Mahabharata

Vana Parva, Adhyaya 202

Containing 25 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 202, Verse 1

एवमुक्तः स विप्रस्तु धर्मव्याधेन भारत

कथामकथयद्भूयो मनसः प्रीतिवर्धनीम्

Mahabharata

Vana Parva, Adhyaya 202, Verse 2

महाभूतानि यान्याहुः पञ्च धर्मविदां वर

एकैकस्य गुणान्सम्यक्पञ्चानामपि मे वद

Mahabharata

Vana Parva, Adhyaya 202, Verse 3

भूमिरापस्तथा ज्योतिर्वायुराकाशमेव च

गुणोत्तराणि सर्वाणि तेषां वक्ष्यामि ते गुणान्

Mahabharata

Vana Parva, Adhyaya 202, Verse 4

भूमिः पञ्चगुणा ब्रह्मन्नुदकं च चतुर्गुणम्

गुणास्त्रयस्तेजसि च त्रयश्चाकाशवातयोः

Mahabharata

Vana Parva, Adhyaya 202, Verse 5

शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः

एते गुणाः पञ्च भूमेः सर्वेभ्यो गुणवत्तराः

Mahabharata

Vana Parva, Adhyaya 202, Verse 6

शब्दः स्पर्शश्च रूपं च रसश्चापि द्विजोत्तम

अपामेते गुणा ब्रह्मन्कीर्तितास्तव सुव्रत

Mahabharata

Vana Parva, Adhyaya 202, Verse 7

शब्दः स्पर्शश्च रूपं च तेजसोऽथ गुणास्त्रयः

शब्दः स्पर्शश्च वायौ तु शब्द आकाश एव च

Mahabharata

Vana Parva, Adhyaya 202, Verse 8

एते पञ्चदश ब्रह्मन्गुणा भूतेषु पञ्चसु

वर्तन्ते सर्वभूतेषु येषु लोकाः प्रतिष्ठिताः

अन्योन्यं नातिवर्तन्ते संपच्च भवति द्विज

Mahabharata

Vana Parva, Adhyaya 202, Verse 9

यदा तु विषमीभावमाचरन्ति चराचराः

तदा देही देहमन्यं व्यतिरोहति कालतः

Mahabharata

Vana Parva, Adhyaya 202, Verse 10

आनुपूर्व्या विनश्यन्ति जायन्ते चानुपूर्वशः

तत्र तत्र हि दृश्यन्ते धातवः पाञ्चभौतिकाः

यैरावृतमिदं सर्वं जगत्स्थावरजङ्गमम्

Mahabharata

Vana Parva, Adhyaya 202, Verse 11

इन्द्रियैः सृज्यते यद्यत्तत्तद्व्यक्तमिति स्मृतम्

अव्यक्तमिति विज्ञेयं लिङ्गग्राह्यमतीन्द्रियम्

Mahabharata

Vana Parva, Adhyaya 202, Verse 12

यथास्वं ग्राहकान्येषां शब्दादीनामिमानि तु

इन्द्रियाणि यदा देही धारयन्निह तप्यते

Mahabharata

Vana Parva, Adhyaya 202, Verse 13

लोके विततमात्मानं लोकं चात्मनि पश्यति

परावरज्ञः सक्तः सन्सर्वभूतानि पश्यति

Mahabharata

Vana Parva, Adhyaya 202, Verse 14

पश्यतः सर्वभूतानि सर्वावस्थासु सर्वदा

ब्रह्मभूतस्य संयोगो नाशुभेनोपपद्यते

Mahabharata

Vana Parva, Adhyaya 202, Verse 15

ज्ञानमूलात्मकं क्लेशमतिवृत्तस्य मोहजम्

लोको बुद्धिप्रकाशेन ज्ञेयमार्गेण दृश्यते

Mahabharata

Vana Parva, Adhyaya 202, Verse 16

अनादिनिधनं जन्तुमात्मयोनिं सदाव्ययम्

अनौपम्यममूर्तं च भगवानाह बुद्धिमान्

तपोमूलमिदं सर्वं यन्मां विप्रानुपृच्छसि

Mahabharata

Vana Parva, Adhyaya 202, Verse 17

इन्द्रियाण्येव तत्सर्वं यत्स्वर्गनरकावुभौ

निगृहीतविसृष्टानि स्वर्गाय नरकाय च

Mahabharata

Vana Parva, Adhyaya 202, Verse 18

एष योगविधिः कृत्स्नो यावदिन्द्रियधारणम्

एतन्मूलं हि तपसः कृत्स्नस्य नरकस्य च

Mahabharata

Vana Parva, Adhyaya 202, Verse 19

इन्द्रियाणां प्रसङ्गेन दोषमृच्छत्यसंशयम्

संनियम्य तु तान्येव ततः सिद्धिमवाप्नुते

Mahabharata

Vana Parva, Adhyaya 202, Verse 20

षण्णामात्मनि नित्यानामैश्वर्यं योऽधिगच्छति

न स पापैः कुतोऽनर्थैर्युज्यते विजितेन्द्रियः

Mahabharata

Vana Parva, Adhyaya 202, Verse 21

रथः शरीरं पुरुषस्य दृष्ट;मात्मा नियन्तेन्द्रियाण्याहुरश्वान्

तैरप्रमत्तः कुशली सदश्वै;र्दान्तैः सुखं याति रथीव धीरः

Mahabharata

Vana Parva, Adhyaya 202, Verse 22

षण्णामात्मनि नित्यानामिन्द्रियाणां प्रमाथिनाम्

यो धीरो धारयेद्रश्मीन्स स्यात्परमसारथिः

Mahabharata

Vana Parva, Adhyaya 202, Verse 23

इन्द्रियाणां प्रसृष्टानां हयानामिव वर्त्मसु

धृतिं कुर्वीत सारथ्ये धृत्या तानि जयेद्ध्रुवम्

Mahabharata

Vana Parva, Adhyaya 202, Verse 24

इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते

तदस्य हरते बुद्धिं नावं वायुरिवाम्भसि

Mahabharata

Vana Parva, Adhyaya 202, Verse 25

येषु विप्रतिपद्यन्ते षट्सु मोहात्फलागमे

तेष्वध्यवसिताध्यायी विन्दते ध्यानजं फलम्