Vana Parva, Adhyaya 210, Verse 1
काश्यपो ह्यथ वासिष्ठः प्राणश्च प्राणपुत्रकः
अग्निराङ्गिरसश्चैव च्यवनस्त्रिषुवर्चकः
Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.
काश्यपो ह्यथ वासिष्ठः प्राणश्च प्राणपुत्रकः
अग्निराङ्गिरसश्चैव च्यवनस्त्रिषुवर्चकः
अचरन्त तपस्तीव्रं पुत्रार्थे बहुवार्षिकम्
पुत्रं लभेम धर्मिष्ठं यशसा ब्रह्मणा समम्
महाव्याहृतिभिर्ध्यातः पञ्चभिस्तैस्तदा त्वथ
जज्ञे तेजोमयोऽर्चिष्मान्पञ्चवर्णः प्रभावनः
समिद्धोऽग्निः शिरस्तस्य बाहू सूर्यनिभौ तथा
त्वङ्नेत्रे च सुवर्णाभे कृष्णे जङ्घे च भारत
पञ्चवर्णः स तपसा कृतस्तैः पञ्चभिर्जनैः
पाञ्चजन्यः श्रुतो वेदे पञ्चवंशकरस्तु सः
दश वर्षसहस्राणि तपस्तप्त्वा महातपाः
जनयत्पावकं घोरं पितॄणां स प्रजाः सृजन्
बृहद्रथंतरं मूर्ध्नो वक्त्राच्च तरसाहरौ
शिवं नाभ्यां बलादिन्द्रं वाय्वग्नी प्राणतोऽसृजत्
बाहुभ्यामनुदात्तौ च विश्वे भूतानि चैव ह
एतान्सृष्ट्वा ततः पञ्च पितॄणामसृजत्सुतान्
बृहदूर्जस्य प्रणिधिः काश्यपस्य बृहत्तरः
भानुरङ्गिरसो वीरः पुत्रो वर्चस्य सौभरः
प्राणस्य चानुदात्तश्च व्याख्याताः पञ्च वंशजाः
देवान्यज्ञमुषश्चान्यान्सृजन्पञ्चदशोत्तरान्
अभीममतिभीमं च भीमं भीमबलाबलम्
एतान्यज्ञमुषः पञ्च देवानभ्यसृजत्तपः
सुमित्रं मित्रवन्तं च मित्रज्ञं मित्रवर्धनम्
मित्रधर्माणमित्येतान्देवानभ्यसृजत्तपः
सुरप्रवीरं वीरं च सुकेशं च सुवर्चसम्
सुराणामपि हन्तारं पञ्चैतानसृजत्तपः
त्रिविधं संस्थिता ह्येते पञ्च पञ्च पृथक्पृथक्
मुष्णन्त्यत्र स्थिता ह्येते स्वर्गतो यज्ञयाजिनः
तेषामिष्टं हरन्त्येते निघ्नन्ति च महद्भुवि
स्पर्धया हव्यवाहानां निघ्नन्त्येते हरन्ति च
हविर्वेद्यां तदादानं कुशलैः संप्रवर्तितम्
तदेते नोपसर्पन्ति यत्र चाग्निः स्थितो भवेत्
चितोऽग्निरुद्वहन्यज्ञं पक्षाभ्यां तान्प्रबाधते
मन्त्रैः प्रशमिता ह्येते नेष्टं मुष्णन्ति यज्ञियम्
बृहदुक्थतपस्यैव पुत्रो भूमिमुपाश्रितः
अग्निहोत्रे हूयमाने पृथिव्यां सद्भिरिज्यते
रथंतरश्च तपसः पुत्रोऽग्निः परिपठ्यते
मित्रविन्दाय वै तस्य हविरध्वर्यवो विदुः
मुमुदे परमप्रीतः सह पुत्रैर्महायशाः