Mahabharata

Vana Parva, Adhyaya 184

Containing 25 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 184, Verse 1

अत्रैव च सरस्वत्या गीतं परपुरंजय

पृष्टया मुनिना वीर शृणु तार्क्ष्येण धीमता

Mahabharata

Vana Parva, Adhyaya 184, Verse 2

किं नु श्रेयः पुरुषस्येह भद्रे; कथं कुर्वन्न च्यवते स्वधर्मात्

आचक्ष्व मे चारुसर्वाङ्गि सर्वं; त्वयानुशिष्टो न च्यवेयं स्वधर्मात्

Mahabharata

Vana Parva, Adhyaya 184, Verse 3

कथं चाग्निं जुहुयां पूजये वा; कस्मिन्काले केन धर्मो न नश्येत्

एतत्सर्वं सुभगे प्रब्रवीहि; यथा लोकान्विरजाः संचरेयम्

Mahabharata

Vana Parva, Adhyaya 184, Verse 4

एवं पृष्टा प्रीतियुक्तेन तेन; शुश्रूषुमीक्ष्योत्तमबुद्धियुक्तम्

तार्क्ष्यं विप्रं धर्मयुक्तं हितं च; सरस्वती वाक्यमिदं बभाषे

Mahabharata

Vana Parva, Adhyaya 184, Verse 5

यो ब्रह्म जानाति यथाप्रदेशं; स्वाध्यायनित्यः शुचिरप्रमत्तः

स वै पुरो देवपुरस्य गन्ता; सहामरैः प्राप्नुयात्प्रीतियोगम्

Mahabharata

Vana Parva, Adhyaya 184, Verse 6

तत्र स्म रम्या विपुला विशोकाः; सुपुष्पिताः पुष्करिण्यः सुपुण्याः

अकर्दमा मीनवत्यः सुतीर्था; हिरण्मयैरावृताः पुण्डरीकैः

Mahabharata

Vana Parva, Adhyaya 184, Verse 7

तासां तीरेष्वासते पुण्यकर्मा; महीयमानः पृथगप्सरोभिः

सुपुण्यगन्धाभिरलंकृताभि;र्हिरण्यवर्णाभिरतीव हृष्टः

Mahabharata

Vana Parva, Adhyaya 184, Verse 8

परं लोकं गोप्रदास्त्वाप्नुवन्ति; दत्त्वानड्वाहं सूर्यलोकं व्रजन्ति

वासो दत्त्वा चन्द्रमसः स लोकं; दत्त्वा हिरण्यममृतत्वमेति

Mahabharata

Vana Parva, Adhyaya 184, Verse 9

धेनुं दत्त्वा सुव्रतां साधुदोहां; कल्याणवत्सामपलायिनीं च

यावन्ति रोमाणि भवन्ति तस्या;स्तावद्वर्षाण्यश्नुते स्वर्गलोकम्

Mahabharata

Vana Parva, Adhyaya 184, Verse 10

अनड्वाहं सुव्रतं यो ददाति; हलस्य वोढारमनन्तवीर्यम्

धुरंधरं बलवन्तं युवानं; प्राप्नोति लोकान्दश धेनुदस्य

Mahabharata

Vana Parva, Adhyaya 184, Verse 11

यः सप्त वर्षाणि जुहोति तार्क्ष्य; हव्यं त्वग्नौ सुव्रतः साधुशीलः

सप्तावरान्सप्त पूर्वान्पुनाति; पितामहानात्मनः कर्मभिः स्वैः

Mahabharata

Vana Parva, Adhyaya 184, Verse 12

किमग्निहोत्रस्य व्रतं पुराण;माचक्ष्व मे पृच्छतश्चारुरूपे

त्वयानुशिष्टोऽहमिहाद्य विद्यां; यदग्निहोत्रस्य व्रतं पुराणम्

Mahabharata

