Vana Parva, Adhyaya 182, Verse 1
मार्कण्डेयं महात्मानमूचुः पाण्डुसुतास्तदा
माहात्म्यं द्विजमुख्यानां श्रोतुमिच्छाम कथ्यताम्
Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.
मार्कण्डेयं महात्मानमूचुः पाण्डुसुतास्तदा
माहात्म्यं द्विजमुख्यानां श्रोतुमिच्छाम कथ्यताम्
एवमुक्तः स भगवान्मार्कण्डेयो महातपाः
उवाच सुमहातेजाः सर्वशास्त्रविशारदः
हैहयानां कुलकरो राजा परपुरंजयः
कुमारो रूपसंपन्नो मृगयामचरद्बली
चरमाणस्तु सोऽरण्ये तृणवीरुत्समावृते
कृष्णाजिनोत्तरासङ्गं ददर्श मुनिमन्तिके
स तेन निहतोऽरण्ये मन्यमानेन वै मृगम्
व्यथितः कर्म तत्कृत्वा शोकोपहतचेतनः
जगाम हैहयानां वै सकाशं प्रथितात्मनाम्
राज्ञां राजीवनेत्रोसौ कुमारः पृथिवीपते
तेषां च तद्यथावृत्तं कथयामास वै तदा
तं चापि हिंसितं तात मुनिं मूलफलाशिनम्
श्रुत्वा दृष्ट्वा च ते तत्र बभूवुर्दीनमानसाः
कस्यायमिति ते सर्वे मार्गमाणास्ततस्ततः
जग्मुश्चारिष्टनेमेस्ते तार्क्ष्यस्याश्रममञ्जसा
तेऽभिवाद्य महात्मानं तं मुनिं संशितव्रतम्
तस्थुः सर्वे स तु मुनिस्तेषां पूजामथाहरत्
ते तमूचुर्महात्मानं न वयं सत्क्रियां मुने
त्वत्तोऽर्हाः कर्मदोषेण ब्राह्मणो हिंसितो हि नः
तानब्रवीत्स विप्रर्षिः कथं वो ब्राह्मणो हतः
क्व चासौ ब्रूत सहिताः पश्यध्वं मे तपोबलम्
ते तु तत्सर्वमखिलमाख्यायास्मै यथातथम्
नापश्यंस्तमृषिं तत्र गतासुं ते समागताः
अन्वेषमाणाः सव्रीडाः स्वप्नवद्गतमानसाः
तानब्रवीत्तत्र मुनिस्तार्क्ष्यः परपुरंजयः
स्यादयं ब्राह्मणः सोऽथ यो युष्माभिर्विनाशितः
पुत्रो ह्ययं मम नृपास्तपोबलसमन्वितः
ते तु दृष्ट्वैव तमृषिं विस्मयं परमं गताः
महदाश्चर्यमिति वै विब्रुवाणा महीपते
मृतो ह्ययमतो दृष्टः कथं जीवितमाप्तवान्
किमेतत्तपसो वीर्यं येनायं जीवितः पुनः
श्रोतुमिच्छाम विप्रर्षे यदि श्रोतव्यमित्युत
स तानुवाच नास्माकं मृत्युः प्रभवते नृपाः
कारणं वः प्रवक्ष्यामि हेतुयोगं समासतः
सत्यमेवाभिजानीमो नानृते कुर्महे मनः
स्वधर्ममनुतिष्ठामस्तस्मान्मृत्युभयं न नः
यद्ब्राह्मणानां कुशलं तदेषां कथयामहे
नैषां दुश्चरितं ब्रूमस्तस्मान्मृत्युभयं न नः
अतिथीनन्नपानेन भृत्यानत्यशनेन च
तेजस्विदेशवासाच्च तस्मान्मृत्युभयं न नः
एतद्वै लेशमात्रं वः समाख्यातं विमत्सराः
गच्छध्वं सहिताः सर्वे न पापाद्भयमस्ति वः
एवमस्त्विति ते सर्वे प्रतिपूज्य महामुनिम्
स्वदेशमगमन्हृष्टा राजानो भरतर्षभ