Vana Parva, Adhyaya 193, Verse 1
इक्ष्वाकौ संस्थिते राजञ्शशादः पृथिवीमिमाम्
प्राप्तः परमधर्मात्मा सोऽयोध्यायां नृपोऽभवत्
Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.
इक्ष्वाकौ संस्थिते राजञ्शशादः पृथिवीमिमाम्
प्राप्तः परमधर्मात्मा सोऽयोध्यायां नृपोऽभवत्
शशादस्य तु दायादः ककुत्स्थो नाम वीर्यवान्
अनेनाश्चापि काकुत्स्थः पृथुश्चानेनसः सुतः
विष्वगश्वः पृथोः पुत्रस्तस्मादार्द्रस्तु जज्ञिवान्
आर्द्रस्य युवनाश्वस्तु श्रावस्तस्तस्य चात्मजः
जज्ञे श्रावस्तको राजा श्रावस्ती येन निर्मिता
श्रावस्तस्य तु दायादो बृहदश्वो महाबलः
बृहदश्वसुतश्चापि कुवलाश्व इति स्मृतः
कुवलाश्वस्य पुत्राणां सहस्राण्येकविंशतिः
सर्वे विद्यासु निष्णाता बलवन्तो दुरासदाः
कुवलाश्वस्तु पितृतो गुणैरभ्यधिकोऽभवत्
समये तं ततो राज्ये बृहदश्वोऽभ्यषेचयत्
कुवलाश्वं महाराज शूरमुत्तमधार्मिकम्
पुत्रसंक्रामितश्रीस्तु बृहदश्वो महीपतिः
जगाम तपसे धीमांस्तपोवनममित्रहा
अथ शुश्राव राजर्षिं तमुत्तङ्को युधिष्ठिर
वनं संप्रस्थितं राजन्बृहदश्वं द्विजोत्तमः
तमुत्तङ्को महातेजाः सर्वास्त्रविदुषां वरम्
न्यवारयदमेयात्मा समासाद्य नरोत्तमम्
भवता रक्षणं कार्यं तत्तावत्कर्तुमर्हसि
निरुद्विग्ना वयं राजंस्त्वत्प्रसादाद्वसेमहि
त्वया हि पृथिवी राजन्रक्ष्यमाणा महात्मना
भविष्यति निरुद्विग्ना नारण्यं गन्तुमर्हसि
पालने हि महान्धर्मः प्रजानामिह दृश्यते
न तथा दृश्यतेऽरण्ये मा ते भूद्बुद्धिरीदृशी
ईदृशो न हि राजेन्द्र धर्मः क्वचन दृश्यते
प्रजानां पालने यो वै पुरा राजर्षिभिः कृतः
रक्षितव्याः प्रजा राज्ञा तास्त्वं रक्षितुमर्हसि
निरुद्विग्नस्तपश्चर्तुं न हि शक्नोमि पार्थिव
ममाश्रमसमीपे वै समेषु मरुधन्वसु
समुद्रो वालुकापूर्ण उज्जानक इति स्मृतः
बहुयोजनविस्तीर्णो बहुयोजनमायतः
तत्र रौद्रो दानवेन्द्रो महावीर्यपराक्रमः
मधुकैटभयोः पुत्रो धुन्धुर्नाम सुदारुणः
अन्तर्भूमिगतो राजन्वसत्यमितविक्रमः
तं निहत्य महाराज वनं त्वं गन्तुमर्हसि
शेते लोकविनाशाय तप आस्थाय दारुणम्
त्रिदशानां विनाशाय लोकानां चापि पार्थिव
अवध्यो देवतानां स दैत्यानामथ रक्षसाम्
नागानामथ यक्षाणां गन्धर्वाणां च सर्वशः
अवाप्य स वरं राजन्सर्वलोकपितामहात्
तं विनाशय भद्रं ते मा ते बुद्धिरतोऽन्यथा
प्राप्स्यसे महतीं कीर्तिं शाश्वतीमव्ययां ध्रुवाम्
क्रूरस्य स्वपतस्तस्य वालुकान्तर्हितस्य वै
संवत्सरस्य पर्यन्ते निःश्वासः संप्रवर्तते
यदा तदा भूश्चलति सशैलवनकानना
तस्य निःश्वासवातेन रज उद्धूयते महत्
आदित्यपथमावृत्य सप्ताहं भूमिकम्पनम्
सविस्फुलिङ्गं सज्वालं सधूमं ह्यतिदारुणम्
तेन राजन्न शक्नोमि तस्मिन्स्थातुं स्व आश्रमे
तं विनाशय राजेन्द्र लोकानां हितकाम्यया
लोकाः स्वस्था भवन्त्वद्य तस्मिन्विनिहतेऽसुरे
त्वं हि तस्य विनाशाय पर्याप्त इति मे मतिः
तेजसा तव तेजश्च विष्णुराप्याययिष्यति
विष्णुना च वरो दत्तो मम पूर्वं ततो वधे
यस्तं महासुरं रौद्रं वधिष्यति महीपतिः
तेजस्तं वैष्णवमिति प्रवेक्ष्यति दुरासदम्
तत्तेजस्त्वं समाधाय राजेन्द्र भुवि दुःसहम्
तं निषूदय संदुष्टं दैत्यं रौद्रपराक्रमम्
न हि धुन्धुर्महातेजास्तेजसाल्पेन शक्यते
निर्दग्धुं पृथिवीपाल स हि वर्षशतैरपि