Mahabharata

Vana Parva, Adhyaya 187

Containing 55 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 187, Verse 1

कामं देवापि मां विप्र न विजानन्ति तत्त्वतः

त्वत्प्रीत्या तु प्रवक्ष्यामि यथेदं विसृजाम्यहम्

Mahabharata

Vana Parva, Adhyaya 187, Verse 2

पितृभक्तोऽसि विप्रर्षे मां चैव शरणं गतः

अतो दृष्टोऽस्मि ते साक्षाद्ब्रह्मचर्यं च ते महत्

Mahabharata

Vana Parva, Adhyaya 187, Verse 3

आपो नारा इति प्रोक्ताः संज्ञानाम कृतं मया

तेन नारायणोऽस्म्युक्तो मम तद्ध्ययनं सदा

Mahabharata

Vana Parva, Adhyaya 187, Verse 4

अहं नारायणो नाम प्रभवः शाश्वतोऽव्ययः

विधाता सर्वभूतानां संहर्ता च द्विजोत्तम

Mahabharata

Vana Parva, Adhyaya 187, Verse 5

अहं विष्णुरहं ब्रह्मा शक्रश्चाहं सुराधिपः

अहं वैश्रवणो राजा यमः प्रेताधिपस्तथा

Mahabharata

Vana Parva, Adhyaya 187, Verse 6

अहं शिवश्च सोमश्च कश्यपश्च प्रजापतिः

अहं धाता विधाता च यज्ञश्चाहं द्विजोत्तम

Mahabharata

Vana Parva, Adhyaya 187, Verse 7

अग्निरास्यं क्षितिः पादौ चन्द्रादित्यौ च लोचने

सदिशं च नभः कायो वायुर्मनसि मे स्थितः

Mahabharata

Vana Parva, Adhyaya 187, Verse 8

मया क्रतुशतैरिष्टं बहुभिः स्वाप्तदक्षिणैः

यजन्ते वेदविदुषो मां देवयजने स्थितम्

Mahabharata

Vana Parva, Adhyaya 187, Verse 9

पृथिव्यां क्षत्रियेन्द्राश्च पार्थिवाः स्वर्गकाङ्क्षिणः

यजन्ते मां तथा वैश्याः स्वर्गलोकजिगीषवः

Mahabharata

Vana Parva, Adhyaya 187, Verse 10

चतुःसमुद्रपर्यन्तां मेरुमन्दरभूषणाम्

शेषो भूत्वाहमेवैतां धारयामि वसुंधराम्

Mahabharata

Vana Parva, Adhyaya 187, Verse 11

वाराहं रूपमास्थाय मयेयं जगती पुरा

मज्जमाना जले विप्र वीर्येणासीत्समुद्धृता

Mahabharata

Vana Parva, Adhyaya 187, Verse 12

अग्निश्च वडवावक्त्रो भूत्वाहं द्विजसत्तम

पिबाम्यपः समाविद्धास्ताश्चैव विसृजाम्यहम्

Mahabharata

Vana Parva, Adhyaya 187, Verse 13

ब्रह्म वक्त्रं भुजौ क्षत्रमूरू मे संश्रिता विशः

पादौ शूद्रा भजन्ते मे विक्रमेण क्रमेण च

Mahabharata

Vana Parva, Adhyaya 187, Verse 14

ऋग्वेदः सामवेदश्च यजुर्वेदोऽप्यथर्वणः

मत्तः प्रादुर्भवन्त्येते मामेव प्रविशन्ति च

Mahabharata

Vana Parva, Adhyaya 187, Verse 15

यतयः शान्तिपरमा यतात्मानो मुमुक्षवः

कामक्रोधद्वेषमुक्ता निःसङ्गा वीतकल्मषाः

Mahabharata

Vana Parva, Adhyaya 187, Verse 16

सत्त्वस्था निरहंकारा नित्यमध्यात्मकोविदाः

मामेव सततं विप्राश्चिन्तयन्त उपासते

Mahabharata

Vana Parva, Adhyaya 187, Verse 17

अहं संवर्तको ज्योतिरहं संवर्तको यमः

अहं संवर्तकः सूर्यो अहं संवर्तकोऽनिलः

Mahabharata

Vana Parva, Adhyaya 187, Verse 18

तारारूपाणि दृश्यन्ते यान्येतानि नभस्तले

मम रूपाण्यथैतानि विद्धि त्वं द्विजसत्तम

Mahabharata

Vana Parva, Adhyaya 187, Verse 19

रत्नाकराः समुद्राश्च सर्व एव चतुर्दिशम्

वसनं शयनं चैव निलयं चैव विद्धि मे

Mahabharata

Vana Parva, Adhyaya 187, Verse 20

कामं क्रोधं च हर्षं च भयं मोहं तथैव च

ममैव विद्धि रूपाणि सर्वाण्येतानि सत्तम

Mahabharata

Vana Parva, Adhyaya 187, Verse 21

प्राप्नुवन्ति नरा विप्र यत्कृत्वा कर्मशोभनम्

सत्यं दानं तपश्चोग्रमहिंसा चैव जन्तुषु

Mahabharata

Vana Parva, Adhyaya 187, Verse 22

मद्विधानेन विहिता मम देहविहारिणः

मयाभिभूतविज्ञाना विचेष्टन्ते न कामतः

Mahabharata

Vana Parva, Adhyaya 187, Verse 23

सम्यग्वेदमधीयाना यजन्तो विविधैर्मखैः

शान्तात्मानो जितक्रोधाः प्राप्नुवन्ति द्विजातयः

Mahabharata

Vana Parva, Adhyaya 187, Verse 24

प्राप्तुं न शक्यो यो विद्वन्नरैर्दुष्कृतकर्मभिः

लोभाभिभूतैः कृपणैरनार्यैरकृतात्मभिः

Mahabharata

Vana Parva, Adhyaya 187, Verse 25

तं मां महाफलं विद्धि पदं सुकृतकर्मणः

दुष्प्रापं विप्रमूढानां मार्गं योगैर्निषेवितम्

Mahabharata

Vana Parva, Adhyaya 187, Verse 26

यदा यदा च धर्मस्य ग्लानिर्भवति सत्तम

अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्

Mahabharata

Vana Parva, Adhyaya 187, Verse 27

दैत्या हिंसानुरक्ताश्च अवध्याः सुरसत्तमैः

राक्षसाश्चापि लोकेऽस्मिन्यदोत्पत्स्यन्ति दारुणाः

Mahabharata

Vana Parva, Adhyaya 187, Verse 28

तदाहं संप्रसूयामि गृहेषु शुभकर्मणाम्

प्रविष्टो मानुषं देहं सर्वं प्रशमयाम्यहम्

Mahabharata

Vana Parva, Adhyaya 187, Verse 29

सृष्ट्वा देवमनुष्यांश्च गन्धर्वोरगराक्षसान्

स्थावराणि च भूतानि संहराम्यात्ममायया

Mahabharata

Vana Parva, Adhyaya 187, Verse 30

कर्मकाले पुनर्देहमनुचिन्त्य सृजाम्यहम्

प्रविश्य मानुषं देहं मर्यादाबन्धकारणात्