Mahabharata

Vana Parva, Adhyaya 188

Containing 93 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 188, Verse 1

एवमुक्तास्तु ते पार्था यमौ च पुरुषर्षभौ

द्रौपद्या कृष्णया सार्धं नमश्चक्रुर्जनार्दनम्

Mahabharata

Vana Parva, Adhyaya 188, Verse 2

स चैतान्पुरुषव्याघ्र साम्ना परमवल्गुना

सान्त्वयामास मानार्हान्मन्यमानो यथाविधि

Mahabharata

Vana Parva, Adhyaya 188, Verse 3

युधिष्ठिरस्तु कौन्तेयो मार्कण्डेयं महामुनिम्

पुनः पप्रच्छ साम्राज्ये भविष्यां जगतो गतिम्

Mahabharata

Vana Parva, Adhyaya 188, Verse 4

आश्चर्यभूतं भवतः श्रुतं नो वदतां वर

मुने भार्गव यद्वृत्तं युगादौ प्रभवाप्ययौ

Mahabharata

Vana Parva, Adhyaya 188, Verse 5

अस्मिन्कलियुगेऽप्यस्ति पुनः कौतूहलं मम

समाकुलेषु धर्मेषु किं नु शेषं भविष्यति

Mahabharata

Vana Parva, Adhyaya 188, Verse 6

किंवीर्या मानवास्तत्र किमाहारविहारिणः

किमायुषः किंवसना भविष्यन्ति युगक्षये

Mahabharata

Vana Parva, Adhyaya 188, Verse 7

कां च काष्ठां समासाद्य पुनः संपत्स्यते कृतम्

विस्तरेण मुने ब्रूहि विचित्राणीह भाषसे

Mahabharata

Vana Parva, Adhyaya 188, Verse 8

इत्युक्तः स मुनिश्रेष्ठः पुनरेवाभ्यभाषत

रमयन्वृष्णिशार्दूलं पाण्डवांश्च महामुनिः

Mahabharata

Vana Parva, Adhyaya 188, Verse 9

भविष्यं सर्वलोकस्य वृत्तान्तं भरतर्षभ

कलुषं कालमासाद्य कथ्यमानं निबोध मे

Mahabharata

Vana Parva, Adhyaya 188, Verse 10

कृते चतुष्पात्सकलो निर्व्याजोपाधिवर्जितः

वृषः प्रतिष्ठितो धर्मो मनुष्येष्वभवत्पुरा

Mahabharata

Vana Parva, Adhyaya 188, Verse 11

अधर्मपादविद्धस्तु त्रिभिरंशैः प्रतिष्ठितः

त्रेतायां द्वापरेऽर्धेन व्यामिश्रो धर्म उच्यते

Mahabharata

Vana Parva, Adhyaya 188, Verse 12

त्रिभिरंशैरधर्मस्तु लोकानाक्रम्य तिष्ठति

चतुर्थांशेन धर्मस्तु मनुष्यानुपतिष्ठति

Mahabharata

Vana Parva, Adhyaya 188, Verse 13

आयुर्वीर्यमथो बुद्धिर्बलं तेजश्च पाण्डव

मनुष्याणामनुयुगं ह्रसतीति निबोध मे

Mahabharata

Vana Parva, Adhyaya 188, Verse 14

राजानो ब्राह्मणा वैश्याः शूद्राश्चैव युधिष्ठिर

व्याजैर्धर्मं चरिष्यन्ति धर्मवैतंसिका नराः

Mahabharata

Vana Parva, Adhyaya 188, Verse 15

सत्यं संक्षेप्स्यते लोके नरैः पण्डितमानिभिः

सत्यहान्या ततस्तेषामायुरल्पं भविष्यति

Mahabharata

Vana Parva, Adhyaya 188, Verse 16

आयुषः प्रक्षयाद्विद्यां न शक्ष्यन्त्युपशिक्षितुम्

विद्याहीनानविज्ञानाल्लोभोऽप्यभिभविष्यति

Mahabharata

Vana Parva, Adhyaya 188, Verse 17

लोभक्रोधपरा मूढाः कामसक्ताश्च मानवाः

वैरबद्धा भविष्यन्ति परस्परवधेप्सवः

Mahabharata

Vana Parva, Adhyaya 188, Verse 18

ब्राह्मणाः क्षत्रिया वैश्याः संकीर्यन्तः परस्परम्

शूद्रतुल्या भविष्यन्ति तपःसत्यविवर्जिताः

Mahabharata

Vana Parva, Adhyaya 188, Verse 19

अन्त्या मध्या भविष्यन्ति मध्याश्चान्तावसायिनः

ईदृशो भविता लोको युगान्ते पर्युपस्थिते

Mahabharata

Vana Parva, Adhyaya 188, Verse 20

वस्त्राणां प्रवरा शाणी धान्यानां कोरदूषकाः

भार्यामित्राश्च पुरुषा भविष्यन्ति युगक्षये

Mahabharata

Vana Parva, Adhyaya 188, Verse 21

मत्स्यामिषेण जीवन्तो दुहन्तश्चाप्यजैडकम्

गोषु नष्टासु पुरुषा भविष्यन्ति युगक्षये

Mahabharata

Vana Parva, Adhyaya 188, Verse 22

अन्योन्यं परिमुष्णन्तो हिंसयन्तश्च मानवाः

अजपा नास्तिकाः स्तेना भविष्यन्ति युगक्षये

Mahabharata

Vana Parva, Adhyaya 188, Verse 23

सरित्तीरेषु कुद्दालैर्वापयिष्यन्ति चौषधीः

ताश्चाप्यल्पफलास्तेषां भविष्यन्ति युगक्षये

Mahabharata

Vana Parva, Adhyaya 188, Verse 24

श्राद्धे दैवे च पुरुषा ये च नित्यं धृतव्रताः

तेऽपि लोभसमायुक्ता भोक्ष्यन्तीह परस्परम्

Mahabharata

Vana Parva, Adhyaya 188, Verse 25

पिता पुत्रस्य भोक्ता च पितुः पुत्रस्तथैव च

अतिक्रान्तानि भोज्यानि भविष्यन्ति युगक्षये

Mahabharata

Vana Parva, Adhyaya 188, Verse 26

न व्रतानि चरिष्यन्ति ब्राह्मणा वेदनिन्दकाः

न यक्ष्यन्ति न होष्यन्ति हेतुवादविलोभिताः

Mahabharata

Vana Parva, Adhyaya 188, Verse 27

निम्ने कृषिं करिष्यन्ति योक्ष्यन्ति धुरि धेनुकाः

एकहायनवत्सांश्च वाहयिष्यन्ति मानवाः

Mahabharata

Vana Parva, Adhyaya 188, Verse 28

पुत्रः पितृवधं कृत्वा पिता पुत्रवधं तथा

निरुद्वेगो बृहद्वादी न निन्दामुपलप्स्यते

Mahabharata

Vana Parva, Adhyaya 188, Verse 29

म्लेच्छभूतं जगत्सर्वं निष्क्रियं यज्ञवर्जितम्

भविष्यति निरानन्दमनुत्सवमथो तथा

Mahabharata

Vana Parva, Adhyaya 188, Verse 30

प्रायशः कृपणानां हि तथा बन्धुमतामपि

विधवानां च वित्तानि हरिष्यन्तीह मानवाः