Mahabharata

Vana Parva, Adhyaya 207

Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 207, Verse 1

श्रुत्वेमां धर्मसंयुक्तां धर्मराजः कथां शुभाम्

पुनः पप्रच्छ तमृषिं मार्कण्डेयं तपस्विनम्

Mahabharata

Vana Parva, Adhyaya 207, Verse 2

कथमग्निर्वनं यातः कथं चाप्यङ्गिराः पुरा

नष्टेऽग्नौ हव्यमवहदग्निर्भूत्वा महानृषिः

Mahabharata

Vana Parva, Adhyaya 207, Verse 3

अग्निर्यदा त्वेक एव बहुत्वं चास्य कर्मसु

दृश्यते भगवन्सर्वमेतदिच्छामि वेदितुम्

Mahabharata

Vana Parva, Adhyaya 207, Verse 4

कुमारश्च यथोत्पन्नो यथा चाग्नेः सुतोऽभवत्

यथा रुद्राच्च संभूतो गङ्गायां कृत्तिकासु च

Mahabharata

Vana Parva, Adhyaya 207, Verse 5

एतदिच्छाम्यहं त्वत्तः श्रोतुं भार्गवनन्दन

कौतूहलसमाविष्टो यथातथ्यं महामुने

Mahabharata

Vana Parva, Adhyaya 207, Verse 6

अत्राप्युदाहरन्तीममितिहासं पुरातनम्

यथा क्रुद्धो हुतवहस्तपस्तप्तुं वनं गतः

Mahabharata

Vana Parva, Adhyaya 207, Verse 7

यथा च भगवानग्निः स्वयमेवाङ्गिराभवत्

संतापयन्स्वप्रभया नाशयंस्तिमिराणि च

Mahabharata

Vana Parva, Adhyaya 207, Verse 8

आश्रमस्थो महाभागो हव्यवाहं विशेषयन्

तथा स भूत्वा तु तदा जगत्सर्वं प्रकाशयन्

Mahabharata

Vana Parva, Adhyaya 207, Verse 9

तपश्चरंश्च हुतभुक्संतप्तस्तस्य तेजसा

भृशं ग्लानश्च तेजस्वी न स किंचित्प्रजज्ञिवान्

Mahabharata

Vana Parva, Adhyaya 207, Verse 10

अथ संचिन्तयामास भगवान्हव्यवाहनः

अन्योऽग्निरिह लोकानां ब्रह्मणा संप्रवर्तितः

अग्नित्वं विप्रनष्टं हि तप्यमानस्य मे तपः

Mahabharata

Vana Parva, Adhyaya 207, Verse 11

कथमग्निः पुनरहं भवेयमिति चिन्त्य सः

अपश्यदग्निवल्लोकांस्तापयन्तं महामुनिम्

Mahabharata

Vana Parva, Adhyaya 207, Verse 12

सोपासर्पच्छनैर्भीतस्तमुवाच तदाङ्गिराः

शीघ्रमेव भवस्वाग्निस्त्वं पुनर्लोकभावनः

विज्ञातश्चासि लोकेषु त्रिषु संस्थानचारिषु

Mahabharata

Vana Parva, Adhyaya 207, Verse 13

त्वमग्ने प्रथमः सृष्टो ब्रह्मणा तिमिरापहः

स्वस्थानं प्रतिपद्यस्व शीघ्रमेव तमोनुद

Mahabharata

Vana Parva, Adhyaya 207, Verse 14

नष्टकीर्तिरहं लोके भवाञ्जातो हुताशनः

भवन्तमेव ज्ञास्यन्ति पावकं न तु मां जनाः

Mahabharata

Vana Parva, Adhyaya 207, Verse 15

निक्षिपाम्यहमग्नित्वं त्वमग्निः प्रथमो भव

भविष्यामि द्वितीयोऽहं प्राजापत्यक एव च

Mahabharata

Vana Parva, Adhyaya 207, Verse 16

कुरु पुण्यं प्रजास्वर्ग्यं भवाग्निस्तिमिरापहः

मां च देव कुरुष्वाग्ने प्रथमं पुत्रमञ्जसा

Mahabharata

Vana Parva, Adhyaya 207, Verse 17

तच्छ्रुत्वाङ्गिरसो वाक्यं जातवेदास्तथाकरोत्

राजन्बृहस्पतिर्नाम तस्याप्यङ्गिरसः सुतः

Mahabharata

Vana Parva, Adhyaya 207, Verse 18

ज्ञात्वा प्रथमजं तं तु वह्नेराङ्गिरसं सुतम्

उपेत्य देवाः पप्रच्छुः कारणं तत्र भारत

Mahabharata

Vana Parva, Adhyaya 207, Verse 19

स तु पृष्टस्तदा देवैस्ततः कारणमब्रवीत्

प्रत्यगृह्णंस्तु देवाश्च तद्वचोऽङ्गिरसस्तदा

Mahabharata

Vana Parva, Adhyaya 207, Verse 20

अत्र नानाविधानग्नीन्प्रवक्ष्यामि महाप्रभान्

कर्मभिर्बहुभिः ख्यातान्नानात्वं ब्राह्मणेष्विह