Mahabharata

Vana Parva, Adhyaya 178

Containing 50 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 178, Verse 1

भवानेतादृशो लोके वेदवेदाङ्गपारगः

ब्रूहि किं कुर्वतः कर्म भवेद्गतिरनुत्तमा

Mahabharata

Vana Parva, Adhyaya 178, Verse 2

पात्रे दत्त्वा प्रियाण्युक्त्वा सत्यमुक्त्वा च भारत

अहिंसानिरतः स्वर्गं गच्छेदिति मतिर्मम

Mahabharata

Vana Parva, Adhyaya 178, Verse 3

दानाद्वा सर्प सत्याद्वा किमतो गुरु दृश्यते

अहिंसाप्रिययोश्चैव गुरुलाघवमुच्यताम्

Mahabharata

Vana Parva, Adhyaya 178, Verse 4

दाने रतत्वं सत्यं च अहिंसा प्रियमेव च

एषां कार्यगरीयस्त्वाद्दृश्यते गुरुलाघवम्

Mahabharata

Vana Parva, Adhyaya 178, Verse 5

कस्माच्चिद्दानयोगाद्धि सत्यमेव विशिष्यते

सत्यवाक्याच्च राजेन्द्र किंचिद्दानं विशिष्यते

Mahabharata

Vana Parva, Adhyaya 178, Verse 6

एवमेव महेष्वास प्रियवाक्यान्महीपते

अहिंसा दृश्यते गुर्वी ततश्च प्रियमिष्यते

Mahabharata

Vana Parva, Adhyaya 178, Verse 7

एवमेतद्भवेद्राजन्कार्यापेक्षमनन्तरम्

यदभिप्रेतमन्यत्ते ब्रूहि यावद्ब्रवीम्यहम्

Mahabharata

Vana Parva, Adhyaya 178, Verse 8

कथं स्वर्गे गतिः सर्प कर्मणां च फलं ध्रुवम्

अशरीरस्य दृश्येत विषयांश्च ब्रवीहि मे

Mahabharata

Vana Parva, Adhyaya 178, Verse 9

तिस्रो वै गतयो राजन्परिदृष्टाः स्वकर्मभिः

मानुष्यं स्वर्गवासश्च तिर्यग्योनिश्च तत्त्रिधा

Mahabharata

Vana Parva, Adhyaya 178, Verse 10

तत्र वै मानुषाल्लोकाद्दानादिभिरतन्द्रितः

अहिंसार्थसमायुक्तैः कारणैः स्वर्गमश्नुते

Mahabharata

Vana Parva, Adhyaya 178, Verse 11

विपरीतैश्च राजेन्द्र कारणैर्मानुषो भवेत्

तिर्यग्योनिस्तथा तात विशेषश्चात्र वक्ष्यते

Mahabharata

Vana Parva, Adhyaya 178, Verse 12

कामक्रोधसमायुक्तो हिंसालोभसमन्वितः

मनुष्यत्वात्परिभ्रष्टस्तिर्यग्योनौ प्रसूयते

Mahabharata

Vana Parva, Adhyaya 178, Verse 13

तिर्यग्योन्यां पृथग्भावो मनुष्यत्वे विधीयते

गवादिभ्यस्तथाश्वेभ्यो देवत्वमपि दृश्यते

Mahabharata

Vana Parva, Adhyaya 178, Verse 14

सोऽयमेता गतीः सर्वा जन्तुश्चरति कार्यवान्

नित्ये महति चात्मानमवस्थापयते नृप

Mahabharata

Vana Parva, Adhyaya 178, Verse 15

जातो जातश्च बलवान्भुङ्क्ते चात्मा स देहवान्

फलार्थस्तात निष्पृक्तः प्रजालक्षणभावनः

Mahabharata

Vana Parva, Adhyaya 178, Verse 16

शब्दे स्पर्शे च रूपे च तथैव रसगन्धयोः

तस्याधिष्ठानमव्यग्रं ब्रूहि सर्प यथातथम्

Mahabharata

Vana Parva, Adhyaya 178, Verse 17

किं न गृह्णासि विषयान्युगपत्त्वं महामते

एतावदुच्यतां चोक्तं सर्वं पन्नगसत्तम

Mahabharata

Vana Parva, Adhyaya 178, Verse 18

यदात्मद्रव्यमायुष्मन्देहसंश्रयणान्वितम्

करणाधिष्ठितं भोगानुपभुङ्क्ते यथाविधि

Mahabharata

Vana Parva, Adhyaya 178, Verse 19

ज्ञानं चैवात्र बुद्धिश्च मनश्च भरतर्षभ

तस्य भोगाधिकरणे करणानि निबोध मे

Mahabharata

Vana Parva, Adhyaya 178, Verse 20

मनसा तात पर्येति क्रमशो विषयानिमान्

विषयायतनस्थेन भूतात्मा क्षेत्रनिःसृतः

Mahabharata

Vana Parva, Adhyaya 178, Verse 21

अत्र चापि नरव्याघ्र मनो जन्तोर्विधीयते

तस्माद्युगपदस्यात्र ग्रहणं नोपपद्यते

Mahabharata

Vana Parva, Adhyaya 178, Verse 22

स आत्मा पुरुषव्याघ्र भ्रुवोरन्तरमाश्रितः

द्रव्येषु सृजते बुद्धिं विविधेषु परावराम्

Mahabharata

Vana Parva, Adhyaya 178, Verse 23

बुद्धेरुत्तरकालं च वेदना दृश्यते बुधैः

एष वै राजशार्दूल विधिः क्षेत्रज्ञभावनः

Mahabharata

Vana Parva, Adhyaya 178, Verse 24

मनसश्चापि बुद्धेश्च ब्रूहि मे लक्षणं परम्

एतदध्यात्मविदुषां परं कार्यं विधीयते

Mahabharata

Vana Parva, Adhyaya 178, Verse 25

बुद्धिरात्मानुगा तात उत्पातेन विधीयते

तदाश्रिता हि संज्ञैषा विधिस्तस्यैषणे भवेत्

Mahabharata

Vana Parva, Adhyaya 178, Verse 26

बुद्धेर्गुणविधिर्नास्ति मनस्तु गुणवद्भवेत्

बुद्धिरुत्पद्यते कार्ये मनस्तूत्पन्नमेव हि

Mahabharata

Vana Parva, Adhyaya 178, Verse 27

एतद्विशेषणं तात मनोबुद्ध्योर्मयेरितम्

त्वमप्यत्राभिसंबुद्धः कथं वा मन्यते भवान्

Mahabharata

Vana Parva, Adhyaya 178, Verse 28

अहो बुद्धिमतां श्रेष्ठ शुभा बुद्धिरियं तव

विदितं वेदितव्यं ते कस्मान्मामनुपृच्छसि

Mahabharata

Vana Parva, Adhyaya 178, Verse 29

सर्वज्ञं त्वां कथं मोह आविशत्स्वर्गवासिनम्

एवमद्भुतकर्माणमिति मे संशयो महान्

Mahabharata

Vana Parva, Adhyaya 178, Verse 30

सुप्रज्ञमपि चेच्छूरमृद्धिर्मोहयते नरम्

वर्तमानः सुखे सर्वो नावैतीति मतिर्मम