Vana Parva, Adhyaya 203, Verse 1
एवं तु सूक्ष्मे कथिते धर्मव्याधेन भारत
ब्राह्मणः स पुनः सूक्ष्मं पप्रच्छ सुसमाहितः
Containing 51 sacred Sanskrit shlokas with multi-author commentaries and translations.
एवं तु सूक्ष्मे कथिते धर्मव्याधेन भारत
ब्राह्मणः स पुनः सूक्ष्मं पप्रच्छ सुसमाहितः
सत्त्वस्य रजसश्चैव तमसश्च यथातथम्
गुणांस्तत्त्वेन मे ब्रूहि यथावदिह पृच्छतः
हन्त ते कथयिष्यामि यन्मां त्वं परिपृच्छसि
एषां गुणान्पृथक्त्वेन निबोध गदतो मम
मोहात्मकं तमस्तेषां रज एषां प्रवर्तकम्
प्रकाशबहुलत्वाच्च सत्त्वं ज्याय इहोच्यते
अविद्याबहुलो मूढः स्वप्नशीलो विचेतनः
दुर्दृशीकस्तमोध्वस्तः सक्रोधस्तामसोऽलसः
प्रवृत्तवाक्यो मन्त्री च योऽनुराग्यभ्यसूयकः
विवित्समानो विप्रर्षे स्तब्धो मानी स राजसः
प्रकाशबहुलो धीरो निर्विवित्सोऽनसूयकः
अक्रोधनो नरो धीमान्दान्तश्चैव स सात्त्विकः
सात्त्विकस्त्वथ संबुद्धो लोकवृत्तेन क्लिश्यते
यदा बुध्यति बोद्धव्यं लोकवृत्तं जुगुप्सते
वैराग्यस्य हि रूपं तु पूर्वमेव प्रवर्तते
मृदुर्भवत्यहंकारः प्रसीदत्यार्जवं च यत्
ततोऽस्य सर्वद्वंद्वानि प्रशाम्यन्ति परस्परम्
न चास्य संयमो नाम क्वचिद्भवति कश्चन
शूद्रयोनौ हि जातस्य सद्गुणानुपतिष्ठतः
वैश्यत्वं भवति ब्रह्मन्क्षत्रियत्वं तथैव च
आर्जवे वर्तमानस्य ब्राह्मण्यमभिजायते
गुणास्ते कीर्तिताः सर्वे किं भूयः श्रोतुमिच्छसि
पार्थिवं धातुमासाद्य शारीरोऽग्निः कथं भवेत्
अवकाशविशेषेण कथं वर्तयतेऽनिलः
प्रश्नमेतं समुद्दिष्टं ब्राह्मणेन युधिष्ठिर
व्याधः स कथयामास ब्राह्मणाय महात्मने
मूर्धानमाश्रितो वह्निः शरीरं परिपालयन्
प्राणो मूर्धनि चाग्नौ च वर्तमानो विचेष्टते
भूतं भव्यं भविष्यच्च सर्वं प्राणे प्रतिष्ठितम्
श्रेष्ठं तदेव भूतानां ब्रह्मज्योतिरुपास्महे
स जन्तुः सर्वभूतात्मा पुरुषः स सनातनः
मनो बुद्धिरहंकारो भूतानां विषयश्च सः
एवं त्विह स सर्वत्र प्राणेन परिपाल्यते
पृष्ठतस्तु समानेन स्वां स्वां गतिमुपाश्रितः
बस्तिमूले गुदे चैव पावकः समुपाश्रितः
वहन्मूत्रं पुरीषं चाप्यपानः परिवर्तते
प्रयत्ने कर्मणि बले य एकस्त्रिषु वर्तते
उदान इति तं प्राहुरध्यात्मविदुषो जनाः
संधौ संधौ संनिविष्टः सर्वेष्वपि तथानिलः
शरीरेषु मनुष्याणां व्यान इत्युपदिष्यते
धातुष्वग्निस्तु विततः स तु वायुसमीरितः
रसान्धातूंश्च दोषांश्च वर्तयन्परिधावति
प्राणानां संनिपातात्तु संनिपातः प्रजायते
ऊष्मा चाग्निरिति ज्ञेयो योऽन्नं पचति देहिनाम्
अपानोदानयोर्मध्ये प्राणव्यानौ समाहितौ
समन्वितस्त्वधिष्ठानं सम्यक्पचति पावकः
तस्यापि पायुपर्यन्तस्तथा स्याद्गुदसंज्ञितः
स्रोतांसि तस्माज्जायन्ते सर्वप्राणेषु देहिनाम्
अग्निवेगवहः प्राणो गुदान्ते प्रतिहन्यते
स ऊर्ध्वमागम्य पुनः समुत्क्षिपति पावकम्
पक्वाशयस्त्वधो नाभ्या ऊर्ध्वमामाशयः स्थितः
नाभिमध्ये शरीरस्य प्राणाः सर्वे प्रतिष्ठिताः
प्रवृत्ता हृदयात्सर्वास्तिर्यगूर्ध्वमधस्तथा
वहन्त्यन्नरसान्नाड्यो दश प्राणप्रचोदिताः
योगिनामेष मार्गस्तु येन गच्छन्ति तत्परम्
जितक्लमासना धीरा मूर्धन्यात्मानमादधुः
एवं सर्वेषु विततौ प्राणापानौ हि देहिषु
एकादशविकारात्मा कलासंभारसंभृतः
मूर्तिमन्तं हि तं विद्धि नित्यं कर्मजितात्मकम्
तस्मिन्यः संस्थितो ह्यग्निर्नित्यं स्थाल्यामिवाहितः
आत्मानं तं विजानीहि नित्यं योगजितात्मकम्