Mahabharata

Vana Parva, Adhyaya 181

Containing 41 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 181, Verse 1

तं विवक्षन्तमालक्ष्य कुरुराजो महामुनिम्

कथासंजननार्थाय चोदयामास पाण्डवः

Mahabharata

Vana Parva, Adhyaya 181, Verse 2

भवान्दैवतदैत्यानामृषीणां च महात्मनाम्

राजर्षीणां च सर्वेषां चरितज्ञः सनातनः

Mahabharata

Vana Parva, Adhyaya 181, Verse 3

सेव्यश्चोपासितव्यश्च मतो नः काङ्क्षितश्चिरम्

अयं च देवकीपुत्रः प्राप्तोऽस्मानवलोककः

Mahabharata

Vana Parva, Adhyaya 181, Verse 4

भवत्येव हि मे बुद्धिर्दृष्ट्वात्मानं सुखाच्च्युतम्

धार्तराष्ट्रांश्च दुर्वृत्तानृध्यतः प्रेक्ष्य सर्वशः

Mahabharata

Vana Parva, Adhyaya 181, Verse 5

कर्मणः पुरुषः कर्ता शुभस्याप्यशुभस्य च

स्वफलं तदुपाश्नाति कथं कर्ता स्विदीश्वरः

Mahabharata

Vana Parva, Adhyaya 181, Verse 6

अथ वा सुखदुःखेषु नृणां ब्रह्मविदां वर

इह वा कृतमन्वेति परदेहेऽथ वा पुनः

Mahabharata

Vana Parva, Adhyaya 181, Verse 7

देही च देहं संत्यज्य मृग्यमाणः शुभाशुभैः

कथं संयुज्यते प्रेत्य इह वा द्विजसत्तम

Mahabharata

Vana Parva, Adhyaya 181, Verse 8

ऐहलौकिकमेवैतदुताहो पारलौकिकम्

क्व च कर्माणि तिष्ठन्ति जन्तोः प्रेतस्य भार्गव

Mahabharata

Vana Parva, Adhyaya 181, Verse 9

त्वद्युक्तोऽयमनुप्रश्नो यथावद्वदतां वर

विदितं वेदितव्यं ते स्थित्यर्थमनुपृच्छसि

Mahabharata

Vana Parva, Adhyaya 181, Verse 10

अत्र ते वर्तयिष्यामि तदिहैकमनाः शृणु

यथेहामुत्र च नरः सुखदुःखमुपाश्नुते

Mahabharata

Vana Parva, Adhyaya 181, Verse 11

निर्मलानि शरीराणि विशुद्धानि शरीरिणाम्

ससर्ज धर्मतन्त्राणि पूर्वोत्पन्नः प्रजापतिः

Mahabharata

Vana Parva, Adhyaya 181, Verse 12

अमोघबलसंकल्पाः सुव्रताः सत्यवादिनः

ब्रह्मभूता नराः पुण्याः पुराणाः कुरुनन्दन

Mahabharata

Vana Parva, Adhyaya 181, Verse 13

सर्वे देवैः समायान्ति स्वच्छन्देन नभस्तलम्

ततश्च पुनरायान्ति सर्वे स्वच्छन्दचारिणः

Mahabharata

Vana Parva, Adhyaya 181, Verse 14

स्वच्छन्दमरणाश्चासन्नराः स्वच्छन्दजीविनः

अल्पबाधा निरातङ्का सिद्धार्था निरुपद्रवाः

Mahabharata

Vana Parva, Adhyaya 181, Verse 15

द्रष्टारो देवसंघानामृषीणां च महात्मनाम्

प्रत्यक्षाः सर्वधर्माणां दान्ता विगतमत्सराः

Mahabharata

Vana Parva, Adhyaya 181, Verse 16

आसन्वर्षसहस्राणि तथा पुत्रसहस्रिणः

ततः कालान्तरेऽन्यस्मिन्पृथिवीतलचारिणः

Mahabharata

Vana Parva, Adhyaya 181, Verse 17

कामक्रोधाभिभूतास्ते मायाव्याजोपजीविनः

लोभमोहाभिभूताश्च त्यक्ता देवैस्ततो नराः

Mahabharata

Vana Parva, Adhyaya 181, Verse 18

अशुभैः कर्मभिः पापास्तिर्यङ्नरकगामिनः

संसारेषु विचित्रेषु पच्यमानाः पुनः पुनः

Mahabharata

Vana Parva, Adhyaya 181, Verse 19

मोघेष्टा मोघसंकल्पा मोघज्ञाना विचेतसः

सर्वातिशङ्किनश्चैव संवृत्ताः क्लेशभागिनः

अशुभैः कर्मभिश्चापि प्रायशः परिचिह्निताः

Mahabharata

Vana Parva, Adhyaya 181, Verse 20

दौष्कुल्या व्याधिबहुला दुरात्मानोऽप्रतापिनः

भवन्त्यल्पायुषः पापा रौद्रकर्मफलोदयाः

नाथन्तः सर्वकामानां नास्तिका भिन्नसेतवः

Mahabharata

Vana Parva, Adhyaya 181, Verse 21

जन्तोः प्रेतस्य कौन्तेय गतिः स्वैरिह कर्मभिः

प्राज्ञस्य हीनबुद्धेश्च कर्मकोशः क्व तिष्ठति

Mahabharata

Vana Parva, Adhyaya 181, Verse 22

क्वस्थस्तत्समुपाश्नाति सुकृतं यदि वेतरत्

इति ते दर्शनं यच्च तत्राप्यनुनयं शृणु

Mahabharata

Vana Parva, Adhyaya 181, Verse 23

अयमादिशरीरेण देवसृष्टेन मानवः

शुभानामशुभानां च कुरुते संचयं महत्

Mahabharata

Vana Parva, Adhyaya 181, Verse 24

आयुषोऽन्ते प्रहायेदं क्षीणप्रायं कलेवरम्

संभवत्येव युगपद्योनौ नास्त्यन्तराभवः

Mahabharata

Vana Parva, Adhyaya 181, Verse 25

तत्रास्य स्वकृतं कर्म छायेवानुगतं सदा

फलत्यथ सुखार्हो वा दुःखार्हो वापि जायते

Mahabharata

Vana Parva, Adhyaya 181, Verse 26

कृतान्तविधिसंयुक्तः स जन्तुर्लक्षणैः शुभैः

अशुभैर्वा निरादानो लक्ष्यते ज्ञानदृष्टिभिः

Mahabharata

Vana Parva, Adhyaya 181, Verse 27

एषा तावदबुद्धीनां गतिरुक्ता युधिष्ठिर

अतः परं ज्ञानवतां निबोध गतिमुत्तमाम्

Mahabharata

Vana Parva, Adhyaya 181, Verse 28

मनुष्यास्तप्ततपसः सर्वागमपरायणाः

स्थिरव्रताः सत्यपरा गुरुशुश्रूषणे रताः

Mahabharata

Vana Parva, Adhyaya 181, Verse 29

सुशीलाः शुक्लजातीयाः क्षान्ता दान्ताः सुतेजसः

शुभयोन्यन्तरगताः प्रायशः शुभलक्षणाः

Mahabharata

Vana Parva, Adhyaya 181, Verse 30

जितेन्द्रियत्वाद्वशिनः शुक्लत्वान्मन्दरोगिणः

अल्पबाधपरित्रासाद्भवन्ति निरुपद्रवाः