्तकः

Mahabharata

Vana Parva, Adhyaya 211, Verse 22

अग्निर्यच्छति भूतानि येन भूतानि नित्यदा

कर्मस्विह विचित्रेषु सोऽग्रणीर्वह्निरुच्यते

Mahabharata

Vana Parva, Adhyaya 211, Verse 23

इमानन्यान्समसृजत्पावकान्प्रथितान्भुवि

अग्निहोत्रस्य दुष्टस्य प्रायश्चित्तार्थमुल्बणान्

Mahabharata

Vana Parva, Adhyaya 211, Verse 24

संस्पृशेयुर्यदान्योन्यं कथंचिद्वायुनाग्नयः

इष्टिरष्टाकपालेन कार्या वै शुचयेऽग्नये

Mahabharata

Vana Parva, Adhyaya 211, Verse 25

दक्षिणाग्निर्यदा द्वाभ्यां संसृजेत तदा किल

इष्टिरष्टाकपालेन कार्या वै वीतयेऽग्नये

Mahabharata

Vana Parva, Adhyaya 211, Verse 26

यद्यग्नयो हि स्पृश्येयुर्निवेशस्था दवाग्निना

इष्टिरष्टाकपालेन कार्या तु शुचयेऽग्नये

Mahabharata

Vana Parva, Adhyaya 211, Verse 27

अग्निं रजस्वला चेत्स्त्री संस्पृशेदग्निहोत्रिकम्

इष्टिरष्टाकपालेन कार्या दस्युमतेऽग्नये

Mahabharata

Vana Parva, Adhyaya 211, Verse 28

मृतः श्रूयेत यो जीवन्परेयुः पशवो यथा

इष्टिरष्टाकपालेन कर्तव्याभिमतेऽग्नये

Mahabharata

Vana Parva, Adhyaya 211, Verse 29

आर्तो न जुहुयादग्निं त्रिरात्रं यस्तु ब्राह्मणः

इष्टिरष्टाकपालेन कार्या स्यादुत्तराग्नये

Mahabharata

Vana Parva, Adhyaya 211, Verse 30

दर्शं च पौर्णमासं च यस्य तिष्ठेत्प्रतिष्ठितम्

इष्टिरष्टाकपालेन कार्या पथिकृतेऽग्नये