Vana Parva, Adhyaya 204, Verse 1
एवं संकथिते कृत्स्ने मोक्षधर्मे युधिष्ठिर
दृढं प्रीतमना विप्रो धर्मव्याधमुवाच ह
Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.
एवं संकथिते कृत्स्ने मोक्षधर्मे युधिष्ठिर
दृढं प्रीतमना विप्रो धर्मव्याधमुवाच ह
न्याययुक्तमिदं सर्वं भवता परिकीर्तितम्
न तेऽस्त्यविदितं किंचिद्धर्मेष्विह हि दृश्यते
प्रत्यक्षं मम यो धर्मस्तं पश्य द्विजसत्तम
येन सिद्धिरियं प्राप्ता मया ब्राह्मणपुंगव
उत्तिष्ठ भगवन्क्षिप्रं प्रविश्याभ्यन्तरं गृहम्
द्रष्टुमर्हसि धर्मज्ञ मातरं पितरं च मे
इत्युक्तः स प्रविश्याथ ददर्श परमार्चितम्
सौधं हृद्यं चतुःशालमतीव च मनोहरम्
देवतागृहसंकाशं दैवतैश्च सुपूजितम्
शयनासनसंबाधं गन्धैश्च परमैर्युतम्
तत्र शुक्लाम्बरधरौ पितरावस्य पूजितौ
कृताहारौ सुतुष्टौ तावुपविष्टौ वरासने
धर्मव्याधस्तु तौ दृष्ट्वा पादेषु शिरसापतत्
उत्तिष्ठोत्तिष्ठ धर्मज्ञ धर्मस्त्वामभिरक्षतु
प्रीतौ स्वस्तव शौचेन दीर्घमायुरवाप्नुहि
सत्पुत्रेण त्वया पुत्र नित्यकालं सुपूजितौ
न तेऽन्यद्दैवतं किंचिद्दैवतेष्वपि वर्तते
प्रयतत्वाद्द्विजातीनां दमेनासि समन्वितः
पितुः पितामहा ये च तथैव प्रपितामहाः
प्रीतास्ते सततं पुत्र दमेनावां च पूजया
मनसा कर्मणा वाचा शुश्रूषा नैव हीयते
न चान्या वितथा बुद्धिर्दृश्यते सांप्रतं तव
जामदग्न्येन रामेण यथा वृद्धौ सुपूजितौ
तथा त्वया कृतं सर्वं तद्विशिष्टं च पुत्रक
ततस्तं ब्राह्मणं ताभ्यां धर्मव्याधो न्यवेदयत्
तौ स्वागतेन तं विप्रमर्चयामासतुस्तदा
प्रतिगृह्य च तां पूजां द्विजः पप्रच्छ तावुभौ
सपुत्राभ्यां सभृत्याभ्यां कच्चिद्वां कुशलं गृहे
अनामयं च वां कच्चित्सदैवेह शरीरयोः
कुशलं नो गृहे विप्र भृत्यवर्गे च सर्वशः
कच्चित्त्वमप्यविघ्नेन संप्राप्तो भगवन्निह
बाढमित्येव तौ विप्रः प्रत्युवाच मुदान्वितः
धर्मव्याधस्तु तं विप्रमर्थवद्वाक्यमब्रवीत्
पिता माता च भगवन्नेतौ मे दैवतं परम्
यद्दैवतेभ्यः कर्तव्यं तदेताभ्यां करोम्यहम्
त्रयस्त्रिंशद्यथा देवाः सर्वे शक्रपुरोगमाः
संपूज्याः सर्वलोकस्य तथा वृद्धाविमौ मम
उपहारानाहरन्तो देवतानां यथा द्विजाः
कुर्वते तद्वदेताभ्यां करोम्यहमतन्द्रितः
एतौ मे परमं ब्रह्मन्पिता माता च दैवतम्
एतौ पुष्पैः फलै रत्नैस्तोषयामि सदा द्विज
एतावेवाग्नयो मह्यं यान्वदन्ति मनीषिणः
यज्ञा वेदाश्च चत्वारः सर्वमेतौ मम द्विज
एतदर्थं मम प्राणा भार्या पुत्राः सुहृज्जनाः
सपुत्रदारः शुश्रूषां नित्यमेव करोम्यहम्
स्वयं च स्नापयाम्येतौ तथा पादौ प्रधावये
आहारं संप्रयच्छामि स्वयं च द्विजसत्तम
अनुकूलाः कथा वच्मि विप्रियं परिवर्जयन्
अधर्मेणापि संयुक्तं प्रियमाभ्यां करोम्यहम्
धर्ममेव गुरुं ज्ञात्वा करोमि द्विजसत्तम
अतन्द्रितः सदा विप्र शुश्रूषां वै करोम्यहम्
पञ्चैव गुरवो ब्रह्मन्पुरुषस्य बुभूषतः
पिता माताग्निरात्मा च गुरुश्च द्विजसत्तम
एतेषु यस्तु वर्तेत सम्यगेव द्विजोत्तम
भवेयुरग्नयस्तस्य परिचीर्णास्तु नित्यशः
गार्हस्थ्ये वर्तमानस्य धर्म एष सनातनः