Mahabharata

Vana Parva, Adhyaya 189

Containing 31 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 189, Verse 1

ततश्चोरक्षयं कृत्वा द्विजेभ्यः पृथिवीमिमाम्

वाजिमेधे महायज्ञे विधिवत्कल्पयिष्यति

Mahabharata

Vana Parva, Adhyaya 189, Verse 2

स्थापयित्वा स मर्यादाः स्वयम्भुविहिताः शुभाः

वनं पुण्ययशःकर्मा जरावान्संश्रयिष्यति

Mahabharata

Vana Parva, Adhyaya 189, Verse 3

तच्छीलमनुवर्त्स्यन्ते मनुष्या लोकवासिनः

विप्रैश्चोरक्षये चैव कृते क्षेमं भविष्यति

Mahabharata

Vana Parva, Adhyaya 189, Verse 4

कृष्णाजिनानि शक्तीश्च त्रिशूलान्यायुधानि च

स्थापयन्विप्रशार्दूलो देशेषु विजितेषु च

Mahabharata

Vana Parva, Adhyaya 189, Verse 5

संस्तूयमानो विप्रेन्द्रैर्मानयानो द्विजोत्तमान्

कल्किश्चरिष्यति महीं सदा दस्युवधे रतः

Mahabharata

Vana Parva, Adhyaya 189, Verse 6

हा तात हा सुतेत्येवं तास्ता वाचः सुदारुणाः

विक्रोशमानान्सुभृशं दस्यून्नेष्यति संक्षयम्

Mahabharata

Vana Parva, Adhyaya 189, Verse 7

ततोऽधर्मविनाशो वै धर्मवृद्धिश्च भारत

भविष्यति कृते प्राप्ते क्रियावांश्च जनस्तथा

Mahabharata

Vana Parva, Adhyaya 189, Verse 8

आरामाश्चैव चैत्याश्च तटाकान्यवटास्तथा

यज्ञक्रियाश्च विविधा भविष्यन्ति कृते युगे

Mahabharata

Vana Parva, Adhyaya 189, Verse 9

ब्राह्मणाः साधवश्चैव मुनयश्च तपस्विनः

आश्रमाः सहपाषण्डाः स्थिताः सत्ये जनाः प्रजाः

Mahabharata

Vana Parva, Adhyaya 189, Verse 10

जास्यन्ति सर्वबीजानि उप्यमानानि चैव ह

सर्वेष्वृतुषु राजेन्द्र सर्वं सस्यं भविष्यति

Mahabharata

Vana Parva, Adhyaya 189, Verse 11

नरा दानेषु निरता व्रतेषु नियमेषु च

जपयज्ञपरा विप्रा धर्मकामा मुदा युताः

पालयिष्यन्ति राजानो धर्मेणेमां वसुंधराम्

Mahabharata

Vana Parva, Adhyaya 189, Verse 12

व्यवहाररता वैश्या भविष्यन्ति कृते युगे

षट्कर्मनिरता विप्राः क्षत्रिया रक्षणे रताः

Mahabharata

Vana Parva, Adhyaya 189, Verse 13

शुश्रूषायां रताः शूद्रास्तथा वर्णत्रयस्य च

एष धर्मः कृतयुगे त्रेतायां द्वापरे तथा

पश्चिमे युगकाले च यः स ते संप्रकीर्तितः

Mahabharata

Vana Parva, Adhyaya 189, Verse 14

सर्वलोकस्य विदिता युगसंख्या च पाण्डव

एतत्ते सर्वमाख्यातमतीतानागतं मया

वायुप्रोक्तमनुस्मृत्य पुराणमृषिसंस्तुतम्

Mahabharata

Vana Parva, Adhyaya 189, Verse 15

एवं संसारमार्गा मे बहुशश्चिरजीविना

दृष्टाश्चैवानुभूताश्च तांस्ते कथितवानहम्

Mahabharata

Vana Parva, Adhyaya 189, Verse 16

इदं चैवापरं भूयः सह भ्रातृभिरच्युत

धर्मसंशयमोक्षार्थं निबोध वचनं मम

Mahabharata

Vana Parva, Adhyaya 189, Verse 17

धर्मे त्वयात्मा संयोज्यो नित्यं धर्मभृतां वर

धर्मात्मा हि सुखं राजा प्रेत्य चेह च नन्दति

Mahabharata

Vana Parva, Adhyaya 189, Verse 18

निबोध च शुभां वाणीं यां प्रवक्ष्यामि तेऽनघ

न ब्राह्मणे परिभवः कर्तव्यस्ते कदाचन

ब्राह्मणो रुषितो हन्यादपि लोकान्प्रतिज्ञया

Mahabharata

Vana Parva, Adhyaya 189, Verse 19

मार्कण्डेयवचः श्रुत्वा कुरूणां प्रवरो नृपः

उवाच वचनं धीमान्परमं परमद्युतिः

Mahabharata

Vana Parva, Adhyaya 189, Verse 20

कस्मिन्धर्मे मया स्थेयं प्रजाः संरक्षता मुने

कथं च वर्तमानो वै न च्यवेयं स्वधर्मतः

Mahabharata

Vana Parva, Adhyaya 189, Verse 21

दयावान्सर्वभूतेषु हितो रक्तोऽनसूयकः

अपत्यानामिव स्वेषां प्रजानां रक्षणे रतः

चर धर्मं त्यजाधर्मं पितॄन्देवांश्च पूजय

Mahabharata

Vana Parva, Adhyaya 189, Verse 22

प्रमादाद्यत्कृतं तेऽभूत्संयग्दानेन तज्जय

अलं ते मानमाश्रित्य सततं परवान्भव

Mahabharata

Vana Parva, Adhyaya 189, Verse 23

विजित्य पृथिवीं सर्वां मोदमानः सुखी भव

एष भूतो भविष्यश्च धर्मस्ते समुदीरितः

Mahabharata

Vana Parva, Adhyaya 189, Verse 24

न तेऽस्त्यविदितं किंचिदतीतानागतं भुवि

तस्मादिमं परिक्लेशं त्वं तात हृदि मा कृथाः

Mahabharata

Vana Parva, Adhyaya 189, Verse 25

एष कालो महाबाहो अपि सर्वदिवौकसाम्

मुह्यन्ति हि प्रजास्तात कालेनाभिप्रचोदिताः

Mahabharata

Vana Parva, Adhyaya 189, Verse 26

मा च तेऽत्र विचारो भूद्यन्मयोक्तं तवानघ

अतिशङ्क्य वचो ह्येतद्धर्मलोपो भवेत्तव

Mahabharata

Vana Parva, Adhyaya 189, Verse 27

जातोऽसि प्रथिते वंशे कुरूणां भरतर्षभ

कर्मणा मनसा वाचा सर्वमेतत्समाचर

Mahabharata

Vana Parva, Adhyaya 189, Verse 28

यत्त्वयोक्तं द्विजश्रेष्ठ वाक्यं श्रुतिमनोहरम्

तथा करिष्ये यत्नेन भवतः शासनं विभो

Mahabharata

Vana Parva, Adhyaya 189, Verse 29

न मे लोभोऽस्ति विप्रेन्द्र न भयं न च मत्सरः

करिष्यामि हि तत्सर्वमुक्तं यत्ते मयि प्रभो

Mahabharata

Vana Parva, Adhyaya 189, Verse 30

श्रुत्वा तु वचनं तस्य पाण्डवस्य महात्मनः

प्रहृष्टाः पाण्डवा राजन्सहिताः शार्ङ्गधन्वना