Mahabharata

Vana Parva, Adhyaya 206

Containing 34 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 206, Verse 1

एवं शप्तोऽहमृषिणा तदा द्विजवरोत्तम

अभिप्रसादयमृषिं गिरा वाक्यविशारदम्

Mahabharata

Vana Parva, Adhyaya 206, Verse 2

अजानता मयाकार्यमिदमद्य कृतं मुने

क्षन्तुमर्हसि तत्सर्वं प्रसीद भगवन्निति

Mahabharata

Vana Parva, Adhyaya 206, Verse 3

नान्यथा भविता शाप एवमेतदसंशयम्

आनृशंस्यादहं किंचित्कर्तानुग्रहमद्य ते

Mahabharata

Vana Parva, Adhyaya 206, Verse 4

शूद्रयोनौ वर्तमानो धर्मज्ञो भविता ह्यसि

मातापित्रोश्च शुश्रूषां करिष्यसि न संशयः

Mahabharata

Vana Parva, Adhyaya 206, Verse 5

तया शुश्रूषया सिद्धिं महतीं समवाप्स्यसि

जातिस्मरश्च भविता स्वर्गं चैव गमिष्यसि

शापक्षयान्ते निर्वृत्ते भवितासि पुनर्द्विजः

Mahabharata

Vana Parva, Adhyaya 206, Verse 6

एवं शप्तः पुरा तेन ऋषिणास्म्युग्रतेजसा

प्रसादश्च कृतस्तेन ममैवं द्विपदां वर

Mahabharata

Vana Parva, Adhyaya 206, Verse 7

शरं चोद्धृतवानस्मि तस्य वै द्विजसत्तम

आश्रमं च मया नीतो न च प्राणैर्व्ययुज्यत

Mahabharata

Vana Parva, Adhyaya 206, Verse 8

एतत्ते सर्वमाख्यातं यथा मम पुराभवत्

अभितश्चापि गन्तव्यं मया स्वर्गं द्विजोत्तम

Mahabharata

Vana Parva, Adhyaya 206, Verse 9

एवमेतानि पुरुषा दुःखानि च सुखानि च

प्राप्नुवन्ति महाबुद्धे नोत्कण्ठां कर्तुमर्हसि

दुष्करं हि कृतं तात जानता जातिमात्मनः

Mahabharata

Vana Parva, Adhyaya 206, Verse 10

कर्मदोषश्च वै विद्वन्नात्मजातिकृतेन वै

कंचित्कालं मृष्यतां वै ततोऽसि भविता द्विजः

सांप्रतं च मतो मेऽसि ब्राह्मणो नात्र संशयः

Mahabharata

Vana Parva, Adhyaya 206, Verse 11

ब्राह्मणः पतनीयेषु वर्तमानो विकर्मसु

दाम्भिको दुष्कृतप्रायः शूद्रेण सदृशो भवेत्

Mahabharata

Vana Parva, Adhyaya 206, Verse 12

यस्तु शूद्रो दमे सत्ये धर्मे च सततोत्थितः

तं ब्राह्मणमहं मन्ये वृत्तेन हि भवेद्द्विजः

Mahabharata

Vana Parva, Adhyaya 206, Verse 13

कर्मदोषेण विषमां गतिमाप्नोति दारुणाम्

क्षीणदोषमहं मन्ये चाभितस्त्वां नरोत्तम

Mahabharata

Vana Parva, Adhyaya 206, Verse 14

कर्तुमर्हसि नोत्कण्ठां त्वद्विधा ह्यविषादिनः

लोकवृत्तान्तवृत्तज्ञा नित्यं धर्मपरायणाः

Mahabharata

Vana Parva, Adhyaya 206, Verse 15

प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः

एतद्विज्ञानसामर्थ्यं न बालैः समतां व्रजेत्

Mahabharata

Vana Parva, Adhyaya 206, Verse 16

अनिष्टसंप्रयोगाच्च विप्रयोगात्प्रियस्य च

मानुषा मानसैर्दुःखैर्युज्यन्ते अल्पबुद्धयः

Mahabharata

Vana Parva, Adhyaya 206, Verse 17

गुणैर्भूतानि युज्यन्ते वियुज्यन्ते तथैव च

सर्वाणि नैतदेकस्य शोकस्थानं हि विद्यते

Mahabharata

Vana Parva, Adhyaya 206, Verse 18

अनिष्टेनान्वितं पश्यंस्तथा क्षिप्रं विरज्यते

ततश्च प्रतिकुर्वन्ति यदि पश्यन्त्युपक्रमम्

शोचतो न भवेत्किंचित्केवलं परितप्यते

Mahabharata

Vana Parva, Adhyaya 206, Verse 19

परित्यजन्ति ये दुःखं सुखं वाप्युभयं नराः

त एव सुखमेधन्ते ज्ञानतृप्ता मनीषिणः

Mahabharata

Vana Parva, Adhyaya 206, Verse 20

असंतोषपरा मूढाः संतोषं यान्ति पण्डिताः

असंतोषस्य नास्त्यन्तस्तुष्टिस्तु परमं सुखम्

न शोचन्ति गताध्वानः पश्यन्तः परमां गतिम्

Mahabharata

Vana Parva, Adhyaya 206, Verse 21

न विषादे मनः कार्यं विषादो विषमुत्तमम्

मारयत्यकृतप्रज्ञं बालं क्रुद्ध इवोरगः

Mahabharata

Vana Parva, Adhyaya 206, Verse 22

यं विषादोऽभिभवति विषमे समुपस्थिते

तेजसा तस्य हीनस्य पुरुषार्थो न विद्यते

Mahabharata

Vana Parva, Adhyaya 206, Verse 23

अवश्यं क्रियमाणस्य कर्मणो दृश्यते फलम्

न हि निर्वेदमागम्य किंचित्प्राप्नोति शोभनम्

Mahabharata

Vana Parva, Adhyaya 206, Verse 24

अथाप्युपायं पश्येत दुःखस्य परिमोक्षणे

अशोचन्नारभेतैव युक्तश्चाव्यसनी भवेत्

Mahabharata

Vana Parva, Adhyaya 206, Verse 25

भूतेष्वभावं संचिन्त्य ये तु बुद्धेः परं गताः

न शोचन्ति कृतप्रज्ञाः पश्यन्तः परमां गतिम्

Mahabharata

Vana Parva, Adhyaya 206, Verse 26

न शोचामि च वै विद्वन्कालाकाङ्क्षी स्थितोऽस्म्यहम्

एतैर्निदर्शनैर्ब्रह्मन्नावसीदामि सत्तम

Mahabharata

Vana Parva, Adhyaya 206, Verse 27

कृतप्रज्ञोऽसि मेधावी बुद्धिश्च विपुला तव

नाहं भवन्तं शोचामि ज्ञानतृप्तोऽसि धर्मवित्

Mahabharata

Vana Parva, Adhyaya 206, Verse 28

आपृच्छे त्वां स्वस्ति तेऽस्तु धर्मस्त्वा परिरक्षतु

अप्रमादस्तु कर्तव्यो धर्मे धर्मभृतां वर

Mahabharata

Vana Parva, Adhyaya 206, Verse 29

बाढमित्येव तं व्याधः कृताञ्जलिरुवाच ह

प्रदक्षिणमथो कृत्वा प्रस्थितो द्विजसत्तमः

Mahabharata

Vana Parva, Adhyaya 206, Verse 30

स तु गत्वा द्विजः सर्वां शुश्रूषां कृतवांस्तदा

मातापितृभ्यां वृद्धाभ्यां यथान्यायं सुसंशितः