Vana Parva, Adhyaya 192, Verse 1
युधिष्ठिरो धर्मराजः पप्रच्छ भरतर्षभ
मार्कण्डेयं तपोवृद्धं दीर्घायुषमकल्मषम्
Containing 29 sacred Sanskrit shlokas with multi-author commentaries and translations.
युधिष्ठिरो धर्मराजः पप्रच्छ भरतर्षभ
मार्कण्डेयं तपोवृद्धं दीर्घायुषमकल्मषम्
विदितास्तव धर्मज्ञ देवदानवराक्षसाः
राजवंशाश्च विविधा ऋषिवंशाश्च शाश्वताः
न तेऽस्त्यविदितं किंचिदस्मिँल्लोके द्विजोत्तम
कथां वेत्सि मुने दिव्यां मनुष्योरगरक्षसाम्
एतदिच्छाम्यहं श्रोतुं तत्त्वेन कथितं द्विज
कुवलाश्व इति ख्यात इक्ष्वाकुरपराजितः
कथं नाम विपर्यासाद्धुन्धुमारत्वमागतः
एतदिच्छामि तत्त्वेन ज्ञातुं भार्गवसत्तम
विपर्यस्तं यथा नाम कुवलाश्वस्य धीमतः
हन्त ते कथयिष्यामि शृणु राजन्युधिष्ठिर
धर्मिष्ठमिदमाख्यानं धुन्धुमारस्य तच्छृणु
यथा स राजा इक्ष्वाकुः कुवलाश्वो महीपतिः
धुन्धुमारत्वमगमत्तच्छृणुष्व महीपते
महर्षिर्विश्रुतस्तात उत्तङ्क इति भारत
मरुधन्वसु रम्येषु आश्रमस्तस्य कौरव
उत्तङ्कस्तु महाराज तपोऽतप्यत्सुदुश्चरम्
आरिराधयिषुर्विष्णुं बहून्वर्षगणान्विभो
तस्य प्रीतः स भगवान्साक्षाद्दर्शनमेयिवान्
दृष्ट्वैव चर्षिः प्रह्वस्तं तुष्टाव विविधैः स्तवैः
त्वया देव प्रजाः सर्वाः सदेवासुरमानवाः
स्थावराणि च भूतानि जङ्गमानि तथैव च
ब्रह्म वेदाश्च वेद्यं च त्वया सृष्टं महाद्युते
शिरस्ते गगनं देव नेत्रे शशिदिवाकरौ
निःश्वासः पवनश्चापि तेजोऽग्निश्च तवाच्युत
बाहवस्ते दिशः सर्वाः कुक्षिश्चापि महार्णवः
ऊरू ते पर्वता देव खं नाभिर्मधुसूदन
पादौ ते पृथिवी देवी रोमाण्योषधयस्तथा
इन्द्रसोमाग्निवरुणा देवासुरमहोरगाः
प्रह्वास्त्वामुपतिष्ठन्ति स्तुवन्तो विविधैः स्तवैः
त्वया व्याप्तानि सर्वाणि भूतानि भुवनेश्वर
योगिनः सुमहावीर्याः स्तुवन्ति त्वां महर्षयः
त्वयि तुष्टे जगत्स्वस्थं त्वयि क्रुद्धे महद्भयम्
भयानामपनेतासि त्वमेकः पुरुषोत्तम
देवानां मानुषाणां च सर्वभूतसुखावहः
त्रिभिर्विक्रमणैर्देव त्रयो लोकास्त्वयाहृताः
असुराणां समृद्धानां विनाशश्च त्वया कृतः
तव विक्रमणैर्देवा निर्वाणमगमन्परम्
पराभवं च दैत्येन्द्रास्त्वयि क्रुद्धे महाद्युते
त्वं हि कर्ता विकर्ता च भूतानामिह सर्वशः
आराधयित्वा त्वां देवाः सुखमेधन्ति सर्वशः
एवं स्तुतो हृषीकेश उत्तङ्केन महात्मना
उत्तङ्कमब्रवीद्विष्णुः प्रीतस्तेऽहं वरं वृणु
पर्याप्तो मे वरो ह्येष यदहं दृष्टवान्हरिम्
पुरुषं शाश्वतं दिव्यं स्रष्टारं जगतः प्रभुम्
प्रीतस्तेऽहमलौल्येन भक्त्या च द्विजसत्तम
अवश्यं हि त्वया ब्रह्मन्मत्तो ग्राह्यो वरो द्विज
एवं संछन्द्यमानस्तु वरेण हरिणा तदा
उत्तङ्कः प्राञ्जलिर्वव्रे वरं भरतसत्तम
यदि मे भगवान्प्रीतः पुण्डरीकनिभेक्षणः
धर्मे सत्ये दमे चैव बुद्धिर्भवतु मे सदा
अभ्यासश्च भवेद्भक्त्या त्वयि नित्यं महेश्वर
सर्वमेतद्धि भविता मत्प्रसादात्तव द्विज
प्रतिभास्यति योगश्च येन युक्तो दिवौकसाम्
त्रयाणामपि लोकानां महत्कार्यं करिष्यसि
उत्सादनार्थं लोकानां धुन्धुर्नाम महासुरः
तपस्यति तपो घोरं शृणु यस्तं हनिष्यति
बृहदश्व इति ख्यातो भविष्यति महीपतिः
तस्य पुत्रः शुचिर्दान्तः कुवलाश्व इति श्रुतः
स योगबलमास्थाय मामकं पार्थिवोत्तमः
शासनात्तव विप्रर्षे धुन्धुमारो भविष्यति
उत्तङ्कमेवमुक्त्वा तु विष्णुरन्तरधीयत