Vana Parva, Adhyaya 177, Verse 1
युधिष्ठिरस्तमासाद्य सर्पभोगाभिवेष्टितम्
दयितं भ्रातरं वीरमिदं वचनमब्रवीत्
Containing 33 sacred Sanskrit shlokas with multi-author commentaries and translations.
युधिष्ठिरस्तमासाद्य सर्पभोगाभिवेष्टितम्
दयितं भ्रातरं वीरमिदं वचनमब्रवीत्
कुन्तीमातः कथमिमामापदं त्वमवाप्तवान्
कश्चायं पर्वताभोगप्रतिमः पन्नगोत्तमः
स धर्मराजमालक्ष्य भ्राता भ्रातरमग्रजम्
कथयामास तत्सर्वं ग्रहणादि विचेष्टितम्
देवो वा यदि वा दैत्य उरगो वा भवान्यदि
सत्यं सर्प वचो ब्रूहि पृच्छति त्वां युधिष्ठिरः
किमाहृत्य विदित्वा वा प्रीतिस्ते स्याद्भुजंगम
किमाहारं प्रयच्छामि कथं मुञ्चेद्भवानिमम्
नहुषो नाम राजाहमासं पूर्वस्तवानघ
प्रथितः पञ्चमः सोमादायोः पुत्रो नराधिप
क्रतुभिस्तपसा चैव स्वाध्यायेन दमेन च
त्रैलोक्यैश्वर्यमव्यग्रं प्राप्तो विक्रमणेन च
तदैश्वर्यं समासाद्य दर्पो मामगमत्तदा
सहस्रं हि द्विजातीनामुवाह शिबिकां मम
ऐश्वर्यमदमत्तोऽहमवमन्य ततो द्विजान्
इमामगस्त्येन दशामानीतः पृथिवीपते
न तु मामजहात्प्रज्ञा यावदद्येति पाण्डव
तस्यैवानुग्रहाद्राजन्नगस्त्यस्य महात्मनः
षष्ठे काले ममाहारः प्राप्तोऽयमनुजस्तव
नाहमेनं विमोक्ष्यामि न चान्यमभिकामये
प्रश्नानुच्चारितांस्तु त्वं व्याहरिष्यसि चेन्मम
अथ पश्चाद्विमोक्ष्यामि भ्रातरं ते वृकोदरम्
ब्रूहि सर्प यथाकामं प्रतिवक्ष्यामि ते वचः
अपि चेच्छक्नुयां प्रीतिमाहर्तुं ते भुजंगम
वेद्यं यद्ब्राह्मणेनेह तद्भवान्वेत्ति केवलम्
सर्पराज ततः श्रुत्वा प्रतिवक्ष्यामि ते वचः
ब्राह्मणः को भवेद्राजन्वेद्यं किं च युधिष्ठिर
ब्रवीह्यतिमतिं त्वां हि वाक्यैरनुमिमीमहे
सत्यं दानं क्षमा शीलमानृशंस्यं दमो घृणा
दृश्यन्ते यत्र नागेन्द्र स ब्राह्मण इति स्मृतः
वेद्यं सर्प परं ब्रह्म निर्दुःखमसुखं च यत्
यत्र गत्वा न शोचन्ति भवतः किं विवक्षितम्
चातुर्वर्ण्यं प्रमाणं च सत्यं च ब्रह्म चैव ह
शूद्रेष्वपि च सत्यं च दानमक्रोध एव च
आनृशंस्यमहिंसा च घृणा चैव युधिष्ठिर
वेद्यं यच्चात्थ निर्दुःखमसुखं च नराधिप
ताभ्यां हीनं पदं चान्यन्न तदस्तीति लक्षये
शूद्रे चैतद्भवेल्लक्ष्यं द्विजे तच्च न विद्यते
न वै शूद्रो भवेच्छूद्रो ब्राह्मणो न च ब्राह्मणः
यत्रैतल्लक्ष्यते सर्प वृत्तं स ब्राह्मणः स्मृतः
यत्रैतन्न भवेत्सर्प तं शूद्रमिति निर्दिशेत्
यत्पुनर्भवता प्रोक्तं न वेद्यं विद्यतेति ह
ताभ्यां हीनमतीत्यात्र पदं नास्तीति चेदपि
एवमेतन्मतं सर्प ताभ्यां हीनं न विद्यते
यथा शीतोष्णयोर्मध्ये भवेन्नोष्णं न शीतता
एवं वै सुखदुःखाभ्यां हीनमस्ति पदं क्वचित्
एषा मम मतिः सर्प यथा वा मन्यते भवान्
यदि ते वृत्ततो राजन्ब्राह्मणः प्रसमीक्षितः
व्यर्था जातिस्तदायुष्मन्कृतिर्यावन्न दृश्यते
जातिरत्र महासर्प मनुष्यत्वे महामते
संकरात्सर्ववर्णानां दुष्परीक्ष्येति मे मतिः
सर्वे सर्वास्वपत्यानि जनयन्ति यदा नराः
वाङ्मैथुनमथो जन्म मरणं च समं नृणाम्
इदमार्षं प्रमाणं च ये यजामह इत्यपि
तस्माच्छीलं प्रधानेष्टं विदुर्ये तत्त्वदर्शिनः
प्राङ्नाभिवर्धनात्पुंसो जातकर्म विधीयते
तत्रास्य माता सावित्री पिता त्वाचार्य उच्यते
वृत्त्या शूद्रसमो ह्येष यावद्वेदे न जायते
अस्मिन्नेवं मतिद्वैधे मनुः स्वायम्भुवोऽब्रवीत्