Vana Parva, Adhyaya 201, Verse 1
एवमुक्तस्तु विप्रेण धर्मव्याधो युधिष्ठिर
प्रत्युवाच यथा विप्रं तच्छृणुष्व नराधिप
Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.
एवमुक्तस्तु विप्रेण धर्मव्याधो युधिष्ठिर
प्रत्युवाच यथा विप्रं तच्छृणुष्व नराधिप
विज्ञानार्थं मनुष्याणां मनः पूर्वं प्रवर्तते
तत्प्राप्य कामं भजते क्रोधं च द्विजसत्तम
ततस्तदर्थं यतते कर्म चारभते महत्
इष्टानां रूपगन्धानामभ्यासं च निषेवते
ततो रागः प्रभवति द्वेषश्च तदनन्तरम्
ततो लोभः प्रभवति मोहश्च तदनन्तरम्
तस्य लोभाभिभूतस्य रागद्वेषहतस्य च
न धर्मे जायते बुद्धिर्व्याजाद्धर्मं करोति च
व्याजेन चरते धर्ममर्थं व्याजेन रोचते
व्याजेन सिध्यमानेषु धनेषु द्विजसत्तम
तत्रैव रमते बुद्धिस्ततः पापं चिकीर्षति
सुहृद्भिर्वार्यमाणश्च पण्डितैश्च द्विजोत्तम
उत्तरं श्रुतिसंबद्धं ब्रवीति श्रुतियोजितम्
अधर्मस्त्रिविधस्तस्य वर्धते रागदोषतः
पापं चिन्तयते चापि ब्रवीति च करोति च
तस्याधर्मप्रवृत्तस्य गुणा नश्यन्ति साधवः
एकशीलाश्च मित्रत्वं भजन्ते पापकर्मिणः
स तेनासुखमाप्नोति परत्र च विहन्यते
पापात्मा भवति ह्येवं धर्मलाभं तु मे शृणु
यस्त्वेतान्प्रज्ञया दोषान्पूर्वमेवानुपश्यति
कुशलः सुखदुःखेषु साधूंश्चाप्युपसेवते
तस्य साधुसमारम्भाद्बुद्धिर्धर्मेषु जायते
ब्रवीषि सूनृतं धर्मं यस्य वक्ता न विद्यते
दिव्यप्रभावः सुमहानृषिरेव मतोऽसि मे
ब्राह्मणा वै महाभागाः पितरोऽग्रभुजः सदा
तेषां सर्वात्मना कार्यं प्रियं लोके मनीषिणा
यत्तेषां च प्रियं तत्ते वक्ष्यामि द्विजसत्तम
नमस्कृत्वा ब्राह्मणेभ्यो ब्राह्मीं विद्यां निबोध मे
इदं विश्वं जगत्सर्वमजय्यं चापि सर्वशः
महाभूतात्मकं ब्रह्मन्नातः परतरं भवेत्
महाभूतानि खं वायुरग्निरापस्तथा च भूः
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च तद्गुणाः
तेषामपि गुणाः सर्वे गुणवृत्तिः परस्परम्
पूर्वपूर्वगुणाः सर्वे क्रमशो गुणिषु त्रिषु
षष्ठस्तु चेतना नाम मन इत्यभिधीयते
सप्तमी तु भवेद्बुद्धिरहंकारस्ततः परम्
इन्द्रियाणि च पञ्चैव रजः सत्त्वं तमस्तथा
इत्येष सप्तदशको राशिरव्यक्तसंज्ञकः
सर्वैरिहेन्द्रियार्थैस्तु व्यक्ताव्यक्तैः सुसंवृतः
चतुर्विंशक इत्येष व्यक्ताव्यक्तमयो गुणः
एतत्ते सर्वमाख्यातं किं भूयो श्रोतुमिच्छसि