Vana Parva, Adhyaya 205, Verse 1
गुरू निवेद्य विप्राय तौ मातापितरावुभौ
पुनरेव स धर्मात्मा व्याधो ब्राह्मणमब्रवीत्
Containing 29 sacred Sanskrit shlokas with multi-author commentaries and translations.
गुरू निवेद्य विप्राय तौ मातापितरावुभौ
पुनरेव स धर्मात्मा व्याधो ब्राह्मणमब्रवीत्
प्रवृत्तचक्षुर्जातोऽस्मि संपश्य तपसो बलम्
यदर्थमुक्तोऽसि तया गच्छस्व मिथिलामिति
पतिशुश्रूषपरया दान्तया सत्यशीलया
मिथिलायां वसन्व्याधः स ते धर्मान्प्रवक्ष्यति
पतिव्रतायाः सत्यायाः शीलाढ्याया यतव्रत
संस्मृत्य वाक्यं धर्मज्ञ गुणवानसि मे मतः
यत्तदा त्वं द्विजश्रेष्ठ तयोक्तो मां प्रति प्रभो
दृष्टमेतत्तया सम्यगेकपत्न्या न संशयः
त्वदनुग्रहबुद्ध्या तु विप्रैतद्दर्शितं मया
वाक्यं च शृणु मे तात यत्ते वक्ष्ये हितं द्विज
त्वया विनिकृता माता पिता च द्विजसत्तम
अनिसृष्टोऽसि निष्क्रान्तो गृहात्ताभ्यामनिन्दित
वेदोच्चारणकार्यार्थमयुक्तं तत्त्वया कृतम्
तव शोकेन वृद्धौ तावन्धौ जातौ तपस्विनौ
तौ प्रसादयितुं गच्छ मा त्वा धर्मोऽत्यगान्महान्
तपस्वी त्वं महात्मा च धर्मे च निरतः सदा
सर्वमेतदपार्थं ते क्षिप्रं तौ संप्रसादय
श्रद्दधस्व मम ब्रह्मन्नान्यथा कर्तुमर्हसि
गम्यतामद्य विप्रर्षे श्रेयस्ते कथयाम्यहम्
यदेतदुक्तं भवता सर्वं सत्यमसंशयम्
प्रीतोऽस्मि तव धर्मज्ञ साध्वाचार गुणान्वित
दैवतप्रतिमो हि त्वं यस्त्वं धर्ममनुव्रतः
पुराणं शाश्वतं दिव्यं दुष्प्रापमकृतात्मभिः
अतन्द्रितः कुरु क्षिप्रं मातापित्रोर्हि पूजनम्
अतः परमहं धर्मं नान्यं पश्यामि कंचन
इहाहमागतो दिष्ट्या दिष्ट्या मे संगतं त्वया
ईदृशा दुर्लभा लोके नरा धर्मप्रदर्शकाः
एको नरसहस्रेषु धर्मविद्विद्यते न वा
प्रीतोऽस्मि तव सत्येन भद्रं ते पुरुषोत्तम
पतमानो हि नरके भवतास्मि समुद्धृतः
भवितव्यमथैवं च यद्दृष्टोऽसि मयानघ
राजा ययातिर्दौहित्रैः पतितस्तारितो यथा
सद्भिः पुरुषशार्दूल तथाहं भवता त्विह
मातापितृभ्यां शुश्रूषां करिष्ये वचनात्तव
नाकृतात्मा वेदयति धर्माधर्मविनिश्चयम्
दुर्ज्ञेयः शाश्वतो धर्मः शूद्रयोनौ हि वर्तता
न त्वां शूद्रमहं मन्ये भवितव्यं हि कारणम्
येन कर्मविपाकेन प्राप्तेयं शूद्रता त्वया
एतदिच्छामि विज्ञातुं तत्त्वेन हि महामते
कामया ब्रूहि मे तथ्यं सर्वं त्वं प्रयतात्मवान्
अनतिक्रमणीया हि ब्राह्मणा वै द्विजोत्तम
शृणु सर्वमिदं वृत्तं पूर्वदेहे ममानघ
अहं हि ब्राह्मणः पूर्वमासं द्विजवरात्मज
वेदाध्यायी सुकुशलो वेदाङ्गानां च पारगः
आत्मदोषकृतैर्ब्रह्मन्नवस्थां प्राप्तवानिमाम्
कश्चिद्राजा मम सखा धनुर्वेदपरायणः
संसर्गाद्धनुषि श्रेष्ठस्ततोऽहमभवं द्विज
एतस्मिन्नेव काले तु मृगयां निर्गतो नृपः
सहितो योधमुख्यैश्च मन्त्रिभिश्च सुसंवृतः
ततोऽभ्यहन्मृगांस्तत्र सुबहूनाश्रमं प्रति
अथ क्षिप्तः शरो घोरो मयापि द्विजसत्तम
ताडितश्च मुनिस्तेन शरेणानतपर्वणा
भूमौ निपतितो ब्रह्मन्नुवाच प्रतिनादयन्
नापराध्याम्यहं किंचित्केन पापमिदं कृतम्
मन्वानस्तं मृगं चाहं संप्राप्तः सहसा मुनिम्
अपश्यं तमृषिं विद्धं शरेणानतपर्वणा
तमुग्रतपसं विप्रं निष्टनन्तं महीतले
अकार्यकरणाच्चापि भृशं मे व्यथितं मनः
अजानता कृतमिदं मयेत्यथ तमब्रुवम्
क्षन्तुमर्हसि मे ब्रह्मन्निति चोक्तो मया मुनिः
ततः प्रत्यब्रवीद्वाक्यमृषिर्मां क्रोधमूर्छितः
व्याधस्त्वं भविता क्रूर शूद्रयोनाविति द्विज