Vana Parva, Adhyaya 180, Verse 1
काम्यकं प्राप्य कौन्तेया युधिष्ठिरपुरोगमाः
कृतातिथ्या मुनिगणैर्निषेदुः सह कृष्णया
Containing 49 sacred Sanskrit shlokas with multi-author commentaries and translations.
काम्यकं प्राप्य कौन्तेया युधिष्ठिरपुरोगमाः
कृतातिथ्या मुनिगणैर्निषेदुः सह कृष्णया
ततस्तान्परिविश्वस्तान्वसतः पाण्डुनन्दनान्
ब्राह्मणा बहवस्तत्र समन्तात्पर्यवारयन्
अथाब्रवीद्द्विजः कश्चिदर्जुनस्य प्रियः सखा
एष्यतीह महाबाहुर्वशी शौरिरुदारधीः
विदिता हि हरेर्यूयमिहायाताः कुरूद्वहाः
सदा हि दर्शनाकाङ्क्षी श्रेयोऽन्वेषी च वो हरिः
बहुवत्सरजीवी च मार्कण्डेयो महातपाः
स्वाध्यायतपसा युक्तः क्षिप्रं युष्मान्समेष्यति
तथैव तस्य ब्रुवतः प्रत्यदृश्यत केशवः
सैन्यसुग्रीवयुक्तेन रथेन रथिनां वरः
मघवानिव पौलोम्या सहितः सत्यभामया
उपायाद्देवकीपुत्रो दिदृक्षुः कुरुसत्तमान्
अवतीर्य रथात्कृष्णो धर्मराजं यथाविधि
ववन्दे मुदितो धीमान्भीमं च बलिनां वरम्
पूजयामास धौम्यं च यमाभ्यामभिवादितः
परिष्वज्य गुडाकेशं द्रौपदीं पर्यसान्त्वयत्
स दृष्ट्वा फल्गुनं वीरं चिरस्य प्रियमागतम्
पर्यष्वजत दाशार्हः पुनः पुनररिंदमम्
तथैव सत्यभामापि द्रौपदीं परिषस्वजे
पाण्डवानां प्रियां भार्यां कृष्णस्य महिषी प्रिया
ततस्ते पाण्डवाः सर्वे सभार्याः सपुरोहिताः
आनर्चुः पुण्डरीकाक्षं परिवव्रुश्च सर्वशः
कृष्णस्तु पार्थेन समेत्य विद्वा;न्धनंजयेनासुरतर्जनेन
बभौ यथा भूतपतिर्महात्मा; समेत्य साक्षाद्भगवान्गुहेन
ततः समस्तानि किरीटमाली; वनेषु वृत्तानि गदाग्रजाय
उक्त्वा यथावत्पुनरन्वपृच्छ;त्कथं सुभद्रा च तथाभिमन्युः
स पूजयित्वा मधुहा यथाव;त्पार्थांश्च कृष्णां च पुरोहितं च
उवाच राजानमभिप्रशंस;न्युधिष्ठिरं तत्र सहोपविश्य
धर्मः परः पाण्डव राज्यलाभा;त्तस्यार्थमाहुस्तप एव राजन्
सत्यार्जवाभ्यां चरता स्वधर्मं; जितस्तवायं च परश्च लोकः
अधीतमग्रे चरता व्रतानि; सम्यग्धनुर्वेदमवाप्य कृत्स्नम्
क्षात्रेण धर्मेण वसूनि लब्ध्वा; सर्वे ह्यवाप्ताः क्रतवः पुराणाः
न ग्राम्यधर्मेषु रतिस्तवास्ति; कामान्न किंचित्कुरुषे नरेन्द्र
न चार्थलोभात्प्रजहासि धर्मं; तस्मात्स्वभावादसि धर्मराजः
दानं च सत्यं च तपश्च राज;ञ्श्रद्धा च शान्तिश्च धृतिः क्षमा च
अवाप्य राष्ट्राणि वसूनि भोगा;नेषा परा पार्थ सदा रतिस्ते
यदा जनौघः कुरुजाङ्गलानां; कृष्णां सभायामवशामपश्यत्
अपेतधर्मव्यवहारवृत्तं; सहेत तत्पाण्डव कस्त्वदन्यः
असंशयं सर्वसमृद्धकामः; क्षिप्रं प्रजाः पालयितासि सम्यक्
इमे वयं निग्रहणे कुरूणां; यदि प्रतिज्ञा भवतः समाप्ता
धौम्यं च कृष्णां च युधिष्ठिरं च; यमौ च भीमं च दशार्हसिंहः
उवाच दिष्ट्या भवतां शिवेन; प्राप्तः किरीटी मुदितः कृतास्त्रः
प्रोवाच कृष्णामपि याज्ञसेनीं; दशार्हभर्ता सहितः सुहृद्भिः
कृष्णे धनुर्वेदरतिप्रधानाः; सत्यव्रतास्ते शिशवः सुशीलाः
सद्भिः सदैवाचरितं समाधिं; चरन्ति पुत्रास्तव याज्ञसेनि
राज्येन राष्ट्रैश्च निमन्त्र्यमाणाः; पित्रा च कृष्णे तव सोदरैश्च
न यज्ञसेनस्य न मातुलानां; गृहेषु बाला रतिमाप्नुवन्ति
आनर्तमेवाभिमुखाः शिवेन; गत्वा धनुर्वेदरतिप्रधानाः
तवात्मजा वृष्णिपुरं प्रविश्य; न दैवतेभ्यः स्पृहयन्ति कृष्णे
यथा त्वमेवार्हसि तेषु वृत्तिं; प्रयोक्तुमार्या च यथैव कुन्ती
तेष्वप्रमादेन सदा करोति; तथा च भूयश्च तथा सुभद्रा
यथानिरुद्धस्य यथाभिमन्यो;र्यथा सुनीथस्य यथैव भानोः
तथा विनेता च गतिश्च कृष्णे; तवात्मजानामपि रौक्मिणेयः
गदासिचर्मग्रहणेषु शूरा;नस्त्रेषु शिक्षासु रथाश्वयाने
सम्यग्विनेता विनयत्यतन्द्री;स्तांश्चाभिमन्युः सततं कुमारः
स चापि सम्यक्प्रणिधाय शिक्षा;मस्त्राणि चैषां गुरुवत्प्रदाय
तवात्मजानां च तथाभिमन्योः; पराक्रमैस्तुष्यति रौक्मिणेयः
यदा विहारं प्रसमीक्षमाणाः; प्रयान्ति पुत्रास्तव याज्ञसेनि
एकैकमेषामनुयान्ति तत्र; रथाश्च यानानि च दन्तिनश्च