Vana Parva, Adhyaya 179, Verse 1
निदाघान्तकरः कालः सर्वभूतसुखावहः
तत्रैव वसतां तेषां प्रावृट्समभिपद्यत
Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.
निदाघान्तकरः कालः सर्वभूतसुखावहः
तत्रैव वसतां तेषां प्रावृट्समभिपद्यत
छादयन्तो महाघोषाः खं दिशश्च बलाहकाः
प्रववर्षुर्दिवारात्रमसिताः सततं तदा
तपात्ययनिकेताश्च शतशोऽथ सहस्रशः
अपेतार्कप्रभाजालाः सविद्युद्विमलप्रभाः
विरूढशष्पा पृथिवी मत्तदंशसरीसृपा
बभूव पयसा सिक्ता शान्तधूमरजोऽरुणा
न स्म प्रज्ञायते किंचिदम्भसा समवस्तृते
समं वा विषमं वापि नद्यो वा स्थावराणि वा
क्षुब्धतोया महाघोषाः श्वसमाना इवाशुगाः
सिन्धवः शोभयां चक्रुः काननानि तपात्यये
नदतां काननान्तेषु श्रूयन्ते विविधाः स्वनाः
वृष्टिभिस्ताड्यमानानां वराहमृगपक्षिणाम्
स्तोककाः शिखिनश्चैव पुंस्कोकिलगणैः सह
मत्ताः परिपतन्ति स्म दर्दुराश्चैव दर्पिताः
तथा बहुविधाकारा प्रावृण्मेघानुनादिता
अभ्यतीता शिवा तेषां चरतां मरुधन्वसु
क्रौञ्चहंसगणाकीर्णा शरत्प्रणिहिताभवत्
रूढकक्षवनप्रस्था प्रसन्नजलनिम्नगा
विमलाकाशनक्षत्रा शरत्तेषां शिवाभवत्
मृगद्विजसमाकीर्णा पाण्डवानां महात्मनाम्
पश्यन्तः शान्तरजसः क्षपा जलदशीतलाः
ग्रहनक्षत्रसंघैश्च सोमेन च विराजिताः
कुमुदैः पुण्डरीकैश्च शीतवारिधराः शिवाः
नदीः पुष्करिणीश्चैव ददृशुः समलंकृताः
आकाशनीकाशतटां नीपनीवारसंकुलाम्
बभूव चरतां हर्षः पुण्यतीर्थां सरस्वतीम्
ते वै मुमुदिरे वीराः प्रसन्नसलिलां शिवाम्
पश्यन्तो दृढधन्वानः परिपूर्णां सरस्वतीम्
तेषां पुण्यतमा रात्रिः पर्वसंधौ स्म शारदी
तत्रैव वसतामासीत्कार्त्तिकी जनमेजय
पुण्यकृद्भिर्महासत्त्वैस्तापसैः सह पाण्डवाः
तत्सर्वं भरतश्रेष्ठाः समूहुर्योगमुत्तमम्
तमिस्राभ्युदये तस्मिन्धौम्येन सह पाण्डवाः
सूतैः पौरोगवैश्चैव काम्यकं प्रययुर्वनम्