Vana Parva, Adhyaya 209, Verse 1
बृहस्पतेश्चान्द्रमसी भार्याभूद्या यशस्विनी
अग्नीन्साजनयत्पुण्यान्षडेकां चापि पुत्रिकाम्
Containing 25 sacred Sanskrit shlokas with multi-author commentaries and translations.
बृहस्पतेश्चान्द्रमसी भार्याभूद्या यशस्विनी
अग्नीन्साजनयत्पुण्यान्षडेकां चापि पुत्रिकाम्
आहुतिष्वेव यस्याग्नेर्हविषाज्यं विधीयते
सोऽग्निर्बृहस्पतेः पुत्रः शंयुर्नाम महाप्रभः
चातुर्मास्येषु यस्येष्ट्यामश्वमेधेऽग्रजः पशुः
दीप्तो ज्वालैरनेकाभैरग्निरेकोऽथ वीर्यवान्
शंयोरप्रतिमा भार्या सत्या सत्या च धर्मजा
अग्निस्तस्य सुतो दीप्तस्तिस्रः कन्याश्च सुव्रताः
प्रथमेनाज्यभागेन पूज्यते योऽग्निरध्वरे
अग्निस्तस्य भरद्वाजः प्रथमः पुत्र उच्यते
पौर्णमास्येषु सर्वेषु हविषाज्यं स्रुवोद्यतम्
भरतो नामतः सोऽग्निर्द्वितीयः शंयुतः सुतः
तिस्रः कन्या भवन्त्यन्या यासां स भरतः पतिः
भरतस्तु सुतस्तस्य भरत्येका च पुत्रिका
भरतो भरतस्याग्नेः पावकस्तु प्रजापतेः
महानत्यर्थमहितस्तथा भरतसत्तम
भरद्वाजस्य भार्या तु वीरा वीरश्च पिण्डदः
प्राहुराज्येन तस्येज्यां सोमस्येव द्विजाः शनैः
हविषा यो द्वितीयेन सोमेन सह युज्यते
रथप्रभू रथध्वानः कुम्भरेताः स उच्यते
सरय्वां जनयत्सिद्धिं भानुं भाभिः समावृणोत्
आग्नेयमानयन्नित्यमाह्वानेष्वेष कथ्यते
यस्तु न च्यवते नित्यं यशसा वर्चसा श्रिया
अग्निर्निश्च्यवनो नाम पृथिवीं स्तौति केवलम्
विपाप्मा कलुषैर्मुक्तो विशुद्धश्चार्चिषा ज्वलन्
विपापोऽग्निः सुतस्तस्य सत्यः समयकर्मसु
आक्रोशतां हि भूतानां यः करोति हि निष्कृतिम्
अग्निः स निष्कृतिर्नाम शोभयत्यभिसेवितः
अनुकूजन्ति येनेह वेदनार्ताः स्वयं जनाः
तस्य पुत्रः स्वनो नाम पावकः स रुजस्करः
यस्तु विश्वस्य जगतो बुद्धिमाक्रम्य तिष्ठति
तं प्राहुरध्यात्मविदो विश्वजिन्नाम पावकम्
अन्तराग्निः श्रितो यो हि भुक्तं पचति देहिनाम्
स यज्ञे विश्वभुङ्नाम सर्वलोकेषु भारत
ब्रह्मचारी यतात्मा च सततं विपुलव्रतः
ब्राह्मणाः पूजयन्त्येनं पाकयज्ञेषु पावकम्
प्रथितो गोपतिर्नाम नदी यस्याभवत्प्रिया
तस्मिन्सर्वाणि कर्माणि क्रियन्ते कर्मकर्तृभिः
वडवामुखः पिबत्यम्भो योऽसौ परमदारुणः
ऊर्ध्वभागूर्ध्वभाङ्नाम कविः प्राणाश्रितस्तु सः
उदग्द्वारं हविर्यस्य गृहे नित्यं प्रदीयते
ततः स्विष्टं भवेदाज्यं स्विष्टकृत्परमः स्मृतः
यः प्रशान्तेषु भूतेषु मन्युर्भवति पावकः
क्रोधस्य तु रसो जज्ञे मन्यती चाथ पुत्रिका
स्वाहेति दारुणा क्रूरा सर्वभूतेषु तिष्ठति
त्रिदिवे यस्य सदृशो नास्ति रूपेण कश्चन
अतुल्यत्वात्कृतो देवैर्नाम्ना कामस्तु पावकः
संहर्षाद्धारयन्क्रोधं धन्वी स्रग्वी रथे स्थितः
समरे नाशयेच्छत्रूनमोघो नाम पावकः
उक्थो नाम महाभाग त्रिभिरुक्थैरभिष्टुतः
महावाचं त्वजनयत्सकामाश्वं हि यं विदुः