Mahabharata

Vana Parva, Adhyaya 196

Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 196, Verse 1

ततो युधिष्ठिरो राजा मार्कण्डेयं महाद्युतिम्

पप्रच्छ भरतश्रेष्ठो धर्मप्रश्नं सुदुर्वचम्

Mahabharata

Vana Parva, Adhyaya 196, Verse 2

श्रोतुमिच्छामि भगवन्स्त्रीणां माहात्म्यमुत्तमम्

कथ्यमानं त्वया विप्र सूक्ष्मं धर्मं च तत्त्वतः

Mahabharata

Vana Parva, Adhyaya 196, Verse 3

प्रत्यक्षेण हि विप्रर्षे देवा दृश्यन्ति सत्तम

सूर्याचन्द्रमसौ वायुः पृथिवी वह्निरेव च

Mahabharata

Vana Parva, Adhyaya 196, Verse 4

पिता माता च भगवन्गाव एव च सत्तम

यच्चान्यदेव विहितं तच्चापि भृगुनन्दन

Mahabharata

Vana Parva, Adhyaya 196, Verse 5

मन्येऽहं गुरुवत्सर्वमेकपत्न्यस्तथा स्त्रियः

पतिव्रतानां शुश्रूषा दुष्करा प्रतिभाति मे

Mahabharata

Vana Parva, Adhyaya 196, Verse 6

पतिव्रतानां माहात्म्यं वक्तुमर्हसि नः प्रभो

निरुध्य चेन्द्रियग्रामं मनः संरुध्य चानघ

पतिं दैवतवच्चापि चिन्तयन्त्यः स्थिता हि याः

Mahabharata

Vana Parva, Adhyaya 196, Verse 7

भगवन्दुष्करं ह्येतत्प्रतिभाति मम प्रभो

मातापितृषु शुश्रूषा स्त्रीणां भर्तृषु च द्विज

Mahabharata

Vana Parva, Adhyaya 196, Verse 8

स्त्रीणां धर्मात्सुघोराद्धि नान्यं पश्यामि दुष्करम्

साध्वाचाराः स्त्रियो ब्रह्मन्यत्कुर्वन्ति सदादृताः

दुष्करं बत कुर्वन्ति पितरो मातरश्च वै

Mahabharata

Vana Parva, Adhyaya 196, Verse 9

एकपत्न्यश्च या नार्यो याश्च सत्यं वदन्त्युत

कुक्षिणा दश मासांश्च गर्भं संधारयन्ति याः

नार्यः कालेन संभूय किमद्भुततरं ततः

Mahabharata

Vana Parva, Adhyaya 196, Verse 10

संशयं परमं प्राप्य वेदनामतुलामपि

प्रजायन्ते सुतान्नार्यो दुःखेन महता विभो

पुष्णन्ति चापि महता स्नेहेन द्विजसत्तम

Mahabharata

Vana Parva, Adhyaya 196, Verse 11

ये च क्रूरेषु सर्वेषु वर्तमाना जुगुप्सिताः

स्वकर्म कुर्वन्ति सदा दुष्करं तच्च मे मतम्

Mahabharata

Vana Parva, Adhyaya 196, Verse 12

क्षत्रधर्मसमाचारं तथ्यं चाख्याहि मे द्विज

धर्मः सुदुर्लभो विप्र नृशंसेन दुरात्मना

Mahabharata

Vana Parva, Adhyaya 196, Verse 13

एतदिच्छामि भगवन्प्रश्नं प्रश्नविदां वर

श्रोतुं भृगुकुलश्रेष्ठ शुश्रूषे तव सुव्रत

Mahabharata

Vana Parva, Adhyaya 196, Verse 14

हन्त ते सर्वमाख्यास्ये प्रश्नमेतं सुदुर्वचम्

तत्त्वेन भरतश्रेष्ठ गदतस्तन्निबोध मे

Mahabharata

Vana Parva, Adhyaya 196, Verse 15

मातरं सदृशीं तात पितॄनन्ये च मन्यते

दुष्करं कुरुते माता विवर्धयति या प्रजाः

Mahabharata

Vana Parva, Adhyaya 196, Verse 16

तपसा देवतेज्याभिर्वन्दनेन तितिक्षया

अभिचारैरुपायैश्च ईहन्ते पितरः सुतान्

Mahabharata

Vana Parva, Adhyaya 196, Verse 17

एवं कृच्छ्रेण महता पुत्रं प्राप्य सुदुर्लभम्

चिन्तयन्ति सदा वीर कीदृशोऽयं भविष्यति

Mahabharata

Vana Parva, Adhyaya 196, Verse 18

आशंसते च पुत्रेषु पिता माता च भारत

यशः कीर्तिमथैश्वर्यं प्रजा धर्मं तथैव च

Mahabharata

Vana Parva, Adhyaya 196, Verse 19

तयोराशां तु सफलां यः करोति स धर्मवित्

पिता माता च राजेन्द्र तुष्यतो यस्य नित्यदा

इह प्रेत्य च तस्याथ कीर्तिर्धर्मश्च शाश्वतः

Mahabharata

Vana Parva, Adhyaya 196, Verse 20

नैव यज्ञः स्त्रियः कश्चिन्न श्राद्धं नोपवासकम्

या तु भर्तरि शुश्रूषा तया स्वर्गमुपाश्नुते

Mahabharata

Vana Parva, Adhyaya 196, Verse 21

एतत्प्रकरणं राजन्नधिकृत्य युधिष्ठिर

प्रतिव्रतानां नियतं धर्मं चावहितः शृणु