Vana Parva, Adhyaya 198, Verse 1
चिन्तयित्वा तदाश्चर्यं स्त्रिया प्रोक्तमशेषतः
विनिन्दन्स द्विजोऽऽत्मानमागस्कृत इवाबभौ
Containing 94 sacred Sanskrit shlokas with multi-author commentaries and translations.
चिन्तयित्वा तदाश्चर्यं स्त्रिया प्रोक्तमशेषतः
विनिन्दन्स द्विजोऽऽत्मानमागस्कृत इवाबभौ
चिन्तयानः स धर्मस्य सूक्ष्मां गतिमथाब्रवीत्
श्रद्दधानेन भाव्यं वै गच्छामि मिथिलामहम्
कृतात्मा धर्मवित्तस्यां व्याधो निवसते किल
तं गच्छाम्यहमद्यैव धर्मं प्रष्टुं तपोधनम्
इति संचिन्त्य मनसा श्रद्दधानः स्त्रिया वचः
बलाकाप्रत्ययेनासौ धर्म्यैश्च वचनैः शुभैः
संप्रतस्थे स मिथिलां कौतूहलसमन्वितः
अतिक्रामन्नरण्यानि ग्रामांश्च नगराणि च
ततो जगाम मिथिलां जनकेन सुरक्षिताम्
धर्मसेतुसमाकीर्णां यज्ञोत्सववतीं शुभाम्
गोपुराट्टालकवतीं गृहप्राकारशोभिताम्
प्रविश्य स पुरीं रम्यां विमानैर्बहुभिर्वृताम्
पण्यैश्च बहुभिर्युक्तां सुविभक्तमहापथाम्
अश्वै रथैस्तथा नागैर्यानैश्च बहुभिर्वृताम्
हृष्टपुष्टजनाकीर्णां नित्योत्सवसमाकुलाम्
सोऽपश्यद्बहुवृत्तान्तां ब्राह्मणः समतिक्रमन्
धर्मव्याधमपृच्छच्च स चास्य कथितो द्विजैः
अपश्यत्तत्र गत्वा तं सूनामध्ये व्यवस्थितम्
मार्गमाहिषमांसानि विक्रीणन्तं तपस्विनम्
आकुलत्वात्तु क्रेतॄणामेकान्ते संस्थितो द्विजः
स तु ज्ञात्वा द्विजं प्राप्तं सहसा संभ्रमोत्थितः
आजगाम यतो विप्रः स्थित एकान्त आसने
अभिवादये त्वा भगवन्स्वागतं ते द्विजोत्तम
अहं व्याधस्तु भद्रं ते किं करोमि प्रशाधि माम्
एकपत्न्या यदुक्तोऽसि गच्छ त्वं मिथिलामिति
जानाम्येतदहं सर्वं यदर्थं त्वमिहागतः
श्रुत्वा तु तस्य तद्वाक्यं स विप्रो भृशहर्षितः
द्वितीयमिदमाश्चर्यमित्यचिन्तयत द्विजः
अदेशस्थं हि ते स्थानमिति व्याधोऽब्रवीद्द्विजम्
गृहं गच्छाव भगवन्यदि रोचयसेऽनघ
बाढमित्येव संहृष्टो विप्रो वचनमब्रवीत्
अग्रतस्तु द्विजं कृत्वा स जगाम गृहान्प्रति
प्रविश्य च गृहं रम्यमासनेनाभिपूजितः
पाद्यमाचमनीयं च प्रतिगृह्य द्विजोत्तमः
ततः सुखोपविष्टस्तं व्याधं वचनमब्रवीत्
कर्मैतद्वै न सदृशं भवतः प्रतिभाति मे
अनुतप्ये भृशं तात तव घोरेण कर्मणा
कुलोचितमिदं कर्म पितृपैतामहं मम
वर्तमानस्य मे धर्मे स्वे मन्युं मा कृथा द्विज
धात्रा तु विहितं पूर्वं कर्म स्वं पालयाम्यहम्
प्रयत्नाच्च गुरू वृद्धौ शुश्रूषेऽहं द्विजोत्तम
सत्यं वदे नाभ्यसूये यथाशक्ति ददामि च
देवतातिथिभृत्यानामवशिष्टेन वर्तये
न कुत्सयाम्यहं किंचिन्न गर्हे बलवत्तरम्
कृतमन्वेति कर्तारं पुरा कर्म द्विजोत्तम
कृषिगोरक्ष्यवाणिज्यमिह लोकस्य जीवनम्
दण्डनीतिस्त्रयी विद्या तेन लोका भवन्त्युत
कर्म शूद्रे कृषिर्वैश्ये संग्रामः क्षत्रिये स्मृतः
ब्रह्मचर्यं तपो मन्त्राः सत्यं च ब्राह्मणे सदा
राजा प्रशास्ति धर्मेण स्वकर्मनिरताः प्रजाः
विकर्माणश्च ये केचित्तान्युनक्ति स्वकर्मसु
भेतव्यं हि सदा राज्ञां प्रजानामधिपा हि ते
मारयन्ति विकर्मस्थं लुब्धा मृगमिवेषुभिः
जनकस्येह विप्रर्षे विकर्मस्थो न विद्यते
स्वकर्मनिरता वर्णाश्चत्वारोऽपि द्विजोत्तम
स एष जनको राजा दुर्वृत्तमपि चेत्सुतम्
दण्ड्यं दण्डे निक्षिपति तथा न ग्लाति धार्मिकम्
सुयुक्तचारो नृपतिः सर्वं धर्मेण पश्यति
श्रीश्च राज्यं च दण्डश्च क्षत्रियाणां द्विजोत्तम
राजानो हि स्वधर्मेण श्रियमिच्छन्ति भूयसीम्
सर्वेषामेव वर्णानां त्राता राजा भवत्युत