Mahabharata

Vana Parva, Adhyaya 185

Containing 54 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 185, Verse 1

ततः स पाण्डवो भूयो मार्कण्डेयमुवाच ह

कथयस्वेह चरितं मनोर्वैवस्वतस्य मे

Mahabharata

Vana Parva, Adhyaya 185, Verse 2

विवस्वतः सुतो राजन्परमर्षिः प्रतापवान्

बभूव नरशार्दूल प्रजापतिसमद्युतिः

Mahabharata

Vana Parva, Adhyaya 185, Verse 3

ओजसा तेजसा लक्ष्म्या तपसा च विशेषतः

अतिचक्राम पितरं मनुः स्वं च पितामहम्

Mahabharata

Vana Parva, Adhyaya 185, Verse 4

ऊर्ध्वबाहुर्विशालायां बदर्यां स नराधिपः

एकपादस्थितस्तीव्रं चचार सुमहत्तपः

Mahabharata

Vana Parva, Adhyaya 185, Verse 5

अवाक्शिरास्तथा चापि नेत्रैरनिमिषैर्दृढम्

सोऽतप्यत तपो घोरं वर्षाणामयुतं तदा

Mahabharata

Vana Parva, Adhyaya 185, Verse 6

तं कदाचित्तपस्यन्तमार्द्रचीरजटाधरम्

वीरिणीतीरमागम्य मत्स्यो वचनमब्रवीत्

Mahabharata

Vana Parva, Adhyaya 185, Verse 7

भगवन्क्षुद्रमत्स्योऽस्मि बलवद्भ्यो भयं मम

मत्स्येभ्यो हि ततो मां त्वं त्रातुमर्हसि सुव्रत

Mahabharata

Vana Parva, Adhyaya 185, Verse 8

दुर्बलं बलवन्तो हि मत्स्यं मत्स्या विशेषतः

भक्षयन्ति यथा वृत्तिर्विहिता नः सनातनी

Mahabharata

Vana Parva, Adhyaya 185, Verse 9

तस्माद्भयौघान्महतो मज्जन्तं मां विशेषतः

त्रातुमर्हसि कर्तास्मि कृते प्रतिकृतं तव

Mahabharata

Vana Parva, Adhyaya 185, Verse 10

स मत्स्यवचनं श्रुत्वा कृपयाभिपरिप्लुतः

मनुर्वैवस्वतोऽगृह्णात्तं मत्स्यं पाणिना स्वयम्

Mahabharata

Vana Parva, Adhyaya 185, Verse 11

उदकान्तमुपानीय मत्स्यं वैवस्वतो मनुः

अलिञ्जरे प्राक्षिपत्स चन्द्रांशुसदृशप्रभम्

Mahabharata

Vana Parva, Adhyaya 185, Verse 12

स तत्र ववृधे राजन्मत्स्यः परमसत्कृतः

पुत्रवच्चाकरोत्तस्मिन्मनुर्भावं विशेषतः

Mahabharata

Vana Parva, Adhyaya 185, Verse 13

अथ कालेन महता स मत्स्यः सुमहानभूत्

अलिञ्जरे जले चैव नासौ समभवत्किल

Mahabharata

Vana Parva, Adhyaya 185, Verse 14

अथ मत्स्यो मनुं दृष्ट्वा पुनरेवाभ्यभाषत

भगवन्साधु मेऽद्यान्यत्स्थानं संप्रतिपादय

Mahabharata

Vana Parva, Adhyaya 185, Verse 15

उद्धृत्यालिञ्जरात्तस्मात्ततः स भगवान्मुनिः

तं मत्स्यमनयद्वापीं महतीं स मनुस्तदा

Mahabharata

Vana Parva, Adhyaya 185, Verse 16

तत्र तं प्राक्षिपच्चापि मनुः परपुरंजय

अथावर्धत मत्स्यः स पुनर्वर्षगणान्बहून्

Mahabharata

Vana Parva, Adhyaya 185, Verse 17

द्वियोजनायता वापी विस्तृता चापि योजनम्

तस्यां नासौ समभवन्मत्स्यो राजीवलोचन

विचेष्टितुं वा कौन्तेय मत्स्यो वाप्यां विशां पते

Mahabharata

Vana Parva, Adhyaya 185, Verse 18

मनुं मत्स्यस्ततो दृष्ट्वा पुनरेवाभ्यभाषत

नय मां भगवन्साधो समुद्रमहिषीं प्रभो

गङ्गां तत्र निवत्स्यामि यथा वा तात मन्यसे

Mahabharata

Vana Parva, Adhyaya 185, Verse 19

एवमुक्तो मनुर्मत्स्यमनयद्भगवान्वशी

नदीं गङ्गां तत्र चैनं स्वयं प्राक्षिपदच्युतः

Mahabharata

Vana Parva, Adhyaya 185, Verse 20

स तत्र ववृधे मत्स्यः किंचित्कालमरिंदम

ततः पुनर्मनुं दृष्ट्वा मत्स्यो वचनमब्रवीत्

Mahabharata

Vana Parva, Adhyaya 185, Verse 21

गङ्गायां हि न शक्नोमि बृहत्त्वाच्चेष्टितुं प्रभो

समुद्रं नय मामाशु प्रसीद भगवन्निति

Mahabharata

Vana Parva, Adhyaya 185, Verse 22

उद्धृत्य गङ्गासलिलात्ततो मत्स्यं मनुः स्वयम्

समुद्रमनयत्पार्थ तत्र चैनमवासृजत्

Mahabharata

Vana Parva, Adhyaya 185, Verse 23

सुमहानपि मत्स्यः सन्स मनोर्मनसस्तदा

आसीद्यथेष्टहार्यश्च स्पर्शगन्धसुखश्च वै

Mahabharata

Vana Parva, Adhyaya 185, Verse 24

यदा समुद्रे प्रक्षिप्तः स मत्स्यो मनुना तदा

तत एनमिदं वाक्यं स्मयमान इवाब्रवीत्

Mahabharata

Vana Parva, Adhyaya 185, Verse 25

भगवन्कृता हि मे रक्षा त्वया सर्वा विशेषतः

प्राप्तकालं तु यत्कार्यं त्वया तच्छ्रूयतां मम

Mahabharata

Vana Parva, Adhyaya 185, Verse 26

अचिराद्भगवन्भौममिदं स्थावरजङ्गमम्

सर्वमेव महाभाग प्रलयं वै गमिष्यति

Mahabharata

Vana Parva, Adhyaya 185, Verse 27

संप्रक्षालनकालोऽयं लोकानां समुपस्थितः

तस्मात्त्वां बोधयाम्यद्य यत्ते हितमनुत्तमम्

Mahabharata

Vana Parva, Adhyaya 185, Verse 28

त्रसानां स्थावराणां च यच्चेङ्गं यच्च नेङ्गति

तस्य सर्वस्य संप्राप्तः कालः परमदारुणः

Mahabharata

Vana Parva, Adhyaya 185, Verse 29

नौश्च कारयितव्या ते दृढा युक्तवटाकरा

तत्र सप्तर्षिभिः सार्धमारुहेथा महामुने

Mahabharata

Vana Parva, Adhyaya 185, Verse 30

बीजानि चैव सर्वाणि यथोक्तानि मया पुरा

तस्यामारोहयेर्नावि सुसंगुप्तानि भागशः