Vana Parva, Adhyaya 199, Verse 1
स तु विप्रमथोवाच धर्मव्याधो युधिष्ठिर
यदहं ह्याचरे कर्म घोरमेतदसंशयम्
Containing 34 sacred Sanskrit shlokas with multi-author commentaries and translations.
स तु विप्रमथोवाच धर्मव्याधो युधिष्ठिर
यदहं ह्याचरे कर्म घोरमेतदसंशयम्
विधिस्तु बलवान्ब्रह्मन्दुस्तरं हि पुराकृतम्
पुराकृतस्य पापस्य कर्मदोषो भवत्ययम्
दोषस्यैतस्य वै ब्रह्मन्विघाते यत्नवानहम्
विधिना विहिते पूर्वं निमित्तं घातको भवेत्
निमित्तभूता हि वयं कर्मणोऽस्य द्विजोत्तम
येषां हतानां मांसानि विक्रीणामो वयं द्विज
तेषामपि भवेद्धर्म उपभोगेन भक्षणात्
देवतातिथिभृत्यानां पितॄणां प्रतिपूजनात्
ओषध्यो वीरुधश्चापि पशवो मृगपक्षिणः
अन्नाद्यभूता लोकस्य इत्यपि श्रूयते श्रुतिः
आत्ममांसप्रदानेन शिबिरौशीनरो नृपः
स्वर्गं सुदुर्लभं प्राप्तः क्षमावान्द्विजसत्तम
राज्ञो महानसे पूर्वं रन्तिदेवस्य वै द्विज
द्वे सहस्रे तु वध्येते पशूनामन्वहं तदा
समांसं ददतो ह्यन्नं रन्तिदेवस्य नित्यशः
अतुला कीर्तिरभवन्नृपस्य द्विजसत्तम
चातुर्मास्येषु पशवो वध्यन्त इति नित्यशः
अग्नयो मांसकामाश्च इत्यपि श्रूयते श्रुतिः
यज्ञेषु पशवो ब्रह्मन्वध्यन्ते सततं द्विजैः
संस्कृताः किल मन्त्रैश्च तेऽपि स्वर्गमवाप्नुवन्
यदि नैवाग्नयो ब्रह्मन्मांसकामाभवन्पुरा
भक्ष्यं नैव भवेन्मांसं कस्यचिद्द्विजसत्तम
अत्रापि विधिरुक्तश्च मुनिभिर्मांसभक्षणे
देवतानां पितॄणां च भुङ्क्ते दत्त्वा तु यः सदा
यथाविधि यथाश्रद्धं न स दुष्यति भक्षणात्
अमांसाशी भवत्येवमित्यपि श्रूयते श्रुतिः
भार्यां गच्छन्ब्रह्मचारी ऋतौ भवति ब्राह्मणः
सत्यानृते विनिश्चित्य अत्रापि विधिरुच्यते
सौदासेन पुरा राज्ञा मानुषा भक्षिता द्विज
शापाभिभूतेन भृशमत्र किं प्रतिभाति ते
स्वधर्म इति कृत्वा तु न त्यजामि द्विजोत्तम
पुराकृतमिति ज्ञात्वा जीवाम्येतेन कर्मणा
स्वकर्म त्यजतो ब्रह्मन्नधर्म इह दृश्यते
स्वकर्मनिरतो यस्तु स धर्म इति निश्चयः
पूर्वं हि विहितं कर्म देहिनं न विमुञ्चति
धात्रा विधिरयं दृष्टो बहुधा कर्मनिर्णये
द्रष्टव्यं तु भवेत्प्राज्ञ क्रूरे कर्मणि वर्तता
कथं कर्म शुभं कुर्यां कथं मुच्ये पराभवात्
कर्मणस्तस्य घोरस्य बहुधा निर्णयो भवेत्
दाने च सत्यवाक्ये च गुरुशुश्रूषणे तथा
द्विजातिपूजने चाहं धर्मे च निरतः सदा
अतिवादातिमानाभ्यां निवृत्तोऽस्मि द्विजोत्तम
कृषिं साध्विति मन्यन्ते तत्र हिंसा परा स्मृता
कर्षन्तो लाङ्गलैः पुंसो घ्नन्ति भूमिशयान्बहून्
जीवानन्यांश्च बहुशस्तत्र किं प्रतिभाति ते
धान्यबीजानि यान्याहुर्व्रीह्यादीनि द्विजोत्तम
सर्वाण्येतानि जीवानि तत्र किं प्रतिभाति ते
अध्याक्रम्य पशूंश्चापि घ्नन्ति वै भक्षयन्ति च
वृक्षानथौषधीश्चैव छिन्दन्ति पुरुषा द्विज
जीवा हि बहवो ब्रह्मन्वृक्षेषु च फलेषु च
उदके बहवश्चापि तत्र किं प्रतिभाति ते
सर्वं व्याप्तमिदं ब्रह्मन्प्राणिभिः प्राणिजीवनैः
मत्स्या ग्रसन्ते मत्स्यांश्च तत्र किं प्रतिभाति ते
सत्त्वैः सत्त्वानि जीवन्ति बहुधा द्विजसत्तम
प्राणिनोऽन्योन्यभक्षाश्च तत्र किं प्रतिभाति ते
चङ्क्रम्यमाणा जीवांश्च धरणीसंश्रितान्बहून्
पद्भ्यां घ्नन्ति नरा विप्र तत्र किं प्रतिभाति ते
उपविष्टाः शयानाश्च घ्नन्ति जीवाननेकशः
ज्ञानविज्ञानवन्तश्च तत्र किं प्रतिभाति ते
जीवैर्ग्रस्तमिदं सर्वमाकाशं पृथिवी तथा
अविज्ञानाच्च हिंसन्ति तत्र किं प्रतिभाति ते
अहिंसेति यदुक्तं हि पुरुषैर्विस्मितैः पुरा
के न हिंसन्ति जीवान्वै लोकेऽस्मिन्द्विजसत्तम
बहु संचिन्त्य इह वै नास्ति कश्चिदहिंसकः
अहिंसायां तु निरता यतयो द्विजसत्तम
कुर्वन्त्येव हि हिंसां ते यत्नादल्पतरा भवेत्
आलक्ष्याश्चैव पुरुषाः कुले जाता महागुणाः
महाघोराणि कर्माणि कृत्वा लज्जन्ति वै न च