Mahabharata

Vana Parva, Adhyaya 200

Containing 54 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 200, Verse 1

धर्मव्याधस्तु निपुणं पुनरेव युधिष्ठिर

विप्रर्षभमुवाचेदं सर्वधर्मभृतां वरः

Mahabharata

Vana Parva, Adhyaya 200, Verse 2

श्रुतिप्रमाणो धर्मो हि वृद्धानामिति भाषितम्

सूक्ष्मा गतिर्हि धर्मस्य बहुशाखा ह्यनन्तिका

Mahabharata

Vana Parva, Adhyaya 200, Verse 3

प्राणात्यये विवाहे च वक्तव्यमनृतं भवेत्

अनृतं च भवेत्सत्यं सत्यं चैवानृतं भवेत्

Mahabharata

Vana Parva, Adhyaya 200, Verse 4

यद्भूतहितमत्यन्तं तत्सत्यमिति धारणा

विपर्ययकृतोऽधर्मः पश्य धर्मस्य सूक्ष्मताम्

Mahabharata

Vana Parva, Adhyaya 200, Verse 5

यत्करोत्यशुभं कर्म शुभं वा द्विजसत्तम

अवश्यं तत्समाप्नोति पुरुषो नात्र संशयः

Mahabharata

Vana Parva, Adhyaya 200, Verse 6

विषमां च दशां प्राप्य देवान्गर्हति वै भृशम्

आत्मनः कर्मदोषाणि न विजानात्यपण्डितः

Mahabharata

Vana Parva, Adhyaya 200, Verse 7

मूढो नैकृतिकश्चापि चपलश्च द्विजोत्तम

सुखदुःखविपर्यासो यदा समुपपद्यते

नैनं प्रज्ञा सुनीतं वा त्रायते नैव पौरुषम्

Mahabharata

Vana Parva, Adhyaya 200, Verse 8

यो यमिच्छेद्यथा कामं तं तं कामं समश्नुयात्

यदि स्यादपराधीनं पुरुषस्य क्रियाफलम्

Mahabharata

Vana Parva, Adhyaya 200, Verse 9

संयताश्चापि दक्षाश्च मतिमन्तश्च मानवाः

दृश्यन्ते निष्फलाः सन्तः प्रहीणाः सर्वकर्मभिः

Mahabharata

Vana Parva, Adhyaya 200, Verse 10

भूतानामपरः कश्चिद्धिंसायां सततोत्थितः

वञ्चनायां च लोकस्य स सुखेनेह जीवति

Mahabharata

Vana Parva, Adhyaya 200, Verse 11

अचेष्टमानमासीनं श्रीः कंचिदुपतिष्ठति

कश्चित्कर्माणि कुर्वन्हि न प्राप्यमधिगच्छति

Mahabharata

Vana Parva, Adhyaya 200, Verse 12

देवानिष्ट्वा तपस्तप्त्वा कृपणैः पुत्रगृद्धिभिः

दशमासधृता गर्भे जायन्ते कुलपांसनाः

Mahabharata

Vana Parva, Adhyaya 200, Verse 13

अपरे धनधान्यैश्च भोगैश्च पितृसंचितैः

विपुलैरभिजायन्ते लब्धास्तैरेव मङ्गलैः

Mahabharata

Vana Parva, Adhyaya 200, Verse 14

कर्मजा हि मनुष्याणां रोगा नास्त्यत्र संशयः

आधिभिश्चैव बाध्यन्ते व्याधैः क्षुद्रमृगा इव

Mahabharata

Vana Parva, Adhyaya 200, Verse 15

ते चापि कुशलैर्वैद्यैर्निपुणैः संभृतौषधैः

व्याधयो विनिवार्यन्ते मृगा व्याधैरिव द्विज

Mahabharata

Vana Parva, Adhyaya 200, Verse 16

येषामस्ति च भोक्तव्यं ग्रहणीदोषपीडिताः

न शक्नुवन्ति ते भोक्तुं पश्य धर्मभृतां वर

Mahabharata

Vana Parva, Adhyaya 200, Verse 17

अपरे बाहुबलिनः क्लिश्यन्ते बहवो जनाः

दुःखेन चाधिगच्छन्ति भोजनं द्विजसत्तम

Mahabharata

Vana Parva, Adhyaya 200, Verse 18

इति लोकमनाक्रन्दं मोहशोकपरिप्लुतम्

स्रोतसासकृदाक्षिप्तं ह्रियमाणं बलीयसा

Mahabharata

Vana Parva, Adhyaya 200, Verse 19

न म्रियेयुर्न जीर्येयुः सर्वे स्युः सार्वकामिकाः

नाप्रियं प्रतिपश्येयुर्वशित्वं यदि वै भवेत्

Mahabharata

Vana Parva, Adhyaya 200, Verse 20

उपर्युपरि लोकस्य सर्वो गन्तुं समीहते

यतते च यथाशक्ति न च तद्वर्तते तथा

Mahabharata

Vana Parva, Adhyaya 200, Verse 21

बहवः संप्रदृश्यन्ते तुल्यनक्षत्रमङ्गलाः

महच्च फलवैषम्यं दृश्यते कर्मसंधिषु

Mahabharata

Vana Parva, Adhyaya 200, Verse 22

न कश्चिदीशते ब्रह्मन्स्वयंग्राहस्य सत्तम

कर्मणां प्राकृतानां वै इह सिद्धिः प्रदृश्यते

Mahabharata

Vana Parva, Adhyaya 200, Verse 23

यथा श्रुतिरियं ब्रह्मञ्जीवः किल सनातनः

शरीरमध्रुवं लोके सर्वेषां प्राणिनामिह

Mahabharata

Vana Parva, Adhyaya 200, Verse 24

वध्यमाने शरीरे तु देहनाशो भवत्युत

जीवः संक्रमतेऽन्यत्र कर्मबन्धनिबन्धनः

Mahabharata

Vana Parva, Adhyaya 200, Verse 25

कथं धर्मभृतां श्रेष्ठ जीवो भवति शाश्वतः

एतदिच्छाम्यहं ज्ञातुं तत्त्वेन वदतां वर

Mahabharata

Vana Parva, Adhyaya 200, Verse 26

न जीवनाशोऽस्ति हि देहभेदे; मिथ्यैतदाहुर्म्रियतेति मूढाः

जीवस्तु देहान्तरितः प्रयाति; दशार्धतैवास्य शरीरभेदः

Mahabharata

Vana Parva, Adhyaya 200, Verse 27

अन्यो हि नाश्नाति कृतं हि कर्म; स एव कर्ता सुखदुःखभागी

यत्तेन किंचिद्धि कृतं हि कर्म; तदश्नुते नास्ति कृतस्य नाशः

Mahabharata

Vana Parva, Adhyaya 200, Verse 28

अपुण्यशीलाश्च भवन्ति पुण्या; नरोत्तमाः पापकृतो भवन्ति

नरोऽनुयातस्त्विह कर्मभिः स्वै;स्ततः समुत्पद्यति भावितस्तैः

Mahabharata

Vana Parva, Adhyaya 200, Verse 29

कथं संभवते योनौ कथं वा पुण्यपापयोः

जातीः पुण्या ह्यपुण्याश्च कथं गच्छति सत्तम

Mahabharata

Vana Parva, Adhyaya 200, Verse 30

गर्भाधानसमायुक्तं कर्मेदं संप्रदृश्यते

समासेन तु ते क्षिप्रं प्रवक्ष्यामि द्विजोत्तम