Vana Parva, Adhyaya 184, Verse 13

न चाशुचिर्नाप्यनिर्णिक्तपाणि;र्नाब्रह्मविज्जुहुयान्नाविपश्चित्

बुभुक्षवः शुचिकामा हि देवा; नाश्रद्दधानाद्धि हविर्जुषन्ति

Mahabharata

Vana Parva, Adhyaya 184, Verse 14

नाश्रोत्रियं देवहव्ये नियुञ्ज्या;न्मोघं परा सिञ्चति तादृशो हि

अपूर्णमश्रोत्रियमाह तार्क्ष्य; न वै तादृग्जुहुयादग्निहोत्रम्

Mahabharata

Vana Parva, Adhyaya 184, Verse 15

कृशानुं ये जुह्वति श्रद्दधानाः; सत्यव्रता हुतशिष्टाशिनश्च

गवां लोकं प्राप्य ते पुण्यगन्धं; पश्यन्ति देवं परमं चापि सत्यम्

Mahabharata

Vana Parva, Adhyaya 184, Verse 16

क्षेत्रज्ञभूतां परलोकभावे; कर्मोदये बुद्धिमतिप्रविष्टाम्

प्रज्ञां च देवीं सुभगे विमृश्य; पृच्छामि त्वां का ह्यसि चारुरूपे

Mahabharata

Vana Parva, Adhyaya 184, Verse 17

अग्निहोत्रादहमभ्यागतास्मि; विप्रर्षभाणां संशयच्छेदनाय

त्वत्संयोगादहमेतदब्रुवं; भावे स्थिता तथ्यमर्थं यथावत्

Mahabharata

Vana Parva, Adhyaya 184, Verse 18

न हि त्वया सदृशी काचिदस्ति; विभ्राजसे ह्यतिमात्रं यथा श्रीः

रूपं च ते दिव्यमत्यन्तकान्तं; प्रज्ञां च देवीं सुभगे बिभर्षि

Mahabharata

Vana Parva, Adhyaya 184, Verse 19

श्रेष्ठानि यानि द्विपदां वरिष्ठ; यज्ञेषु विद्वन्नुपपादयन्ति

तैरेवाहं संप्रवृद्धा भवामि; आप्यायिता रूपवती च विप्र

Mahabharata

Vana Parva, Adhyaya 184, Verse 20

यच्चापि द्रव्यमुपयुज्यते ह; वानस्पत्यमायसं पार्थिवं वा

दिव्येन रूपेण च प्रज्ञया च; तेनैव सिद्धिरिति विद्धि विद्वन्

Mahabharata

Vana Parva, Adhyaya 184, Verse 21

इदं श्रेयः परमं मन्यमाना; व्यायच्छन्ते मुनयः संप्रतीताः

आचक्ष्व मे तं परमं विशोकं; मोक्षं परं यं प्रविशन्ति धीराः

Mahabharata

Vana Parva, Adhyaya 184, Verse 22

तं वै परं वेदविदः प्रपन्नाः; परं परेभ्यः प्रथितं पुराणम्

स्वाध्यायदानव्रतपुण्ययोगै;स्तपोधना वीतशोका विमुक्ताः

Mahabharata

Vana Parva, Adhyaya 184, Verse 23

तस्याथ मध्ये वेतसः पुण्यगन्धः; सहस्रशाखो विमलो विभाति

तस्य मूलात्सरितः प्रस्रवन्ति; मधूदकप्रस्रवणा रमण्यः

Mahabharata

Vana Parva, Adhyaya 184, Verse 24

शाखां शाखां महानद्यः संयान्ति सिकतासमाः

धानापूपा मांसशाकाः सदा पायसकर्दमाः

Mahabharata

Vana Parva, Adhyaya 184, Verse 25

यस्मिन्नग्निमुखा देवाः सेन्द्राः सह मरुद्गणैः

ईजिरे क्रतुभिः श्रेष्ठैस्तत्पदं परमं मुने